सरस्वती
sarasvatīस्त्री · fem.In 23 kośas: 46 synonym verses, 8 as a nānārtha head word, 19 as a meaning of another word.
वाग्ब्राह्मी भारती गौर्गीर्वाणी भाषा सरस्वती ।श्रुतदेवी वचनं तु व्याहारो भाषितं वचः ॥ २४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 च (wrong syllable)
genderस्त्रीfem.
नदी हिरण्यवर्णा स्याद्रोधोवक्रा तरङ्गिणी ॥ १०७९ ॥सिन्धुः शैवलिनी वहा च ह्रदिनी स्रोतस्विनी निम्नगास्रोतो निर्झरिणी सरिच्च तटिनी कूलंकषा वाहिनी ।कर्बुर्द्वीपवती समुद्रदयिताधुन्यौ स्रवन्तीसर-स्वत्यौ पर्वतजापगा जलधिगा कुल्या च जम्बालिनी ॥ १०८० ॥
अनुष्टुप्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 1, syllable 9 च (wrong syllable)
नदीस्त्रीहिरण्यवर्णास्त्रीरोधोवक्रास्त्रीतरङ्गिणीस्त्रीसिन्धुपुंशैवलिनीस्त्रीवहास्त्रीह्रदिनीस्त्रीस्रोतस्विनीस्त्रीनिम्नगास्त्रीस्रोतस्क्लीनिर्झरिणीस्त्रीसरित्स्त्रीतटिनीस्त्रीकूलंकषास्त्रीवाहिनीस्त्रीकर्बूस्त्रीद्वीपवतीस्त्रीसमुद्रदयितास्त्रीधुनीस्त्रीस्रवन्तीस्त्रीसरस्वतीस्त्रीपर्वतजास्त्रीआपगास्त्रीजलधिगास्त्रीकुल्यास्त्रीजम्बालिनीस्त्री
genderस्त्रीfem.doubtful
वासिष्ठी गोमती तुल्ये ब्रह्मपुत्री सरस्वती ॥ १०८५ ॥
अनुष्टुप्
genderस्त्रीfem.
ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती ।
अनुष्टुप्
genderस्त्रीfem.
खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् ।स्यादालवालमावालमावापोऽथ नदी सरित् ॥ २९ ॥तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी ।स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा ॥ ३० ॥कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती ।
अनुष्टुप्
genderस्त्रीfem.
शरावती वेत्रवती चन्द्रभागा सरस्वती ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
वाग्वाणी भारती भाषा गौर्गीर्ब्राह्मी सरस्वती ।ओङ्कारः प्रणवः प्रोक्तस्त्रयो वेदास्त्रयी स्मृताः ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
सिन्धुः स्रवन्ती तटिनी तरङ्गिणी,नदी धुनी निर्झरिणी च निम्नगा ।कूलङ्कषा शैवलिनी सरस्वती,समुद्रकान्ता ह्रदिनी तथापगा ॥ ६६५ ॥
upajati 12
genderस्त्रीfem.
ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती ।ब्रह्मकैवर्तनी वाक्या वाकोवाक्यस्वरूपिणी ॥ ७४ ॥
अनुष्टुप्
genderस्त्रीfem.
कला वाणी महाविद्या मन्त्ररूपा महेश्वरी ।ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका ।सरस्वती च वलजा रोचना हारिणीति च ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
सुगन्धपत्रा सुरभिः सुभद्रा च सुपिङ्गला ।ज्योतिष्मती स्वर्णलता सरस्वत्यनलप्रभा ॥ ४१३ ॥
अनुष्टुप्
genderस्त्रीfem.
स्रवन्ती निम्नगा स्रोत्या सिन्धुः सस्नुत्सरस्वती ।ऋषिकुल्यापगा माता धेना कूलंकषा शिफा ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
विपाशाथ हिरण्यात्स्याद्बाहुर्वाहश्च शोणकः ।काञ्चनाक्षी विशाला च चक्षुः सिन्धुः सरस्वती ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
हेमा सरस्वती कामा कमलाऽपि च सूनृता ।सुमुखा हंसपादा च वासोरी रतिलालसा ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
विज्ञेयानुमतिस्तत्र पूर्णे राका निशाकरे ।सरस्वती शारदी तु द्यूतपर्यायपूर्णिमा ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.
शान्तिर्वृष ऋतधामा तथा दिवस्पतिः शुचिः ।अस्य प्रिया तु सावित्री दुहिता तु सरस्वती ॥ २४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
मनोवती समाधातुः स्त्री सावित्री सरस्वती ।सनत्कुमारस्तु सनात्कुमारश्च विधातृजः ॥ ६२ ॥
अनुष्टुप्
genderस्त्रीfem.
