All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
चतुरक्षरकाण्डः (2/9)
देवानां च रथे ज्ञेयो देवधूपन्तु गुल्गुलौ ।देवानामपि धू? स्यादिति ना??दो विदुः ॥ ६४ ॥
6.64 · p. 12
अनुष्टुप्metre not read in every line
धनञ्जयस्तु शक्रेऽग्नौ तथा मध्यमपाण्डवे ।शारीरवायुभेदे च काद्रवेये च भागुरिः ॥ ६५ ॥
6.65 · p. 12
अनुष्टुप्
धनाध्यक्षो वैश्रवणे धनाधिकृतपूरुषे ।वैवस्वते च बुद्वे च धर्मराजो युधिष्ठिरे ॥ ६६ ॥
6.66 · p. 12
अनुष्टुप्
धन्वन्तरिः काशिराजे भास्करेऽप्यथ बुध्यताम् ।कोशातक्यामगमार्गे धामार्गव इति ध्वनिः ॥ ६७ ॥
6.67 · p. 12
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ग (wrong syllable)
धूमकेतुस्तु विज्ञेय उत्पाते पावकेऽप्यथ ।यज्ञे मन्त्रविशेषे च नाराशंसोऽनलेऽप्यथ ॥ ६८ ॥
6.68 · p. 12
अनुष्टुप्
सोमे समुद्रेऽवभृथे निचुम्पुण इति ध्वनिः ।निषङ्गधिस्तु विज्ञेयो रुद्रेऽपि च धनुर्धरे ॥ ६९ ॥
6.69 · p. 12
अनुष्टुप्
नृपयज्ञन्तु सङ्ग्रामे राजसूयादिकेष्वपि ।प्रतिग्रहः क्रियाकारे सैन्यपृष्ठे पतद्ग्रहे ॥ ७० ॥
6.70 · p. 12
अनुष्टुप्
द्विजेभ्यो विधिवद्देये तद्ग्रहे स्वीकृतावपि ।प्रतिग्राहयतेस्त्वर्थे प्रतिग्राहश्च तद्ग्रहे ॥ ७१ ॥
6.71 · p. 12
अनुष्टुप्
प्रतियत्नस्तु संस्कार उपग्रहणलिप्सयोः ।प्रतिश्रयस्तु विज्ञेयः स्थाने गोष्ठ्यां च सूरिभिः ॥ ७२ ॥
6.72 · p. 12
अनुष्टुप्
प्रत्याहारे तथा सत्त्रशाले च विदितागमैः ।आश्रये शाश्वतः प्राह मण्डपेऽप्यजयोऽपठीत् ॥ ७३ ॥
6.73 · p. 12
अनुष्टुप्
अथ प्रतिक्रियामात्रे प्रतीकारो(पि ? हि) भूभुजाम् ।वैरनिर्यातने चापि प्रतिहारस्तु कच्छपे ॥ ७४ ॥
6.74 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्वारे च द्वारपाले च प्रतीकाशस्तु कथ्यते ।गजानां पूर्वपादस्य मूलस्याधःप्रदेशके ॥ ७५ ॥
6.75 · p. 13
अनुष्टुप्
सादृश्येऽप्युत्तरपदभूतोऽथायुधकोशके ।प्रत्याकृतौ प्रत्याकारः प्रत्याहारस्त्वणादिषु ॥ ७६ ॥
6.76 · p. 13
अनुष्टुप्
अप्यक्षरसमाम्नाये प्रत्यानयनकर्मणि ।वाद्यवादकसामग्रीविन्यासे नाट्यगोचरे ॥ ७७ ॥
6.77 · p. 13
अनुष्टुप्
विषयेभ्यः समाहृत्यामिन्द्रियाणामथोच्यते ।प्रत्यासारो व्यूहपार्ष्णौ प्रत्यासरणकर्मणि ॥ ७८ ॥
6.78 · p. 13
अनुष्टुप्
उक्तस्त्वमरदत्तेन चमूकट्यामिति ह्ययम् ।प्रजागमस्तु विज्ञेयः प्रजाया आगमे गमे ॥ ७९ ॥
