कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

द्व्यक्षरकाण्डः · नानालिङ्गाध्यायः (9/14)

स्त्रियां तु तस्य भार्यायां मनावी च मनाय्यपि ।मयुर्द्वे किन्नरे ना तु प्रक्षेपे मन्तुवाक् तु ना ॥ ९६१ ॥
2.5.961 · p. 125
अनुष्टुप्
वैमनस्येऽपराधे च तथा शोके प्रजापतौ ।अजयस्त्वाह विज्ञे त्रिस्तथैव स्यात् प्रियंवदे ॥ ९६२ ॥
2.5.962 · p. 125
अनुष्टुप्
मन्युर्दैन्ये कृपायां च शोके क्रोधे क्रता च ना ।त्रिषु मेधाविनि द्वे तु मद्गुः सलिलवायसे ॥ ९६३ ॥
2.5.963 · p. 125
अनुष्टुप्
मर्त्यजात्यन्तरे निष्ट्यवरुटीजे तथा पुनः ।माहिष्य आयुर्वेदेन जीवत्यम्बष्ठसंज्ञके ॥ ९६४ ॥
2.5.964 · p. 125
अनुष्टुप्
स्यात् पारधैनुके चापि यस्याघोषणवृत्तिता ।मस्तुस्तु नृस्त्रियोर्मुष्टौ पिण्डिताङ्गुलिरूपके ॥ ९६५ ॥
2.5.965 · p. 125
अनुष्टुप्
वैजयन्त्यामिदं प्रोक्तं दधिमण्डे तु तन्नपि ।मर्जूः सम्मार्जनीशुद्ध्योर्नदीतीरे परः पुनः ॥ ९६६ ॥
2.5.966 · p. 125
अनुष्टुप्
नद्यां तीरेऽपि चेत्याह शिलायां च स्त्रियामियम् ।रजके तु द्वयोः कश्चिन्ना तु मन्ता प्रजापतौ ॥ ९६७ ॥
2.5.967 · p. 125
अनुष्टुप्
त्रिरेष्ट्रज्ञातृविद्वत्सु महत् तु क्लीबवारिणोः ।राज्ये वृन्दे च पूज्ये तु त्रि बृहत्यपि ना पुनः ॥ ९६८ ॥
2.5.968 · p. 125
अनुष्टुप्
महर्लोके च बुद्धौ च महती तु स्त्रियामियम् ।त्रिवृत्संज्ञलताजातौ वीणायां नारदस्य च ॥ ९६९ ॥
2.5.969 · p. 125
अनुष्टुप्
दृश्यते वेदसूत्रेषु रात्रेरवयवान्तरे ।महच्छब्दस्तस्य लिङ्गं विविञ्चन्तु विचक्षणाः ॥ ९७० ॥
2.5.970 · p. 126
अनुष्टुप्
रात्रेरवयवः सोऽपि पश्चिमो याम ईरितः ।कैश्चिदन्यैस्त्रिभागावशेषा रात्रिरितीरितः ॥ ९७१ ॥
2.5.971 · p. 126
अनुष्टुप्
मरुत् तु ना देवभेदे पवने शिखरे गिरेः ।केचित् तु मरुदेशेऽपि रूपे चर्त्विजि नप् पुनः ॥ ९७२ ॥
2.5.972 · p. 126
अनुष्टुप्
हेम्नि स्याद्देवमात्रे तु द्वे स्पृक्कायां तु सा स्त्रियाम् ।मद्वा पुंस्यृषिभेदे स्यात् क्रीडाकान्तिशिरः सु च ॥ ९७३ ॥
2.5.973 · p. 126
अनुष्टुप्
तृप्तौ तु कश्चित् त्रिषु तु मदितर्यथ मत्त्रिवाक् ।राज्ञो धीसचिवे पुंसि स्यात् तु मन्त्रवति त्रिषु ॥ ९७४ ॥
2.5.974 · p. 126
अनुष्टुप्
माला स्त्री स्रजि मालस्तु मर्त्यजात्यन्तरे द्वयोः ।सूतीशूद्रोद्भवेऽत्रार्थे स्त्र्यर्थे मालीति जातिङीष् ॥ ९७५ ॥
