All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · नान्ताः (2/2)
ईर्ष्यायां कुहना च दम्भचरणेऽथो पूतना राक्षसी-भेदे किं च हरीतकीभिदि विदि त्वाहुः स्त्रियां चेतनाम् ।वाच्ये[20a]प्राणिनि सा मताथ पृतना स्यात्सैन्यमात्रे चमू-भेदे चाथ वराङ्गनासु ललना जिह्वाशिराभेदयोः ।स्त्रियां प्रसन्ना मदिरासु वाच्येप्रसादयुक्तेऽथ फणिज्जमल्ल्योः ।कम्पिल्लके च प्रमदासलिङ्गंश्लेष्मघ्नमुक्तं कफहृत्सुभेद्ये ॥ १ ॥
6.21.1 · p. 261
शार्दूलविक्रीडितम्two metres in one verse
चतुर्नाः ।
महाधनं सिह्लकवाचि षण्ढेविशेष्यगं तद्बहुमूल्यगं स्यात् ।तथा सुवस्त्रेऽथ तपोधनस्तुस्यात्तापसे योषिति तुण्डिकेर्याम् ॥ २ ॥
6.21.2 · p. 262
उपजातिः
आराधनं स्याद्धनतुष्टिलाभे-ऽप्यथोपधानं प्रणये विशेषे ।स्याद्गण्डुकेऽथ प्र[णि]धानमुक्तंसमाहितौ च प्रसवे प्रयत्ने ॥ ३ ॥
6.21.3 · p. 262
उपजातिः
अन्तर्हितौ चाथ वधे मृधे स्या-दायोधनं मध्यवहावलग्नम् ।लग्नेऽन्यवच्चाभिजनस्तु वंशेकुलध्वजे ख्यातिजनुर्भुवोश्च ॥ ४ ॥
6.21.4 · p. 262
उपजातिः
स्यात्सज्जने पुण्यजनश्च यक्षेनिशाचरे चाथ विसर्जनं स्यात् ।दाने परित्यागविधौ तथैव ।संप्रेषणे चाथ पृथग्जनः स्यात् ॥ ५ ॥
6.21.5 · p. 262
उपजातिः
नीचे च मूर्खेऽथ कृ[20b]तौ च हेतौप्रयोजनं स्याद्बलिदानवे तु ।वैरोचनः स्यात्सुगतेऽर्कपुत्रेविरोचनस्त्वग्निरवीन्दुषु स्यात् ॥ ६ ॥
6.21.6 · p. 262
उपजातिःmetre not read in every line
प्रह्लादपुत्रेऽप्यथ वैरशुद्धौनिर्यातनं न्याससमर्पणे च ।शिरीष आम्रातकगर्दभाण्ड-बोधिद्रुमार्थश्च कपीतनः स्यात् ॥ ७ ॥
6.21.7 · p. 262
उपजातिः
निधुवनं सुरतेऽपि च कम्पनेप्रजननं प्रगमे भगजन्मनोः ।प्रवचनं निगमेऽप्यतिभाषितेप्रभव उत्पतनं च तथोद्गतौ ॥ ८ ॥
6.21.8 · p. 262
द्रुतविलम्बितम्
साङ्गे वेदे निपुणेऽनूचानः स्याद्विनीतेऽपि ।उक्तमवाचीनमवागर्थे तद्वद्विपर्यस्ते ॥ ९ ॥
6.21.9 · p. 263
metre not recognised
आतञ्चनं तु जवनाप्यायनयोश्च प्रतीवापे ।अभिपन्नस्त्वभिराद्धेऽप्यभिद्रुतेचापदा ग्रस्ते ॥ १० ॥
6.21.10 · p. 263
metre not recognised
स्वीकृतविज्ञातार्थे प्रतिपन्नोऽथो समाप्ते तु ।प्राप्ते क्षिप्ते च वधे त्वन्त्ये क्षिप्ते समापन्नम् ॥ ११ ॥
6.21.11 · p. 263
metre not recognised
आकलनं तु निबन्धे परिसंख्याकाङ्क्षयोर्ज्ञाने ।सम्मूर्च्छनं तु मोहे सम्मूर्छायामभिव्याप्तौ ॥ १२ ॥
6.21.12 · p. 263
metre not recognised
गदनिर्णय उद्योगेऽपि समुत्थानं च संपिधा[21a]ने तु ।अन्तर्धावपि वस्त्रे विबुधैराच्छादनं गदितम् ॥ १३ ॥
6.21.13 · p. 263
आर्या
राजादनः पियाले स्त्री न पलाशेऽथ षण्ढे स्यात् ।क्रौञ्चादनं मृणालेऽथ समुल्लेखे तथोद्धृतौ * * ॥ १४ ॥
