हिण्डक
hiṇḍakaपुं · masc.In 2 kośas: 2 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.
मागधा मगधास्ते स्युर्वन्दिनः स्तुतिपाठकाः ।वैतालिकाद्या नग्नाः स्युर्नग्नाचार्यस्तु हिण्डकः ॥ ३३२ ॥
अनुष्टुप्
genderपुंmasc.
नग्नाः स्तुतिव्रतास्तेषां त्वाचार्यौ(?)हिण्डकः स्मृतः ।भोगावली तु तद्ग्रन्थो विरुदं कर्म विश्रुतम् ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
करिण्यां धेनुका धेनौ पुंलिङ्गे दनुजान्तरे ।मल्लिका तृणशूल्ये ना हंसभिद्दीपपात्रयोः ।चोलकी नागरङ्गे च करीरे किष्कुपर्वणि ।नग्नाचार्ये हिण्डकः स्याद्दीनाया[256b]मपि मूषिका ॥ १८ ॥
अनुष्टुप्metre not read in every line
meaningsनग्नाचार्य
हिण्डक as a meaning in nānārtha verses
- कोषकल्पतरु नाडीतरङ्गवातूलवाची तु कथाप्रसङ्गो विषागदंकारवरेण्यवत्स्यात् । काकोलके स्याद्रतहिण्डके च नाडीतरङ्गो नरि हिण्डके [च] ॥ ३१ ॥ Koṣakalpataru 6.3.31