2.5.975 · p. 126
अनुष्टुप्
पुमांस्तु कालपर्ण्याख्यतुलस्यां च कठिञ्जरे ।धारणे चान्तरद्वीपे पुनः क्ली दक्षिणामुतः ॥ ९७६ ॥
2.5.976 · p. 126
अनुष्टुप्
वर्षा(त्) स्याद्भारतात् त्रिस्तु प्रहतक्षेत्रभूतले ।माया स्त्री शाम्बरीबुद्ध्योर्विष्णोर्नवसु शक्तिषु ॥ ९७७ ॥
2.5.977 · p. 126
अनुष्टुप्
एकस्यां साङ्ख्यतत्त्वे च प्रधानाख्येऽथ सा त्रिषु ।मायते यश्च मां याति तत्रापि स्यादथ स्त्रियाम् ॥ ९७८ ॥
2.5.978 · p. 126
अनुष्टुप्
मात्रा प्रवृत्तौ कर्णस्य परिष्कारान्तरे धने ।परिच्छदे परिच्छेदे शैलेऽन्ये त्वेकदेशके ॥ ९७९ ॥
2.5.979 · p. 126
अनुष्टुप्
ह्रस्ववर्णप्रयोगस्य काले पारे तु कश्चन ।स्यात् तूत्तरपदे क्लीबं मात्रं कार्त्स्न्येऽवधारणे ॥ ९८० ॥
2.5.980 · p. 126
अनुष्टुप्
अन्ये तु त्रायते मां यस्तत्र त्रिष्विति मन्वते ।मानं तु क्ली परिच्छेदे प्रस्थादौ चापि हिंसने ॥ ९८१ ॥
2.5.981 · p. 127
अनुष्टुप्
लग्नाद्दशमराशौ च विदुः साव्वँत्सरा इदम् ।प्रक्षेपे प्रणिदाने च सम्भवे सम्भवस्त्वसौ ॥ ९८२ ॥
2.5.982 · p. 127
अनुष्टुप्
आधारानतिरिक्तत्वमाधेयस्येह ना पुनः ।ज्ञाने चित्तसमुन्नत्यां पूजायां च स्त्रियां पुनः ॥ ९८३ ॥
2.5.983 · p. 127
अनुष्टुप्
मानी कुडुबसंज्ञस्य परिमाणस्य सा द्वये ।म्लानं म्लानवति त्रि स्यात् क्ली तु म्लानौ द्वयोः पुनः ॥ ९८४ ॥
2.5.984 · p. 127
अनुष्टुप्
मण्डूकभेदे गृहजे मारस्तु नरि मन्मथे ।मृतिमारणयोः स्त्री तु मारी स्याद्देवतान्तरे ॥ ९८५ ॥
2.5.985 · p. 127
अनुष्टुप्
देवतान्तरमप्येतत् कालरात्रीति सज्जनः ।माल्यं क्ली कुसुमे पुष्पमालायां चाथ भेद्यवत् ॥ ९८६ ॥
2.5.986 · p. 127
अनुष्टुप्
धार्ये माध्यस्तु कुन्दाख्यद्रुमे ना प्रसवेऽस्य नप् ।माघसाधौ पुनस्त्रि स्यात् पौर्णमास्यां पुनः स्त्रियाम् ॥ ९८७ ॥
2.5.987 · p. 127
अनुष्टुप्
मघानक्षत्रयुक्तायां माघी मासे तु तद्वति ।माघो ना त्रिर्मघासंज्ञनक्षत्रयुतकालजे ॥ ९८८ ॥
2.5.988 · p. 127
अनुष्टुप्
मार्गो नाध्वनि मार्ष्टौ च मार्गशीर्षाख्यमासि च ।तथा मृगमदे सौम्यनक्षत्रेऽप्यब्रवीदिदम् ॥ ९८९ ॥
2.5.989 · p. 127
अनुष्टुप्
वैजयन्त्यां नृस्त्रियोस्तु मार्गा मार्गणकर्मणि ।मार्गी तु पौर्णमास्यां स्त्री मार्गशीर्ष्यां त्रिषु त्वियम् ॥ ९९० ॥