6.21.14 · p. 263
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 ण्ढे (wrong syllable)
उत्सादनमुद्वहनेऽथ स्याद्वृक्षादनोऽश्वत्थे ।स्वधितौ च मधुच्छत्रे स्त्री तु विदार्यां च वन्दायाम् ॥ १५ ॥
6.21.15 · p. 263
metre not recognised
ऐरावते गणपतौ गन्धगजे स्यात्सदादानः ।अवदानं पुनरुक्तं कर्मणि वृत्ते द्विधाकृत्याम् ॥ १६ ॥
6.21.16 · p. 263
metre not recognised
कुचन्दनं लोहितचन्दने स्यात्पत्राङ्गवृक्षान्तर वाचकं [च] ।आस्कन्दनं धिक्करणे [रणे] चसंशोषणे संवदनं विलोके ॥ १७ ॥
6.21.17 · p. 263
उपजातिः
वशक्रियायां च विहेठनं तुविडम्बहिंसापरिमर्दनेषु ।जलाटनः कङ्कपतत्रिणि स्यात्स्त्रियां जलौकास्वथ कोपनेऽस्त्री ॥ १८ ॥
6.21.18 · p. 263
उपेन्द्रवज्रा
प्रस्फोटनं ताडनशूर्पयोः स्या-दुद्वर्तनं तूत्पवनेऽपवृत्तौ ।विलेपने नित्यविधौ तु साधु-ग्रहे समादानमुशन्ति सन्तः ॥ १९ ॥
6.21.19 · p. 264
उपजातिः
व्रते भवेत्संयमनं यमस्यपुरि स्त्रियां स्यादथ दर्शनेऽपि ।निशामनं स्याच्छ्रवणे च नेत्रेदन्तान्तरा[21b]ले प्रतिमानमैभे ॥ २० ॥
6.21.20 · p. 264
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 2, syllable 1 द (wrong syllable)
तथा वदन्ति प्रतिबिम्बवाचिज्ञानेऽभिमानः प्रणये च गर्वे ।वधेऽप्यधिष्ठानमिति प्रभावे-ऽप्यध्यासने पत्तनचक्रयोश्च ॥ २१ ॥
6.21.21 · p. 264
उपजातिः
प्रश्नप्रभेदे च शरावके चा-स्त्री वर्धमानो नरि विष्णुवृद्ध्योः ।स्यान्मालुधानो नरि चित्रसर्पेस्यान्मालुधानी च लताभिदि स्यात् ॥ २२ ॥
6.21.22 · p. 264
इन्द्रवज्रा
उपग्रहे संस्करणे तथैवलिप्साह्वये च प्रतियत्न उक्तः ।घटोद्भवे तूदयनस्तथार्केश्रीवत्सराजे च बुधैः प्रदिष्टः ॥ २३ ॥
6.21.23 · p. 264
उपजातिः
विहननमुक्तं विहतौ वैरिबले तूलधूनने तद्वत् ।संवाहनं तु वाहनपादविमर्दन उदीरितं प्राज्ञैः ॥ २४ ॥
6.21.24 · p. 264
गीतिः
उद्वाहनं तु पाणिग्रहणे क्षेत्रे द्विसीत्ये च ।रज्ज्वां स्त्रियामथ महासेनः सैन्याधिपे स्कन्दे ॥ २५ ॥
6.21.25 · p. 264
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 त्ये (wrong syllable); pāda 4, syllable 7 स्क (wrong syllable)
रसायनं व्याधिजिदौषधे स्या-द्विषे विडङ्गे नरि पक्षिराजे ।सुदर्शनः पुंसि मुरारिचक्रेक्लीबे तु शक्रस्य पुरे प्रदिष्टः ॥ २६ ॥
6.21.26 · p. 265
उपजातिः
आज्ञौषधीभेदगतस्तु स स्त्रीमेरोस्तु जम्ब्वां नरि[22a]स स्त्रियां च ।स्यात्स्नेहवस्तावनुशोचने चा-प्युपासनेऽन्वासनमामनन्ति ॥ २७ ॥
6.21.27 · p. 265
उपजातिःmetre not read in every line
निर्भर्त्सनं धिक्करणेऽप्यलक्ते-ऽप्यथो परिच्छेदसमाप्तिवाचि ।समापनं किं च समाहितौ स्या-त्प्रमा[प]णेऽथाभ्यसने शराणाम् ॥ २८ ॥