6.79 · p. 13
अनुष्टुप्
एकाहाहीनसत्राख्ययज्ञक्रतुषु चाप्यथ ।पराशरो व्यासताते शक्रे चाथ प्रभाकरः ॥ ८० ॥
6.80 · p. 13
अनुष्टुप्
रविवह्योरथो पङ्करसः शीधौ तथा रसे ।पङ्कस्याथाम्बुदे स्त्रीणां स्तने मु(क्ते ? स्ते) पयोधरः ॥ ८१ ॥
6.81 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
परिस्पन्दः परिजने स्पन्देऽथ परिवापवाक् ।द्विदीर्घेण परीवापशब्देनैकात्मिका हि सा ॥ ८२ ॥
6.82 · p. 13
अनुष्टुप्
इयं तु लाजेष्वप्युक्ता शिष्टैरथ परिच्छदे ।पर्युप्तावालवाले च परिवापोऽत्र शाश्वतः ॥ ८३ ॥
6.83 · p. 13
अनुष्टुप्
आरोहेऽपीत्यभाषिष्ट स्थाप्ये बीजेऽपि चाजयः ।परिवारः परिजने प्रावारे खड्गकोशके ॥ ८४ ॥
6.84 · p. 14
अनुष्टुप्
स्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे ।परिग्रहस्तु शपथे मूले परिजने तथा ॥ ८५ ॥
6.85 · p. 14
अनुष्टुप्
आदानपत्न्योरर्केन्द्वो राहुवक्रस्थयोरथ ।वीणाया वादनोपाये निर्वादे परिवादवाक् ॥ ८६ ॥
6.86 · p. 14
अनुष्टुप्
परिणाहो विशालत्वे परितो बन्धनेऽपि च ।अथ प्रतिदिवाह्नि स्यादपराह्वेऽपि पठ्यते ॥ ८७ ॥
6.87 · p. 14
अनुष्टुप्
पाञ्चजन्यो हरेः शङ्खे शङ्खमात्रे हुताशने ।पारिजातस्तु पञ्चानामेकस्मिन् देवशाखिनाम् ॥ ८८ ॥
6.88 · p. 14
अनुष्टुप्
वृक्षभेदे च मन्दारपारिभद्रादिभिः पदैः ।प्रसिद्धे पारिभद्रस्तु मन्दाराह्वयपादपे ॥ ८९ ॥
6.89 · p. 14
अनुष्टुप्
तद्भेदे देवदारौ चाप्यथ पारस्करध्वनिः ।देशभेदे तथानर्तनीवृत्स्थनगरान्तरे ॥ ९० ॥
6.90 · p. 14
अनुष्टुप्
पादावर्तः पुनः पादस्यावर्तेऽप्यरघट्टके ।प्राणनाथस्तु विज्ञेयो धर्मराजे तथा प्रिये ॥ ९१ ॥
6.91 · p. 14
अनुष्टुप्
पाणिग्रहो विवाहे स्यात् पाणेश्च ग्रहणे तथा ।स्यात् तु पुण्यजनो यातुधाने साधुजनेऽपि च ॥ ९२ ॥
6.92 · p. 14
अनुष्टुप्
पुरुभोजास्तु मेघे च गिरौ चाथ पृथग्जनः ।मूर्खे नीचे तथा पोटगलस्तु नडसंज्ञके ॥ ९३ ॥
6.93 · p. 14
अनुष्टुप्
आनूपस्तम्बभेदे च काशसंज्ञे च कीर्तितः ।ब्रह्मगर्भस्तु विज्ञेयश्चतुर्वक्रे च मन्मथे ॥ ९४ ॥
6.94 · p. 14
अनुष्टुप्
अथो मरुवको वृक्षभेदे मदनसंज्ञके ।फणिर्जकाख्यस्तम्बे च मणिबन्धध्वनिः पुनः ॥ ९५ ॥
6.95 · p. 14
अनुष्टुप्
पाणिप्रकोष्ठसन्धौ च मणेर्बन्धेऽप्यथोदितः ।मनोरथोऽभिलाषेऽन्यैर्वाञ्छितार्थे तथा परैः ॥ ९६ ॥
6.96 · p. 15
अनुष्टुप्