2.5.990 · p. 127
अनुष्टुप्
मृगस्य स्याद्विकारादौ मांसं तु पिशिते नपि ।वाक्पतिस्तु नरेऽप्याह निर्मूलत्वादसाधु तत् ॥ ९९१ ॥
2.5.991 · p. 127
अनुष्टुप्
मांसी तु स्त्र्यामिषीसंज्ञगन्धद्रव्येऽथ माषवाक् ।ना क्लीबं चापरे वृष्यसंज्ञधान्यान्तरे तथा ॥ ९९२ ॥
2.5.992 · p. 127
अनुष्टुप्
पञ्चगुञ्जात्मकोन्मानभेदेऽन्येषां पुनर्मतम् ।तण्डुलोन्मानतुलिते वस्तुनीत्यपरः पुनः ॥ ९९३ ॥
2.5.993 · p. 128
अनुष्टुप्
कार्षापणप्रभेदेऽथ पुंस्येव मषणे विदुः ।मषणं हिंसनं विंद्यात् सर्वलोकतते पुनः ॥ ९९४ ॥
2.5.994 · p. 128
अनुष्टुप्
मृत्यौ मरणसंज्ञे स्त्री मारिर्मारयतौ पुनः ।धातौ ना मातृशब्दस्तु पार्वत्यां जननीगवोः ॥ ९९५ ॥
2.5.995 · p. 128
अनुष्टुप्
ब्राह्म्याद्यासु च देवीषु वेषणीसरितोरपि ।अकारादिकवर्णानामाम्नाये तारकासु च ॥ ९९६ ॥
2.5.996 · p. 128
अनुष्टुप्
अश्विन्यादिषु पौष्याख्यपौर्णमास्यां च सा स्त्रियाम् ।मानकारिणि तु त्रि स्यात् स्त्र्यर्थे मात्रीति तत्र च ॥ ९९७ ॥
2.5.997 · p. 128
अनुष्टुप्
मित्रं तु भेषजे क्लीबं स्थौणेयाख्ये सुहृद्यपि ।लग्नाच्चतुर्थराशौ च मित्रं साव्वँत्सरा विदुः ॥ ९९८ ॥
2.5.998 · p. 128
अनुष्टुप्
ना त्वर्के चार्कभेदे च मिषं तु क्ली छलेऽथ तत् ।घर्घरीनृपसम्भूते मर्त्यजात्यन्तरे द्वयोः ॥ ९९९ ॥
2.5.999 · p. 128
अनुष्टुप्
मीनो ना द्वादशे राशौ द्वे तु मत्स्ये त्रि हिंसिते ।यष्टौ तु मीना स्त्री क्ली तु हिंसने मीढवाक् पुनः ॥ १००० ॥
2.5.1000 · p. 128
अनुष्टुप्
मेषे द्वयोर्मूत्रणे क्ली भेद्यलिङ्गं तु मूत्रिते ।देवरे तु नियुक्ता या यात्यन्यं साभिसारिका ॥ १००१ ॥
2.5.1001 · p. 128
अनुष्टुप्
तस्यां मीढा स्त्रियां मीरं पुनः स्यात् क्लीबलिङ्गकम् ।मांस्पचन्यामुखायां ना पुनरब्धौ नृनप् पुनः ॥ १००२ ॥
2.5.1002 · p. 128
अनुष्टुप्
मुण्डः स्यान्मस्तके त्रिस्तु परिवाषितकेशके ।स्त्री तु मुण्डा च मुण्डी च स्तम्बे श्रमणिकाह्वये ॥ १००३ ॥
2.5.1003 · p. 128
अनुष्टुप्
सा तु मुण्डैव भिक्षुक्यां मुण्डने तु नरस्त्रियोः ।अजयस्त्वाह मुख्यं स्यात् क्ली वक्रोपाययोरिति ॥ १००४ ॥
2.5.1004 · p. 128
अनुष्टुप्
त्रिषु तु स्यान्मुखभवे प्रधाने प्रथमेऽपि च ।मुष्कस्तु वृषणे न स्त्री स्त्रीभगावयवे तु ना ॥ १००५ ॥
2.5.1005 · p. 129