ब्राह्मी भाषा ब्राह्मणी गौर्गिरा गीर्-वाणी वाचा वाक्सरस्वत्यपीडा ।भारत्युक्ता शारदा शब्ददेवीभेद्याधीनं वाङ्मयं तद्विकारे ॥ ५५ ॥
शालिनी
genderस्त्रीfem.
तरङ्गिणी स्वर्णवर्णा रोधोवक्रा सरस्वती ।स्रवन्ती च तलोदा स्याद्वहा स्रोतस्तु न स्त्रियाम् ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
मन्दाकिनी शंतनुकामिनी च व्योमापगा सा गदितर्षिकुल्या ।[67b] शोणोदकान्तःसलिला तथैव सरस्वती धातृसुता मता सा ॥ ५७ ॥
इन्द्रवज्राtwo metres in one verse
genderस्त्रीfem.
सदाफलः कृष्णमुखो गन्धगर्भः सरस्वती ।नीलवल्ली नीलमल्ली रुच्यः स्याद्गोहरीतकी ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
कपोतवक्रा ब्राह्मी तु ब्रह्मसोमा सरस्वती ।मेध्या सत्यवती दिव्या वयःस्था सोमवल्ल्यपि ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
ब्राह्म्यां वयःस्था मत्स्याक्षी ब्राह्मणी सोमवल्लरी ।सरस्वती सत्यवती सुस्वरा ब्रह्मचारिणी ॥ ३४३ ॥
अनुष्टुप्
genderस्त्रीfem.
शिरो मूर्धोत्तमाङ्गं कम्प्रारभ्यं प्रेरितेरितम् ।वाग्वचो वचनं वाणी भारती गीः सरस्वती ॥ १०४ ॥
अनुष्टुप्
genderस्त्रीfem.
सरस्वती श्रुतदेवी ब्राह्मी गौर्गीश्च भारती ।भाषा वाणी तु वाग्वाक्यं व्याहारवचने वचः ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
genderस्त्रीfem.
वहा च ह्रदिनी सिन्धु[र्निम्न]गा सागराङ्गना ।हिरण्यवर्णा सा प्रोक्ता सरस्वत्यपि कथ्यते ॥ ३५९ ॥
अनुष्टुप्
genderस्त्रीfem.
शतद्रुः स्याच्छुतुद्रुस्तु चन्द्रभागा तु चन्द्रिका ।सरस्वती ब्रह्मपुत्री विपाशा च विपाट् स्त्रियाम् ॥ ३६४ ॥
अनुष्टुप्
genderस्त्रीfem.
स्रोतस्वती द्वीपवती निम्नगा चापगापगा ।कूलंकषा प्रवाही च झरिणी च सरस्वती ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
सरस्वती कृष्णवेणी(णा?) कावेरी सरयूरपि ।तुङ्गभद्रा भीमनदी शामिनी भवनाशिनी ॥ ७६ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 भी (wrong syllable)
genderस्त्रीfem.
सरस्वती पद्मवती धुनी सागरगामिनी ।गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
वाग्देवी शारदा ब्राह्मी भारती गीः सरस्वती ।हंसयाना ब्रह्मपुत्री सा सदा वरदास्तु नः ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
देवी सरस्वती ब्राह्मी श्रुतदेवी च भारती ।वाग्गीर्वाणी तथा गौश्च भाषा च वचनं तु वै ॥ ३४२ ॥
अनुष्टुप्
genderस्त्रीfem.
नदी धुनी धुनिः सिन्धुः ह्रदिनी ह्रादिनी वहा ।स्रोतः स्रोतस्विनी कर्षूः स्रोतस्वती सरस्वती ॥ १८८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्व (wrong syllable)
genderस्त्रीfem.
genderस्त्रीfem.
इरा सरस्वती ब्राह्मी भाषा वाणी च शारदा ।गिरा गीश्च गिरांदेवी गीर्देवी भारतीश्वरी ॥
अनुष्टुप्
genderस्त्रीfem.
नदी विशेषाः कावेरी वाशिष्ठी च सरस्वती ।अर्धगङ्गा गोमती च गोदा गोदावरी तथा ॥
अनुष्टुप्
genderस्त्रीfem.