महाकालस्तु किम्पाके हरे बाणासुरे तथा ।शाश्वतः प्रमथेऽप्याह महाराजस्तु कीर्तितः ॥ ९७ ॥
6.97 · p. 15
अनुष्टुप्
(म?न)खे वैश्रवणे राज्ञि महत्यथ महाबुसः ।यवे हायनसंज्ञे च धान्येऽथ स्यान्महामुनिः ॥ ९८ ॥
6.98 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 खे (syllables merged)
रुद्राक्षे च महर्षौ च मृत्युपुष्पस्तु मस्करे ।इक्षौ चाथो मृगरिपुः सिंहे व्याघ्रेऽप्यथोदितः ॥ ९९ ॥
6.99 · p. 15
अनुष्टुप्
मेघनादो मेघघोष इन्द्रजित्तण्डुलीययोः ।वेणौ तु स्याद्यवफलस्तथा कुटजपादपे ॥ १०० ॥
6.100 · p. 15
अनुष्टुप्
महिषे स्याद्यमरथो यमस्य स्यन्दनेऽपि च ।यादःपतिस्तु वरुणे समुद्रेऽथ युधिष्ठिरः ॥ १०१ ॥
6.101 · p. 15
अनुष्टुप्
धर्मपुत्रेऽपि शक्रेऽथ रत्नाकर इति ध्वनिः ।रत्नानामाकरेऽम्भोधौ रञ्जसानस्तु वारिदे ॥ १०२ ॥
6.102 · p. 15
अनुष्टुप्
धर्मे च राजराजस्तु धनदे राजसत्तमे ।तृणजातौ तु दात्रे च काले चापि लवाणकः ॥ १०३ ॥
6.103 · p. 15
अनुष्टुप्
लक्ष्मीपतिर्नृपे विष्णौ लोकपालस्तु राजनि ।इन्द्रादौ वह्निगर्भस्तु समुद्रे पादपेऽपि च ॥ १०४ ॥
6.104 · p. 15
अनुष्टुप्
वनद्रुमस्त्वगुरुणि वनस्थविटपिन्यपि ।विषभेदे वत्सनाभो वृक्षभेदे च दृश्यते ॥ १०५ ॥
6.105 · p. 15
अनुष्टुप्
व्यवहारो वाक्प्रयोगे सम्बन्धे द्यूतदण्डयोः ।शासने वित्तसंवादे विवादेऽसिवणिज्ययोः ॥ १०६ ॥
6.106 · p. 15
अनुष्टुप्
व्यवच्छेदस्तु विज्ञेयो धनुषः शरमोक्षणे ।व्यावर्तनायां चाथ स्याद् व्यसनव्यतिषङ्गयोः ॥ १०७ ॥
6.107 · p. 16
अनुष्टुप्
ज्ञेयो व्यतिकरोऽत्राह सज्जनः शब्दवित्तमः ।व्याजप्रस्तावसम्पर्काद्युक्ति(व्य ? र्व्य)तिकरध्वनिः ॥ १०८ ॥
6.108 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इत्येवम(र्थ ? त्र)शब्दार्थ विविच्यन्तां मनीषिभिः ।विनायको गणपतौ सुगतेऽथ विरोचनः ॥ १०९ ॥
6.109 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 इ (syllables merged)
अर्केन्दुवह्निष्वसुरराजेऽप्यथ विभीषणः ।पुरन्दरे रावणस्य कनिष्ठेऽप्यथ कथ्यते ॥ ११० ॥
6.110 · p. 16
अनुष्टुप्
विप्रलापो विरोधोक्तौ विप्रलम्भोपमर्दयोः ।विप्रस्य भाषणे चाथ विशेलिम इति ध्वनिः ॥ १११ ॥
6.111 · p. 16
अनुष्टुप्
चन्द्रे सूर्येऽप्यथो बिन्दुतन्त्र इत्यजयोऽपठीत् ।चतुरङ्गे पाशके च विश्वगोप्ता तु शार्ङ्गिणि ॥ ११२ ॥
6.112 · p. 16
अनुष्टुप्