अनुष्टुप्
मुक्ता स्त्री मौक्तिके त्रिस्तु विसृष्टेऽतीतसंसृतौ ।मुस्ता तु मुस्तके लिङ्गत्रये पुंशण्डयोः पुनः ॥ १००६ ॥
2.5.1006 · p. 129
अनुष्टुप्
विषभेदे मुरा तु स्त्री गन्धकुट्याख्यभेषजे ।दैत्यभेदे तु ना मुद्रा पुनः स्यादप्सरोन्तरे ॥ १००७ ॥
2.5.1007 · p. 129
अनुष्टुप्
लाञ्छने चाङ्गुलीये च यत्तु स्याल्लिखिताक्षरम् ।हस्तविन्यासभेदेषु स्थापनीनिष्ठुरादिषु ॥ १००८ ॥
2.5.1008 · p. 129
अनुष्टुप्
मुद्रस्तु दातरि त्रि स्यान्मुनिस्तु स्यादृषौ पुमान् ।अगस्त्यर्षौ च सुगते कुशे दमनके तथा ॥ १००९ ॥
2.5.1009 · p. 129
अनुष्टुप्
अगस्त्यसंज्ञवृक्षे च मण्डूके तु द्वयोस्त्रि तु ।वाचंयमेऽथ मुष्टिः स्त्रीपुंसयोः फलकादिनः ॥ १०१० ॥
2.5.1010 · p. 129
अनुष्टुप्
खड्गादिनश्च ग्रहणप्रदेशे पलसंज्ञके ।उन्मानभेदे सुदृढपिण्डिताङ्गुलिसंहतौ ॥ १०११ ॥
2.5.1011 · p. 129
अनुष्टुप्
धानुष्कहस्तविन्यासभेदे ग्राह्ये च मुष्टिना ।द्रव्ये मूलं तु नप्यन्ये पुंस्यप्यादिसमीपयोः ॥ १०१२ ॥
2.5.1012 · p. 129
अनुष्टुप्
नक्षत्रभेदे पादे च भूरुहाणां वशीकृतौ ।स्वीये च कारणे चाथ मूल्यं वेतनवस्नयोः ॥ १०१३ ॥
2.5.1013 · p. 129
अनुष्टुप्
क्लीबं त्रिषु तु यस्य स्यान्माषमुद्गादिवस्तुनः ।ग्रहणे मूलमुत्पाट्यं तेषु माषादिवस्तुपु ॥ १०१४ ॥
2.5.1014 · p. 129
अनुष्टुप्
यः पटादिरुपादानद्रव्यतुल्यप्रयोजनः ।तत्रापि मूतशब्दस्तु व्रीहावातञ्चने च ना ॥ १०१५ ॥
2.5.1015 · p. 129
अनुष्टुप्
आचमन्यां तृणैर्बद्धभारे व्रीह्यादिवस्तुनः ।वस्त्रवेष्टनबन्धेऽथ बद्धे त्रिः क्ली तु बन्धने ॥ १०१६ ॥
2.5.1016 · p. 129
अनुष्टुप्
मूकस्तु त्रिष्ववाचि स्यात् क्लीबमाविलवारिणि ।अश्वायां वेसराज्जाते चतुष्पादन्तरे द्वयोः ॥ १०१७ ॥
2.5.1017 · p. 130
अनुष्टुप्
दैत्यभेदे तु पुल्लिँङ्गो यो वराहत्वमागतः ।किरातार्जुनयोर्मध्ये स्पर्धाहेतुतया तयोः ॥ १०१८ ॥
2.5.1018 · p. 130
अनुष्टुप्
तैजसावर्तनीसंज्ञे पुनर्लोहकृतां स्त्रियाम् ।भाण्डे मूषाथ नृस्त्री स्याच्चौर्ये चोरे तु स त्रिषु ॥ १०१९ ॥
2.5.1019 · p. 130
अनुष्टुप्
प्रहेलिकान्तरे तु स्त्री मूढा स्यात् काव्यकारिणाम् ।त्रि तु स्यात् तन्द्रितेऽप्यज्ञे क्रुद्धमूर्च्छितयोरपि ॥ १०२० ॥
2.5.1020 · p. 130
अनुष्टुप्