ब्राह्मी गौर्भारती भाषा वाग्वाणी गीः सरस्वती ।मरीचिरङ्गिरा दक्षः पुलस्त्यः पुलहः क्रतुः ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
सरित्स्रवन्ती तटिनी तरङ्गिणीसरस्वती सिन्धुरगात्मजापगा ।नदी धुनी निर्झरिणी च निम्नगासमुद्रकान्ता ह्रदिनी च वाहिनी ॥ ३४३ ॥
वंशस्थम्
genderस्त्रीfem.
हिरण्यबाहुः शोणः स्यात् संभेदः सिन्धुसंगमः ।शरावती वेत्रवती चन्द्रभागा सरस्वती ॥ ३४९ ॥
अनुष्टुप्
genderस्त्रीfem.
तापी तु तपती सैत्या चन्द्रभागा तु चन्द्रका ।चान्द्रभागा शारदा तु कश्मीरेषु सरस्वती ॥ ७९ ॥
अनुष्टुप्
genderस्त्रीfem.
अर्घीशो भैरवः सूक्ष्मो दीर्घघोणा सरस्वती ।विलासिनी विघ्नकर्त्ता लक्ष्मणो रूपकर्षिणी ।महाविद्येश्वरी षष्ठी षण्डो भूः कान्यकुब्जकः ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
तारिणी च जयाऽनन्ता शिवा लोकेश्वरात्मजा ।खदूरवासिनी भद्रा वेश्याली च सरस्वती ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
नाभिजन्मा शतधृतिर्बाह्मी तु ब्रह्मकन्यका ।वाग्देवी शारदा शुक्ला महाधता सरस्वती ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
genderस्त्रीfem.
पद्मभूः प्राणदो वेधा द्रुघणो नाभिजो विधिः ।वाग्वाणी भारती भाषा गौर्गीर्ब्राह्मी सरस्वती ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
गोदावरी तु गोदा स्यात् कावेरी त्वर्धजाह्नवी ।शरावती वेत्रवती तुंगभद्रा सरस्वती ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
स्यात्पुष्पदन्तकरिणो भार्यायामथ सरस्वती वाचि ।वाग्देव्यां च सुरभ्यां नदीविशेषेऽङ्गनारत्ने ॥ ८२ ॥
आर्या
[300b]नद्यां पुंसि तु रसिके नदभेदे नद्यधीशे च ।कुट्टिन्यां लक्षायामुद्दिष्टा रङ्गमाता च ॥ ८३ ॥
उपगीतिः
doubtful
तथा तृणलतास्तम्बे मत्स्याक्षीसंज्ञकेऽपि सा ।मत्स्याक्षी चापि विज्ञेया ब्राह्मीति प्रथिता लता ॥ १९३५ ॥
अनुष्टुप्
meaningsतृणलतास्तम्ब
doubtful
सदागतिर्ना वातार्कमोक्षेषु च सदीश्वरे ।सरस्वान्नदभेदेऽब्धौ पुंसि स्याद्रसिकेऽन्यवत् ॥सरस्वती च वाग्देवीवाणीस्त्रीरत्नगोषु च ।सत्यवती व्यासमातृनारदर्च्चीकयोषिति ॥समुद्रान्ता तु कार्यासीपृक्कादुरालभासु च ।समाहितो निर्विवादे प्रतिज्ञातेऽभिधेयवत् ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 दु (wrong syllable)
doubtful
सरस्वती as a meaning in nānārtha verses
- धरणिकोश भारती... .... ... ... … । भारती भगवती सरस्वती भारती वचनमात्रमुच्यते ॥ Dharaṇikośa 15.3.27
- धरणिकोश श्रीश्रीशब्दः कविभिः प्रोक्तो लक्ष्मीसंपत्तिकान्तिषु । अधिकारे सरस्वत्यां शोभाकीर्तिप्रभासु च ॥ Dharaṇikośa 26.3.1
- कोषकल्पतरु पद्मलाञ्छनास्यात्पद्मलाञ्छनोऽर्क्के विधौ च लङ्कापतौ धनदे । तारालक्ष्म्योस्तु स्त्री तद्वत्प्रोक्तः सरस्वत्याम् ॥ ६२ ॥ Koṣakalpataru 6.21.62
- कोषकल्पतरु श्रीस्रुस्तु स्रुवे निर्झरवाचकोऽपि द्रूः कामरूपिण्यपि काञ्चने च । श्रीरिन्दिरावेषसरस्वतीषु संपत्तिशोभारचनात्रिवर्गे ॥ ९५ ॥ Koṣakalpataru 6.27.95
- नानार्थार्णवसंक्षेप गौरीउशीरे च द्वयोस्तु स्यान्मृगभेदेऽथ सा स्त्रियाम् । गौरी शिवासरस्वत्योः प्रियायां वरुणस्य च ॥ ३७९ ॥ Nānārthārṇavasaṃkṣepa 2.5.379