6.21.28 · p. 265
उपजातिः
उपासनं सेवनहिंसयोश्चनिर्वासनं त्वत्र विहिंसने स्यात् ।बहिष्कृतौ स्याच्च पुरादितोऽथयोगेऽद्य शिल्पिन्युदितः सुकर्मा ॥ २९ ॥
6.21.29 · p. 265
उपजातिः
कात्यायनो वररुचौ गिरिकन्यकायांकाषायवस्त्रविधवार्धजरत्स्त्रियां स्त्री ।निष्ठीवने निरसनं च वधे निरासेकाञ्च्यां तु सारसनमस्त्रभृतामुरस्त्रे ॥ ३० ॥
6.21.30 · p. 265
वसन्ततिलका
आवेशनं शिल्पिगृहे च भूता-वेशप्रवेशार्थकमामनन्ति ।वारासनं वारिगृहे प्रलापेद्वाःस्थे विस्मापन ऋष्यकेतौ ॥ ३१ ॥
6.21.31 · p. 265
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा
गन्धर्वपुर्यां कुहकेऽन्तिमे स्या-दथ द्विजन्मा दशने च विप्रे ।सनातनः कंसरिपौ पुरारौतथा पितॄणामतिथौ च पुंसि ॥ ३२ ॥
6.21.32 · p. 265
उपजातिः
स वाच्यवच्छाश्वत निश्चितेषुपुंस्यर्यमार्के पितृदैवते च ।[22b] स्त्री सूर्यभक्तौषधभेदके स्या-दथो सुदामा जलदे च शैले ॥ ३३ ॥
6.21.33 · p. 266
उपजातिः
उत्क्षेपणे प्रहसनं प्रहसे च भङ्गेमत्ते गजे सुरपतावपि घातुके च ।स्याद्वर्षुकाम्बुदपरस्परघट्टने चपुंस्त्वे घनाघन इति प्रथितः प्रवीणैः ॥ ३४ ॥
6.21.34 · p. 266
वसन्ततिलका
विष्णौ सुयामुन इति प्रथितः प्रसादेश्रीवत्सराजनृपतौ भिदि पर्वतस्य ।स्याद्विश्वकर्मणि धनुर्धरके सुधन्वाशार्दूलपुष्कलशिवासु भवेद्वनश्वा ॥ ३५ ॥
6.21.35 · p. 266
वसन्ततिलका
भूतात्मा वपुषि विधौ च संप्रदिष्टोविश्वप्सा हुतभुजि शीतभासि चोक्तः ।शृङ्गारी क्रमुकमतङ्गजे सुवेषेविप्रेन्द्रे धरणिसुरे तु पुंस्यथर्वा ॥ ३६ ॥
6.21.36 · p. 266
प्रहर्षिणी
भवेत्परिज्वा क्रतुकर्मविज्ञे[तथा] परीचारकयाज्ञिके च ।देवे सुपर्वा विशिखे च वंशेधूमे च पर्वण्यथ केसरी स्यात् ॥ ३७ ॥
6.21.37 · p. 266
उपजातिः
सिंहे हये स्यादिभकेसरे चपुंनागके च प्रथितः प्रवीणैः ।क्लीबे ललाम ध्वजवाजिशृङ्गेप्रधानभूषास्वपि वालधौ च ॥ ३८ ॥
6.21.38 · p. 266
उपजातिः
पुण्ड्रे प्रभावेऽप्यथ पुंसि षण्ढेललाममेतत्सममा[23a]मनन्ति ।प्रकोष्ठकप्लक्षमयूरवाचीभवेत्कलापी शिखरी तु शैले ॥ ३९ ॥
6.21.39 · p. 267
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 पु (wrong syllable)
वृक्षेऽप्यपामार्गतरौ च दुर्गेक्लीबे तु तद्धीरकरत्नवाचि ।व्याले विलासी भुजगे सभोगेनिशाचरे किं च तरौ पलाशी ॥ ४० ॥
6.21.40 · p. 267
उपजातिः
बाणे शिखण्डी च तथा मयूरेगाङ्गेयशत्रौ गदितः कलापे ।स्त्री यूथिकायामपि रक्तिकायांतथा मयूर्यामपि संप्रदिष्टः ॥ ४१ ॥
6.21.41 · p. 267
उपजातिः
स्यादिन्द्रियेऽन्त्ये विषयि त्रये त-द्युते व्यवायी नरि कामुके स्यात् ।गुणान्तरे चाथ भवेत्तपस्वीतथानुकम्पे तपसा युते च ॥ ४२ ॥