क्लीबं तु मोहने ना तु पश्वन्वेषणयोर्मृगः ।मृगशीर्षाख्यनक्षत्रे तद्युक्ते कालमात्रके ॥ १०२१ ॥
2.5.1021 · p. 130
अनुष्टुप्
मकराह्वयराशौ च विदुः सांवत्सरा अमुम् ।द्वे तु हस्तिविशेषे च कुरङ्गेऽप्यथ भेद्यवत् ॥ १०२२ ॥
2.5.1022 · p. 130
अनुष्टुप्
मृतः प्रेते याचिते तु भैक्षे क्ली मरणेऽपि च ।मृत्युस्तु मरणे न क्ली पुमानेवान्तकेऽथ नप् ॥ १०२३ ॥
2.5.1023 · p. 130
अनुष्टुप्
मृदु वङ्गे कोमले तु त्रि स्यादकठिनेऽपि च ।मेघ्यः प्रावृषि ना त्रिस्तु मेघसाधुनि तद्भवे ॥ १०२४ ॥
2.5.1024 · p. 130
अनुष्टुप्
मेधा स्त्री धारणाशक्तधिषणायां धनेऽपि च ।ना तु यज्ञे सङ्गमे तु नृस्त्री मेधाविनि त्रिषु ॥ १०२५ ॥
2.5.1025 · p. 130
अनुष्टुप्
मेध्यं तु शुचिनि त्रिः क्ली बले धनसुवर्णयोः ।ना तु मुञ्जेऽथ नद्यां स्त्री मेध्यार्कस्य तु रश्मिषु ॥ १०२६ ॥
2.5.1026 · p. 130
अनुष्टुप्
वृष्टिसर्ज्जनकार्येषु शतेष्वेव चतुर्ष्वपि ।द्वितीये रश्मिषु शते मेध्या मेषः पुनर्नरि ॥ १०२७ ॥
2.5.1027 · p. 130
अनुष्टुप्
सर्वेषां प्रथमे राशावुरभ्रे तु द्वयोरयम् ।हिमोत्सर्गार्थरश्मीनां शतेषु त्रिषु कुत्रचित् ॥ १०२८ ॥
2.5.1028 · p. 130
अनुष्टुप्
शते रश्मिषु मे(ध्यो?ष्यो)ऽथ मेनो ना पूर्वपार्थिवे ।पृषदश्वाह्वये स्त्री तु मेना नार्यां स्त्रियां पुनः ॥ १०२९ ॥
2.5.1029 · p. 131
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मेहा भूमौ पुमान् मूत्रव्याधिभेदेऽपि मूत्रणे ।म्लेच्छाः स्युर्म्लेच्छवाचो ये विप्रकृष्टा वनौकसः ॥ १०३० ॥
2.5.1030 · p. 131
अनुष्टुप्
तत्र द्वयोर्म्लेच्छने तु म्लेच्छा नृस्त्री नपि त्वदः ।ताम्रे मेला तु(मे?म)प्यां स्त्री मेलस्तु नरि सङ्गमे ॥ १०३१ ॥
2.5.1031 · p. 131
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ला (syllables merged)
मेदा तु स्त्र्योषधीभेदे मेदने ना द्वयोः पुनः ।वैदेहकनिषादीजे मर्त्यजात्यन्तरे भवेत् ॥ १०३२ ॥
2.5.1032 · p. 131
अनुष्टुप्
मेही तु द्वीपिसंज्ञे स्याद् व्याघ्रजात्यन्तरे द्वयोः ।भेद्यलिङ्गं तु यस्यास्ति मेहस्तत्र द्वयोः पुनः ॥ १०३३ ॥
2.5.1033 · p. 131
अनुष्टुप्
मैत्रो विप्रे तथान्यत्र मर्त्यजात्यन्तरेऽपि च ।वैश्यपूर्वकवैश्याजे व्रात्यात् स्यात् तु नपुंसकम् ॥ १०३४ ॥
2.5.1034 · p. 131
अनुष्टुप्