शक्रेऽप्यथो विश्वकर्मा देववर्धकिसूर्ययोः ।अब्जजे वैजयन्त्याह विरिञ्चोऽब्जज उच्यते ॥ ११३ ॥
6.113 · p. 16
अनुष्टुप्
विश्वेदेवास्तु सूर्येऽग्नौ वृकधूपध्वनिः पुनः ।श्रीपिष्टाह्वयनिर्यासे निर्यासे कृत्रिमाह्वये ॥ ११४ ॥
6.114 · p. 16
अनुष्टुप्
वृधसानस्तु पुरुषे मृत्यौ भूमिधनेऽपि च ।वेशवारः पिष्टमांसविशेषे चाप्युपस्करे ॥ ११५ ॥
6.115 · p. 16
अनुष्टुप्
शरवारिः शरमुखे पातक्यशरजीविनोः ।शिशिम्बिष्टस्तु मेघे स्याद् भारद्वाजेऽप्यभाषत ॥ ११६ ॥
6.116 · p. 16
अनुष्टुप्
समूहे स्यात् समुदयः समरे च समुद्गमे ।समुदायस्तु युद्धे स्यात् समूहेऽथ समुच्छ्रयः ॥ ११७ ॥
6.117 · p. 16
अनुष्टुप्
उन्नतौ च विरोधे च समुन्नयपदं पुनः ।समुत्क्षेपे समुदये पृष्ठस्थायिबलेऽपि च ॥ ११८ ॥
6.118 · p. 17
अनुष्टुप्
आचारे(नु ? तु)समारम्भः सम्यगारम्भणेऽपि च ।(सा ? स)म्परायस्तु सङ्ग्रामे विपदुत्तरकालयोः ॥ ११९ ॥
6.119 · p. 17
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 1 आ (syllables merged)
सम्प्रयोगस्तु सुरतेऽप्यन्वयेऽप्यभिधीयते ।संस्तुवानस्तु सोमे स्यान्महर्षौ चापि होतरि ॥ १२० ॥
6.120 · p. 17
अनुष्टुप्
कश्चिदुद्गातरीत्याह संवत्सरपदं पुनः ।अब्दमात्रेऽब्दभेदे च स्यात् तु संवसथध्वनिः ॥ १२१ ॥
6.121 · p. 17
अनुष्टुप्
ग्रामे संवसने चाथ सत्यङ्कारः करार्पणे ।सत्याकृतौ चाथो सर्पराजो राजिलभोगिनाम् ॥ १२२ ॥
6.122 · p. 17
अनुष्टुप्
भेदेष्वेकत्र भेदेऽपि सर्पभुक्संज्ञभोगिनि ।वासुकौ स्तनयित्नुस्तु मेघे मेघस्य गर्जिते ॥ १२३ ॥
6.123 · p. 17
अनुष्टुप्
सुयामुनो वत्सरा(ज ? जे) प्रासादवसुदेवयोः ।स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते ॥ १२४ ॥
6.124 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (syllables merged)
स्नेहपूरः क्षमायां स्यात् स्नेहस्यापि च पूरणे ।सोमवल्कस्तु धवलखदिरे कट्फले तथा ॥ १२५ ॥
6.125 · p. 17
अनुष्टुप्
हन्तकारस्तु भिक्षासु षोडशस्वपि भाषितः ।ग्रासमात्रौदनं भिक्षा हन्तशब्दकृतावपि ॥ १२६ ॥
6.126 · p. 17
अनुष्टुप्
हस्तिमल्लो गणपतौ महेन्द्रस्य च कुञ्जरे ।हस्तिकर्णो रोचकाख्यकम्बले हस्तिनः श्रुतौ ॥ १२७ ॥
6.127 · p. 17
अनुष्टुप्
निवारणार्थे शस्त्रस्य भटानां फलकान्तरे ।हस्तिचारो गजत्रासहेतौ शरभसन्निभे ॥ १२८ ॥
6.128 · p. 17
अनुष्टुप्