6.21.42 · p. 267
उपजातिः
स्त्रियां तु मांसी कटुरोहिणीषुशूरे तरस्वी त्रिषु वेगभाजि ।प्रलम्बशत्रावपि नालिकेरेस्याल्लाङ्गली केकिभुजंगयोस्तु ॥ ४३ ॥
6.21.43 · p. 267
उपजातिः
स्यात्कुण्डली वारिपतौ पराभःसकुण्डले वेणुकरीरयोस्तु ।नारङ्गके पुंसि च चोलकी स्या-त्स्याच्चर्मपाणौ फलकी च मत्स्ये ॥ ४४ ॥
6.21.44 · p. 267
उपजातिः
स्यात्कञ्चुकी वर्मिभुजंगषिङ्गेऽपाङ्गद्रुमे स्यादपि सौविदल्ले ।स्यात्सामयोनिर्द्विरदे विधौ च[23b] सामोद्भवे तु त्रिषु संप्रदिष्टः ॥ ४५ ॥
6.21.45 · p. 267
इन्द्रवज्राmetre not read in every line
स्यात्कुम्भयोनिर्मुनिवृक्षभेदेकामे पुनर्ब्रह्मणि चात्मयोनिः ।स्याच्चित्रभानुस्तरणौ च वह्नौकलध्वनिः कोकिलकेकिनोश्च ॥ ४६ ॥
6.21.46 · p. 268
उपजातिः
पारावते कामुककामयोस्तुजल्पाकमद्ये मदयित्नुरुक्तः ।स्याद्धर्षयित्नुस्तनये सुवर्णे-ऽथो घोषयित्नुः पिकविप्रयोश्च ॥ ४७ ॥
6.21.47 · p. 268
इन्द्रवज्रा
पयोधरे तु स्तनयित्नुरुक्तोमेघ[ध्व]नौ मृत्युगदाह्वयोश्च ।स्यात्पोषयित्नुः पितरि प्रभौ चदुर्वादिविप्रे गदयित्नुरुक्तः ॥ ४८ ॥
6.21.48 · p. 268
उपजातिः
विष्वक्सेनो विष्णौ स्त्री तु फलिन्यां बुधैरुक्तः ।इन्द्रसुता सुरसेना पर्याया देवसेना स्यात् ॥ ४९ ॥
6.21.49 · p. 268
metre not recognised
नागा[ञ्ज]ना तु करिमुद्गरिकेभयष्ट्योःसौदामिनी तु तडिदप्सरसोर्विभेदे ।ऋग्भेदके समिधि योषिति सामिधेनीकासारपद्मनलिनीषु सरोजिनी च ॥ ५० ॥
6.21.50 · p. 268
वसन्ततिलका
श्लेष्मघना केतक्यां तृणशूल्येऽथ प्रसाधनी सिद्धौ ।कङ्कतिकायां वेषे पुनरूनं द्वंद्वतः[24a]प्रोक्तम् ॥ ५१ ॥
6.21.51 · p. 268
आर्या
मातुलपत्नीभङ्गाकलापके मातुलानी स्यात् ।उत्तमवेषवधूट्यां भवति विलेप्यां विलेपनी च स्त्री ॥ ५२ ॥
6.21.52 · p. 268
उद्गीतिः
रात्रौ दोग्ध्र्यां सुरभौ पयस्विनी स्यात्तथा सरिति ।पशुतृणभक्ष्यस्थाने गवादनी चेन्द्रवारुण्याम् ॥ ५३ ॥
6.21.53 · p. 268
metre not recognised
पञ्चनाः ।
स्यात्पीतचन्दनं तु स्त्रियां न कालीय-पीतन्योः ।वनचन्दनमप्यस्त्री कालीये देवदारुणि च ॥ ५४ ॥
6.21.54 · p. 269
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 त (wrong syllable)
हरिचन्दनमप्यस्त्री गोशीर्षे देववृक्षे च ।ज्योत्स्नायां काश्मीरेऽतिसर्जनं स्याद्वधे दाने ॥ ५५ ॥
6.21.55 · p. 269
metre not recognised
भ्रमरे मधुसूदनश्च विष्णौ पुरवैरिण्यपि मृत्युबन्धनः ।नरि पुद्गलबिल्वयोरथ प्रतिपादनं वितरणे च बोधने ।प्रतिपत्तिवाच्यथ कुसुम्भवाचकं गदितं महारजनमत्र काञ्चने ॥ ५७ ॥
6.21.57 · p. 269
metre not recognised