पुरीषोत्सर्जने मित्रसम्बन्धिनि तु स त्रिषु ।स्त्रीशण्डयोस्तु मित्रत्वे मैत्री मोचा तु शल्मलौ ॥ १०३५ ॥
2.5.1035 · p. 131
अनुष्टुप्
कदलीमात्र इत्येके सुगन्ध्यल्पफला तु या ।तस्यां कदल्यामित्यन्ये वृक्षस्य तु रसे पुमान् ॥ १०३६ ॥
2.5.1036 · p. 131
अनुष्टुप्
शिग्रौ तु कश्चित् पाटल्यां पुनः स्त्रीपुंसयोरपि ।मोकस्तु मोचने शिष्ये ना चतुष्पदि तु द्वयोः ॥ १०३७ ॥
2.5.1037 · p. 131
अनुष्टुप्
मोकी तु रात्रौ स्त्री मौढी पुनर्भक्षान्तरे स्त्रियाम् ।मर्मरासंज्ञके मूढसम्बन्धिनि तु सा त्रिषु ॥ १०३८ ॥
2.5.1038 · p. 131
अनुष्टुप्
मौलिस्तु नृस्त्रियोर्मूर्ध्नि चूडामकुटयोरपि ।तथा संयतकेशेषु यक्षो वैश्रवणे पुमान् ॥ १०३९ ॥
2.5.1039 · p. 131
अनुष्टुप्
देवजात्यन्तरे तु द्वे स्वाषेयाख्ये तथा शुनि ।यमो वैवस्वते पुंसि यमने च शनैश्चरे ॥ १०४० ॥
2.5.1040 · p. 132
अनुष्टुप्
शब्दवर्णविशेषेषु शिक्षाकाराश्चतुर्ष्वपि ।शरीरसाधनापेक्षे सत्यादौ नित्यकर्मणि ॥ १०४१ ॥
2.5.1041 · p. 132
अनुष्टुप्
वल्गिताख्यस्य घोटानां गतिभेदस्य चाष्टसु ।भेदेष्वेकत्र भेदे स्यात् क्ली तु युग्मे त्रिषु त्वदः ॥ १०४२ ॥
2.5.1042 · p. 132
अनुष्टुप्
यमजे युग्मवति च यमी तु यमुनाधुनौ ।स्त्री यम्याविति तु द्यावापृथिव्योर्द्वे तु वायसे ॥ १०४३ ॥
2.5.1043 · p. 132
अनुष्टुप्
हीनाधिकाङ्गतुरगेऽप्यथ क्लीबं यतं स्मृतम् ।यमने हस्तिपानां च पादकर्मणि तत् स्मरेत् ॥ १०४४ ॥
2.5.1044 · p. 132
अनुष्टुप्
भेद्यलिङ्गं तु बद्धे स्यात् तथैवोपरतेऽपि च ।यन्त्रं तु क्ली लघूपायकर्मनिर्माणसाधने ॥ १०४५ ॥
2.5.1045 · p. 132
अनुष्टुप्
यन्त्रणायां तु नाथ स्त्री यवा रश्मिमनीषयोः ।भेद्यलिङ्गं तु महति यवोत्पत्त्युचिते पुनः ॥ १०४६ ॥
2.5.1046 · p. 132
अनुष्टुप्
क्षेत्रे यव्यं त्रिषु यवसाधौ यवहिते तथा ।यव्या तु नद्यां स्त्री यम्या पुना रात्रौ स्त्रियां त्रि तु ॥ १०४७ ॥
2.5.1047 · p. 132
अनुष्टुप्
विद्याद्यमयितव्ये च यन्तव्ये यमसाधुनि ।यजिस्तु यजमाने द्वे इति कश्चिदवोचत ॥ १०४८ ॥
2.5.1048 · p. 132
अनुष्टुप्
धातौ तु यजतौ पुंस्त्वे यतिस्तु त्रिर्जितेन्द्रिये ।परिव्राज्यपरे स्त्री तु यमने पद्यकारिणाम् ॥ १०४९ ॥
2.5.1049 · p. 132
अनुष्टुप्
पदच्छेदान्तरे कारागृहे धातौ तु पुंस्ययम् ।यततौ यष्टिशब्दस्तु नृस्त्रियोर्दण्डमात्रके ॥ १०५० ॥
