स्त्रीरत्न
strīratnaIn 3 kośas: 0 synonym verses, 4 as a meaning of another word.
स्त्रीरत्न as a meaning in nānārtha verses
- कोषकल्पतरु वरवर्णिनीस्त्रीरत्ने वरवर्णिनी वरलिपौ लाक्षाहरिद्राह्वयो- रुक्ता रोचनिकार्थिका Koṣakalpataru 6.21.190
- नानार्थार्णवसंक्षेप सरस्वतीसरस्वती नदीभेदे नदीमात्रे च वाचि च । गङ्गायां गवि मेदिन्यां स्त्रीरत्ने च वचस्यपि ॥ १९३४ ॥ Nānārthārṇavasaṃkṣepa 4.1934
- शब्दरत्नावली सरस्वतीसदागतिर्ना वातार्कमोक्षेषु च सदीश्वरे । सरस्वान्नदभेदेऽब्धौ पुंसि स्याद्रसिकेऽन्यवत् ॥ सरस्वती च वाग्देवीवाणीस्त्रीरत्नगोषु च । सत्यवती व्यासमातृनारदर्च्चीकयोषिति ॥ समुद्रान्ता तु कार्यासीपृक्कादुरालभासु च । समाहितो निर्विवादे प्रतिज्ञातेऽभिधेयवत् ॥ Śabdaratnāvalī 7.16.175
- शब्दरत्नावली वरवर्णिनीअमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते । स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥ केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः । शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥ दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् । भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥ धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः । वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥ कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् । भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥ देवदारुणि कालीये न द्वयोर्वरचन्दनम् । स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥ साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी । वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥ Śabdaratnāvalī 7.20.134