गिरिभेदवानरभिदोश्च गन्धकेभ्रमरे स्त्रियां न खलु गन्धमादनम् ।मदिरासु योषिति तथानुवासनंगदितं सुधूपनघृतादिवस्तिषु ॥ ५८ ॥
6.21.58 · p. 269
metre not recognised
श्वेतवाहनः शशधरे धनंजयेहरिवाहनः [24b] सुरपतौ विवस्वति ।दहने च केतुषु च धूमकेतनःशिवकीर्तनो हरिगणे मुरद्विषि ॥ ५९ ॥
6.21.59 · p. 269
metre not recognised
वर्णे विसर्जनीयेऽप्यभिनिष्टानः स्मृतो विज्ञैः ।स्नाने स्पर्शे चोपस्पर्शनमुक्तं तथाचमने ॥ ६० ॥
6.21.60 · p. 269
metre not recognised
अर्केऽपि विश्वकर्मा मुनिभेदे देवकारौ च ।नन्दिनि तु मुनिविशेषे सालंकायन इति प्रोक्तः ॥ ६१ ॥
6.21.61 · p. 269
उपगीतिः
स्यात्पद्मलाञ्छनोऽर्क्के विधौ च लङ्कापतौ धनदे ।तारालक्ष्म्योस्तु स्त्री तद्वत्प्रोक्तः सरस्वत्याम् ॥ ६२ ॥
6.21.62 · p. 269
उपगीतिः
अथ षष्टिहायनः स्याद्धान्यविशेषे च दन्तिनि च ।उपसंपन्नं निहिते परवच्च सुसंस्कृते भवति ॥ ६२ ॥
6.21.62 · p. 269
उपगीतिः
राहौ च कृष्णवर्त्मा हुताशने स्याद्दुराचारे ।ब्रह्मणि तथाग्रजन्मा ज्येष्ठे भ्रातरि महीदेवे ॥ ६४ ॥
6.21.64 · p. 269
metre not recognised
घनसारे चाब्धिकफे चन्द्रे च श्वेतधामा स्यात् ।हिलमोच्यां च गुडूच्यां पथ्याह्वे तिक्तपर्वा च ॥ ६५ ॥
6.21.65 · p. 270
metre not recognised
इक्षौ तु किष्कुपर्वा पोटगले स्यात्तथा वेणौ ।वृषपर्वा शर्वासुरशृङ्गारिकसेरुषु प्रोक्तम् ॥ ६६ ॥
6.21.66 · p. 270
metre not recognised
स्याद्व्योमचा[25a]री सुरपक्षिवाचीस्यात्कामचारी चटके च कम्रे ।स्वच्छन्दचारिण्यथ पृष्ठशृङ्गीभीमे च षण्ढे चलिते च दंशे ।कारंधमी तु धातूक्तितत्परे कांस्यकारे च ।अन्तेवासी शिष्ये चाण्डाले प्रान्तगे परवत् ॥ ६८ ॥
6.21.68 · p. 270
इन्द्रवज्राmetre not read in every line
प्रचलाकी तु भुजंगे कथितो ज्ञैश्चित्रमेखले तद्वत् ।कम्रे तु संप्रयोगी मदने स्यात्संप्रयोजके तद्वत् ॥ ६९ ॥
6.21.69 · p. 270
गीतिः
वनमाली गोविन्दे वाराही तु स्त्रियां प्रोक्ता ।काकाजयोरपि चिरंजीवी स्याद्विघ्नकारी तु ॥ ७० ॥
6.21.70 · p. 270
metre not recognised
घोराकृतौ विघातिनि मांस्यां त्वङ्कत्थपिप्पल्याम् ( ? ) ।कटुकी गण्डूपदयोर्विबुधैः शकुलादनी प्रोक्ता ॥ ७१ ॥
6.21.71 · p. 270
उपगीतिः
स्त्रीरत्ने वरवर्णिनी वरलिपौ लाक्षाहरिद्राह्वयो-रुक्ता रोचनिकार्थिका
6.21.190 · p. 270
शार्दूलविक्रीडितम्
षड्नाः ।
मुनिभिदि त्वन्तावसायी मतः ।चाण्डाल-क्षुरिणौ नटे त्वपि बके जायानुजीवी तथानिर्द्रव्येऽथ कलानुनादिनमिह प्राहुः कुलिङ्गाह्वये ॥ ७२ ॥
6.21.72 · p. 270
शार्दूलविक्रीडितम्
अलौ कपिञ्जले तथा सहस्र[25b]वेधि हिङ्गुनि ।तदम्लवेतसार्थकं नरि प्रचक्षते बुधाः ॥ ७३ ॥
6.21.73 · p. 270
metre not recognised