2.5.1050 · p. 132
अनुष्टुप्
गृहस्थदण्डे त्वाहान्यस्तोमराख्यायुधान्तरे ।तरवारिसमाख्येऽन्ये खड्गादन्यत्र चायुधे ॥ १०५१ ॥
2.5.1051 · p. 132
अनुष्टुप्
तथा हारलतायां च मधुकाख्ये तु भेषजे ।स्त्री ययीस्तु पुमान् सूर्ये मोक्षमार्गेऽप्यथ द्वयोः ॥ १०५२ ॥
2.5.1052 · p. 133
अनुष्टुप्
अश्वे स्याद्ब्राह्मणे कश्चित् स्त्री त्वाप्तावपरे पुनः ।दिव्यवृष्टौ दीर्घवृष्टावित्यन्ये ययुवाक् पुनः ॥ १०५३ ॥
2.5.1053 · p. 133
अनुष्टुप्
द्वे (त्व?अ)श्वे नाश्वमेधाश्वे यजुस्तु नरि पावके ।अध्वर्यौ यजमाने तु शिष्ये च द्वे यदुस्तु ना ॥ १०५४ ॥
2.5.1054 · p. 133
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 द्वे (syllables merged)
आदिक्षत्त्रियभेदे तद्वंशजेषु तु स द्वयोः ।मनुष्ये चाथ यन्ता ना सूते हस्तिषके त्रि तु ॥ १०५५ ॥
2.5.1055 · p. 133
अनुष्टुप्
कारके यमनस्याथ यावोऽलक्तकमाषयोः ।यवसम्बन्धिनि त्रि स्याद् यामस्तु प्रहरे पुमान् ॥ १०५६ ॥
2.5.1056 · p. 133
अनुष्टुप्
यमने च नपि त्वेष सामभेदेषु केषुचित् ।ण्यो यमाच्चेति वक्तव्यमित्येतद्वचनं यतः ॥ १०५७ ॥
2.5.1057 · p. 133
अनुष्टुप्
अनार्षं तत एवास्य याम्यशब्दस्य दुष्टता ।अर्थेषु यमसम्बन्धियमदेवतकादिषु ॥ १०५८ ॥
2.5.1058 · p. 133
अनुष्टुप्
अतः स इह नास्माभिरुक्तो यातं तु नब्गतौ ।हस्त्यारोहकमर्त्येस्यादङ्कुशस्य च वारणे ॥ १०५९ ॥
2.5.1059 · p. 133
अनुष्टुप्
गते तु त्रिर्यतियतसम्बन्धिनि च नप् पुनः ।अपि पुंस्यपरे यानं वाहने गमने तु नप् ॥ १०६० ॥
2.5.1060 · p. 133
अनुष्टुप्
यातु क्ली राक्षसे ना तु पाप्मन्यन्यस्तु मन्यते ।पथिके त्रिष्विति स्त्री तु याता देवरयोषिति ॥ १०६१ ॥
2.5.1061 · p. 133
अनुष्टुप्
त्रिस्तु गन्तरि तत्रापि स्त्र्यर्थे यात्रीति मन्यताम् ।युगं तु क्ली चतुर्हस्तप्रमाणेऽन्य( तमं ? मते ) पुनः ॥ १०६२ ॥
2.5.1062 · p. 133
अनुष्टुप्metre not read in every line
षडशीत्यङ्गुले माने प्रोक्तं चाङ्गुलमानकम् ।अणुसंज्ञकधान्यानां चतुर्दशकमङ्गुलम् ॥ १०६३ ॥
2.5.1063 · p. 133
अनुष्टुप्
इत्येवमथ कालेषु कृतत्रेतादिषु स्मृतम् ।जन्मपर्वसु युग्मे च त्रि तु तद्वत्यथो नृनप् ॥ १०६४ ॥
2.5.1064 · p. 134
अनुष्टुप्
लाङ्गलस्यन्दनादीनामीषाबन्धनदारुणि ।ऋद्धिसंज्ञकभैषज्ये पुनः स्त्री स्याद्युगाऽथ नप् ॥ १०६५ ॥