शस्त्रभेदे हस्तिनश्च चारे स्यात् तु धनुर्भृताम् ।हस्तावापः शरादाने व्यधनार्थेऽपि पाणिना ॥ १२९ ॥
6.129 · p. 18
अनुष्टुप्
आवापे धान्यबीजादेर्हराहरपदं पुनः ।योग्याचारे तथा प्राणवियोगावसरोत्थिते ॥ १३० ॥
6.130 · p. 18
अनुष्टुप्
निःश्वासे हरिमन्यस्तु पीतमुद्गे हरेरपि ।मन्थेऽथ हरिरोमः स्यात् पुरुहूते विरिञ्चने ॥ १३१ ॥
6.131 · p. 18
अनुष्टुप्
इति चतुरक्षरकाण्डे पुल्लिँङ्गाध्यायः ।
अथ चतुरक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।
अध्यासने च कश्मीरप्रसिद्धनगरान्तरे ।कश्चित् त्वारोपणेऽप्याह व्यवस्थापन एव च ॥ २ ॥
6.2 · p. 18
अनुष्टुप्
अभ्याधानमभिन्यासे वह्यर्थं चेध्मसङ्ग्रहे ।अत्याहितं महाभीत्यां प्राणानाकाङ्क्षिकर्मणि ॥ ३ ॥
6.3 · p. 18
अनुष्टुप्
अवदातं कर्मणि स्यादितिवृत्तेऽवखण्डने ।सज्जनस्त्वप्रधानेऽथो अरविन्दं जलेऽम्बुजे ॥ ४ ॥
6.4 · p. 18
अनुष्टुप्
अन्वाहार्यममावास्याश्राद्धमिष्टेश्च दक्षिणा ।अपस्रानं मृतस्नाने येन स्नातं च वारिणा ॥ ५ ॥
6.5 · p. 18
अनुष्टुप्
त(स्या?त्रा)पि स्यात् तु भूतानां स्वपक्षप्रभवे भये ।भयमात्रेऽप्यहिभयमथो आयतनध्वनिः ॥ ६ ॥
6.6 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
देवालये शरव्ये च गृहमात्रे च तोरणे ।स्थानमात्रे च विज्ञेयमातञ्चनपदं पुनः ॥ ७ ॥
6.7 · p. 19
अनुष्टुप्
आप्यायने च जवने प्रतीवापेऽपि दृश्यते ।आस्कन्दनं स्यादास्कन्दे युद्धेऽप्यास्तरणं पुनः ॥ ८ ॥
6.8 · p. 19
अनुष्टुप्
आस्तीर्णौ च कुथे चापि दर्भाद्यास्तीर्णवस्तुनि ।आयोधनं वधे युद्ध आवेशनपदं पुनः ॥ ९ ॥
6.9 · p. 19
अनुष्टुप्
कुवेशे शिल्पिशालायामथोद्धरणमुन्नये ।(खाता?वान्ता)न्ने शाश्वतस्तून्मूलने भुक्तोज्झितेऽपि च ॥ १० ॥
6.10 · p. 19
अनुष्टुप्metre not read in every line
अथोत्पतनमुत्पत्तावूर्ध्वं गमन एव च ।उत्सर्जनं तु दाने च परित्यागे च कीर्तितम् ॥ ११ ॥
6.11 · p. 19
अनुष्टुप्
उन्मीलनं स्यादुन्मेषे विकासे कुसुमस्य च ।उपधानमुपष्टम्भ उपष्टम्भनसाधने ॥ १२ ॥
6.12 · p. 19
अनुष्टुप्
उच्छीर्षकेऽथोपमानमुपमायां च येन च ।उपमीयेत तत्रापि कपिशीर्षं पुनः कपेः ॥ १३ ॥
6.13 · p. 19
अनुष्टुप्
मूर्ध्नि प्राकारशिखरेऽप्यथ कामपदं भगे ।कामस्यापि पदे कोकनदं तु कथितं बुधैः ॥ १४ ॥
6.14 · p. 19
अनुष्टुप्
रक्ताब्जे रक्तकुमुदेऽप्यथ ज्ञेयं गृहोदकम् ।काञ्जिके गृहसम्बन्धिजले गोदारणं पुनः ॥ १५ ॥
6.15 · p. 19