- नानार्थार्णवसंक्षेप भारतीसम्बन्धिनि त्रिषु स्त्री तु सरस्वत्या हि भारती । रभसस्त्वाह पक्षिण्यामित्यर्थस्तत्र चिन्त्यताम् ॥ १२८७ ॥ Nānārthārṇavasaṃkṣepa 4.1287
- नानार्थार्णवसंक्षेप वर्वरीकाअन्तर्लोहेन बद्धान्ते फलके स्याद्वलाहका । वर्वरीका सरस्वत्यां स्त्री द्वयोस्तु पतत्त्रिणि ॥ ५४६ ॥ Nānārthārṇavasaṃkṣepa 6.546
- परमानन्दीयनाममाला वाणिवर्णः कीर्तौ द्युतौ गीतक्रमे शुक्लद्विजादिके । बाणो दैत्ये शरे वृक्षे वाणिर्मेघः सरस्वती ॥ ३४८ ॥ Paramānandīyanāmamālā 5.24.348
- शब्दरत्नावली प्रज्ञाअज्ञो जडे च मूर्खे च प्राज्ञः पण्डितदक्षयोः । प्रज्ञा बुद्धिसरस्वत्यो राज्ञी छायानृपस्त्रियोः ॥ Śabdaratnāvalī 7.10.2
- शब्दरत्नावली वरवर्णिनीअमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते । स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥ केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः । शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥ दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् । भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥ धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः । वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥ कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् । भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥ देवदारुणि कालीये न द्वयोर्वरचन्दनम् । स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥ साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी । वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥ Śabdaratnāvalī 7.20.134
- शब्दरत्नावली अनुष्टुभ्अनुष्टुप्छन्दसि भेदे सरस्वत्यामपि स्त्रियाम् । अवष्टम्भः काञ्चने स्यात्प्रारम्भस्तम्भयोरपि ॥ शातकुम्भोऽश्वमात्रे स्यात्काञ्चने तु नपुंसकम् ॥ Śabdaratnāvalī 7.24.14
- शब्दरत्नावली गिर्गात्रं गजाग्रजङ्घादिभागे देहाङ्गयोरपि । गीः स्त्रियामेव भाषायां सरस्वत्यां यशस्यपि । गुरुर्निषेकादिकरे पित्रादौ गीष्पतौ पुमान् ॥ Śabdaratnāvalī 7.27.9
- तन्त्राभिधान ऐत्रिपुरा लोहिता राज्ञी वाग्भवो भौतिकासनः । महेश्वरो द्वादशी च विमलश्च सरस्वती ॥ ४० ॥ Tantrābhidhāna 2.13.40
- तन्त्राभिधान औअधोदन्तश्च कण्ठोष्ठौ सङ्कर्षणः सरस्वती । आज्ञा चोर्ध्वमुखी शान्तो व्यापिनी प्रकृतः पयः ॥ ४७ ॥ Tantrābhidhāna 2.15.47
- तन्त्राभिधान खखः प्रचण्डः कामरूपी ऋद्धिर्वह्निः सरस्वती । आकाशमिन्द्रियं दुर्गा चण्डीशस्तापिनी गुरुः ॥ ६० ॥ Tantrābhidhāna 2.19.60
- तन्त्राभिधान ग----------------------------------- गीतं सरस्वती विद्या भोगिनी नन्दनो धरा । भोगवती च हृद्यं ज्ञानं जालन्धरो लवः ॥ ६५ ॥ Tantrābhidhāna 2.20.65
- तन्त्राभिधान गोगो गणपतिरुद्दिष्टो गो गन्धर्वः प्रकीर्त्तितः । गं गीतं गा च गाथा स्याद् गौर्धेनुर्गौ सरस्वती ॥ ९ ॥ Tantrābhidhāna 3.9
- तन्त्राभिधान ऐसरस्वत्यथ ऐ-शब्दो बिन्दुर्दुःखहरार्थकः । सरस्वत्या बीजमेतत्तेन वाणीं प्रपूजयेत् ॥ऐं॥ Tantrābhidhāna 11.12
- उत्पलिनी श्रीलक्ष्मीसरस्वतीधीत्रिवर्गसम्पद्विभूतिशोभासु । उपकरणवेषरचनाविधासु च श्रीरिति प्रथिता ॥ ६३ ॥ Utpalinī 63