2.5.1065 · p. 134
अनुष्टुप्
युग्यं शर्वस्य धनुषि वाहने त्रि तु वोढरि ।युगस्य युगसाधौ च युक्तस्तु त्रिः समाहिते ॥ १०६६ ॥
2.5.1066 · p. 134
अनुष्टुप्
न्याय्यसंयुक्तयोश्चाथ प्रकारे भागवृत्तिकृत् ।हरतेर्गतताच्छील्य इत्यत्र नरमभ्यधात् ॥ १०६७ ॥
2.5.1067 · p. 134
अनुष्टुप्
युतं पृथक्कृते युक्ते वद्धे च त्रिषु नप् पुनः ।मिश्रणे च पृथक्कारे बन्धने च युतादितः(?) ॥ १०६८ ॥
2.5.1068 · p. 134
अनुष्टुप्
युद्धस्तु शत्रौ सङ्ग्रामे ना योद्धरि तु स त्रिषु ।यूथमस्त्री तिरश्चां स्याद् बृन्दे यूथी पुनः स्त्रियाम् ॥ १०६९ ॥
2.5.1069 · p. 134
अनुष्टुप्
मागधीसंज्ञके पुष्पवल्लिभेदेऽथ यूषवाक् ।व्यञ्जनस्य रसे न स्त्री छायायां तु स्त्रियामियम् ॥ १०७० ॥
2.5.1070 · p. 134
अनुष्टुप्
यूषा स्त्रीपुंसयोस्तु स्याद्धिंसायां योग्यवाक् पुनः ।अपूपे चन्दने क्षीरे वाहने च नपुंसकम् ॥ १०७१ ॥
2.5.1071 · p. 134
अनुष्टुप्
वृद्धिसंज्ञौषधे चाथ त्रिः प्रवीणे क्षमे परे ।उपायिन्यपरेऽस्माकं त्वर्हे स्त्रीशण्डयोः पुनः ॥ १०७२ ॥
2.5.1072 · p. 134
अनुष्टुप्
ऋद्धिसंज्ञकभैषज्ये ना तु पुष्याख्यतारके ।अथो पुनर्नवायां स्त्री रक्तायां गुणनेऽपि च ॥ १०७३ ॥
2.5.1073 · p. 134
अनुष्टुप्
भरणीसंज्ञनक्षत्रे पुनर्भूमनि चाप्यथ ।योनिः स्त्रीणां भगे स्थाने गृहे कारणताम्रयोः ॥ १०७४ ॥
2.5.1074 · p. 134
अनुष्टुप्
आकरे च स्त्रियां पुंसि योगी तु नरि पादपे ।नागरङ्गाह्वये यावशूकाख्यलवणे त्रि तु ॥ १०७५ ॥
2.5.1075 · p. 135
अनुष्टुप्
समाधिशीले संयोगशीले योगवति स्मृतः ।योगिनी तु स्त्रियां शैलराजपुत्र्यामथ त्रिषु ॥ १०७६ ॥
2.5.1076 · p. 135
अनुष्टुप्
यौनं स्याद्योनिसम्बन्धे क्ली गर्भाधानसंस्कृतौ ।रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे ॥ १०७७ ॥
2.5.1077 · p. 135
अनुष्टुप्
रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ।देहधातुविशेषे च शृङ्गारादौ फले जले ॥ १०७८ ॥
2.5.1078 · p. 135
अनुष्टुप्
कषायभोजनान्नेषु स्नेहे हिङ्गुलबोलयोः ।लशुने च हरिद्वर्णे शाकस्तम्बान्तरे तथा ॥ १०७९ ॥
2.5.1079 · p. 135
अनुष्टुप्
देवमारिषसंज्ञेऽथ कश्चिदन्यः स्म मन्यते ।मांसेक्षुसुरशुक्तेषु नागे चेति पुमान् परे ॥ १०८० ॥
2.5.1080 · p. 135
अनुष्टुप्