अनुष्टुप्
कुद्दाले लाङ्गले चाथ चामीकरमिति ध्वनिः ।चामरे कनके चाथ च्युतादानमिति ध्वनिः ॥ १६ ॥
6.16 · p. 19
अनुष्टुप्
कन्दुकादानदण्डे स्याच्च्युतस्य ग्रहणे(न?ऽपि) च ।जपापुष्पं कुङ्कुमे स्याज्जपायाः कुसुमेऽपि च ॥ १७ ॥
6.17 · p. 20
metre not recognisednearly अनुष्टुप्
जलाञ्जलं खतो वारिनिर्गमे शैवलेऽपि च ।त्रिवर्णकं त्रिगन्धे स्यात् त्रिफलायां कटुत्रये ॥ १८ ॥
6.18 · p. 20
अनुष्टुप्
षोडशाहोपवासे तु + + + + + + + + ।+ + नाम्नो देवमुनेः सत्त्रे चाप्यथ कीर्तितम् ॥ १९ ॥
6.19 · p. 20
metre not recognised
देवधान्यं यावनाले देवानामपि धान्यके ।निःश्रेयसं तु कल्याणे मोक्षे निःसरणं पुनः ॥ २० ॥
6.20 · p. 20
अनुष्टुप्
उपाये निर्गमे द्वारे मरणे भयनिर्गतौ ।याने पुरगृहादीनां मुखे निस्तरणं पुनः ॥ २१ ॥
6.21 · p. 20
अनुष्टुप्
उपाये तरणे चाथ स्यान्निर्हरणमित्यदः ।निर्हृतौ मुष्टिमान्द्ये च बन्द्धुं निरसनं पुनः ॥ २२ ॥
6.22 · p. 20
अनुष्टुप्
निरासे च वधे चाथ मरणे स्यान्निमीलनम् ।निमेषे मुकुलीभावेऽप्यथो निवसनध्वनिः ॥ २३ ॥
6.23 · p. 20
अनुष्टुप्
वसनक्रिययोर्वस्त्रे गृहेऽपि स्यात् त्वलक्तके ।निर्भर्त्सनं खलीकारेऽप्यथ स्यान्निकुरुम्बवाक् ॥ २४ ॥
6.24 · p. 20
अनुष्टुप्
अङ्कुरे च समूहे च नृपलक्ष्म तु भूपतेः ।छत्रे नृपस्य चिह्ने च प्रयोजनपदं पुनः ॥ २५ ॥
6.25 · p. 20
अनुष्टुप्
कार्ये हेतौ प्रवचनं पुनर्व्याख्यानवेदयोः ।प्रशस्तवचने च स्याच्छास्त्र इत्याह सज्जनः ॥ २६ ॥
6.26 · p. 20
अनुष्टुप्
अथ प्रकरणं प्रोक्तं प्रकीर्णो रूपके क्वचित् ।दशानां रूपकाणां स्याद् दृश्यते च प्रघट्टके ॥ २७ ॥
6.27 · p. 20
अनुष्टुप्
स्यात् तु प्रहरणं शस्त्रे युद्धे प्रवहणं पुनः ।कर्णीरथे प्रकृष्टे च वहनेऽथ प्रमन्थने ॥ २८ ॥
6.28 · p. 20
अनुष्टुप्
हिंसायां च प्रमथनं भवेत् प्रजननं पुनः ।उपस्थयोः प्रजातौ च विद्यात् प्रहसनं पुनः ॥ २९ ॥
6.29 · p. 21
अनुष्टुप्
रूपकाणामन्यतमे प्रहासेऽथ प्रदेशनम् ।प्रदिष्टौ प्राभृते दाने प्रस्फोटनपदं पुनः ॥ ३० ॥
6.30 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
शूर्पे शुर्पेण पवने पद्मपत्रपदं पुनः ।भवेत् पुष्करमूलाख्यभेषजेऽब्जस्य चच्छदे ॥ ३१ ॥
6.31 · p. 21
अनुष्टुप्
प्रतिदानं परीवर्ते न्यासद्रव्यस्य चार्पणे ।प्रतिमानं प्रतिकृतौ गजदन्तद्वयान्तरे ॥ ३२ ॥
6.32 · p. 21
अनुष्टुप्
चतुर्मासोपवासे च साकल्यासङ्गयोरपि ।अथ पारायणं ध्याने तत्परेऽधीष्ट आश्रये ॥ ३४ ॥
6.34 · p. 21
अनुष्टुप्
साकल्यासङ्गयोश्च स्यादङ्कुशस्य च बन्धने ।जलेन चतुरो मासाञ्जीवनेऽप्यथ पाप्मनः ॥ ३५ ॥
6.35 · p. 21
अनुष्टुप्
निष्कृतौ रुक्चिकित्सायां प्रायश्चित्तमथोदितम् ।पीतदारुपदं पीतचन्दने देवदारुणि ॥ ३६ ॥
6.36 · p. 21
अनुष्टुप्
अथ पुंसवनं गर्भस्त्रियाः संस्कारकर्मणि ।क्षीरे पुंसश्च सवने विद्यात् पुष्परजः पुनः ॥ ३७ ॥
6.37 · p. 21
अनुष्टुप्
कुङ्कुमे च परागेऽथ सरले देवदारुणि ।पूतिकाष्ठमथो शुण्ठ्यां लशुनेऽपि महौषधम् ॥ ३८ ॥
6.38 · p. 21
अनुष्टुप्
विद्यादतिविषायां च शकटे तु महानसम् ।पाकस्थानेऽप्यथो भावकर्मणोर्मिथुनस्य च ॥ ३९ ॥
6.39 · p. 21
अनुष्टुप्
अथो रत्नवरं स्वर्णे रत्नानां प्रवरेऽपि च ।रतर्धिकं सुखे स्नाने दिनमङ्गलयोरपि ॥ ४१ ॥
6.41 · p. 22
अनुष्टुप्
रागसूत्रं तुलासूत्रे पट्टसूत्रेऽजयोऽब्रवीत् ।शब्दशास्त्रे व्याकरणं ज्याटङ्कारे स्फुटीकृतौ ॥ ४२ ॥
6.42 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable)
विसर्जनं परित्यागे दाने विहननं पुनः ।पिञ्जने च वधे च स्यात् पिञ्जनं प्रविसारणम् ॥ ४३ ॥
6.43 · p. 22
अनुष्टुप्
विद्यात् कार्पासतूलादेर्विधातेऽप्यथ कथ्यते ।वैकक्ष्यकमुरःस्थानतिर्यग्विक्षिप्तमाल्यके ॥ ४४ ॥
6.44 · p. 22
अनुष्टुप्
प्रावारे शृङ्गिबेरं तु शुण्ठ्यामप्यार्द्रकेऽप्यथ ।संसारे स्यात् संसरणमसम्बाधचमूगतौ ॥ ४५ ॥
6.45 · p. 22
अनुष्टुप्
घण्टापथे जन्मनि च वारणेऽप्याह सज्जनः ।संसार उक्त्वा भूयोऽपि संसृतावजयोऽब्रवीत् ॥ ४६ ॥
6.46 · p. 22
अनुष्टुप्
शरीरे स्यात् संहननं घटनेऽप्यथ कथ्यते ।वशीकृतौ संवननं सम्भक्तौ याचनेऽप्यथ ॥ ४७ ॥
6.47 · p. 22
अनुष्टुप्
उलूलौ स्यात् स्वस्त्ययनं क्षेमेण गमनेऽप्यथ ।मेखलायां सारसनमुरस्त्राणेऽपि केचन ॥ ४८ ॥
6.48 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
सकञ्चुका भटा मध्ये यद्वध्नन्त्यधिकाङ्गकम् ।इति नाम्ना परे तत्र समाप्तोऽध्याय इत्ययम् ॥ ४९ ॥
6.49 · p. 22
अनुष्टुप्
इति चतुरक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।
अथ चतुरक्षरकाण्डे वाच्यलिङ्गाध्यायः ।
अथो चतुःस्वराः शब्दा भेद्यलिङ्गाश्च ये स्मृताः ।तेषामयभिहाध्यायः स्पष्टः प्रस्तूयतेऽधुना ॥ १ ॥
6.1 · p. 23
अनुष्टुप्