नग्न
nagnaपुं · masc.In 13 kośas: 12 synonym verses, 6 as a nānārtha head word, 7 as a meaning of another word.
genderपुंmasc.
genderविadj.
मागधा मगधास्ते स्युर्वन्दिनः स्तुतिपाठकाः ।वैतालिकाद्या नग्नाः स्युर्नग्नाचार्यस्तु हिण्डकः ॥ ३३२ ॥
अनुष्टुप्
genderपुंmasc.
एडमूकोऽनेडमूको वक्तुं श्रोतुमसज्जिते ।तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरः ॥ ७७ ॥
अनुष्टुप्
genderविadj.
नग्नाः स्तुतिव्रतास्तेषां त्वाचार्यौ(?)हिण्डकः स्मृतः ।भोगावली तु तद्ग्रन्थो विरुदं कर्म विश्रुतम् ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
मा कारि शब्द इति यः प्राह माशब्दिकोऽपि सः ।पार्याप्तिकस्तु पर्याप्तिवादी प्राभूतिकस्तथा ॥नग्नो विवस्त्रो दिग्वासा हसनीयस्तु हास्यवत् ।स्यान्नासिकंधमो नासां धमन्स्यान्नासिकंधयः ॥नासां धयन्नेवमेव ज्ञेया नाडिंधमादयः ।अभ्रंलिहिस्त्वभ्रलेही भवेदभ्रंकषः पुनः ॥ ७४ ॥
अनुष्टुप्
genderविadj.
genderपुंmasc.
वस्त्रहीने तु नग्नः स्यादवासाश्च दिगम्बरः ।निष्कासितश्चावकृष्टो भवेत् निर्गमिते जने ॥
अनुष्टुप्
genderविadj.
क्षपणे नग्न-नग्नाटौ श्रमणः श्रवणोऽपि च ।क्षेमे मद्रं भद्र-भन्द्रे प्रशस्तं शस्तमित्यपि ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
वेदोज्झो वेदविस्मृत्या स नग्नो यो निरग्निकः ।पर्याधाता कृताधानो योऽग्रजन्मन्यनग्निके ॥ १२१७ ॥
अनुष्टुप्
genderपुंmasc.
यस्यौपासन एवाग्निरेकाग्निः काल्पिकश्च सः ।अग्न्याहितस्त्वाहिताग्निर्नग्नः पुनरनग्निकः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
शिपिविष्टस्तु दुश्चर्मा दुर्बालश्च द्विनग्नकः ।क्षपणश्रमणौ नग्नो नग्नाटश्च दिगंबरः ॥ १५ ॥
अनुष्टुप्
genderविadj.
नृस्त्रियोरथ नग्नः स्यात् पुंसि वैतालिकादिषु ।दिगम्बरे तु त्रिः शास्त्रप्रोक्ताग्निरहिते तथा ॥ ६६३ ॥
अनुष्टुप्
नग्नो रुद्रो जिनोऽवासा वेदत्यागी निरग्निकः ।नाशस्त्वदर्शने मृत्यौ परिध्वंसे पलायने ॥ १९४७ ॥
अनुष्टुप्
नाशः पलायने मृत्यौ परिध्वंसेऽप्यदर्शने ।नग्ना वैतालिकाद्याश्च पिण्डो वृत्ते तनौ गुडे ॥ ३१ ॥
अनुष्टुप्
meaningsवैतालिकादि
नग्न as a meaning in nānārtha verses
- धरणिकोश दिगम्बरपयोधरः कोषकारे स्त्रीस्तने वारिदेऽपि च । दिगम्बराः सामाख्याता नग्नक्षपणशंकराः ॥ Dharaṇikośa 26.2.71
- कोषकल्पतरु दिगम्बरदिगम्बरः पुंसि हरेऽन्यवत्तु क्षु[61a]द्रे च नग्ने तिमिरे तु षण्ढे । पीताम्बरो दैत्यरिपौ नटे च कदम्बरः पुंसि हलायुधे च ॥ ९६ ॥ Koṣakalpataru 6.27.96
- नानार्थार्णवसंक्षेप गोरङ्कुगोपतिस्तु रवौ शण्डे शिवे च रभसः पुनः । नमे वन्दिनि गोरङ्कुरित्याह घुटिकः पुनः ॥ ८४ ॥ Nānārthārṇavasaṃkṣepa 3.2.84
- परमानन्दीयनाममाला गोरङ्कुविडङ्गे ग्रन्थिपर्णेऽपि गण्डको विघ्नखड्गिनोः । गण्डकी तु नदीभेदे गोरङ्कुः खगनग्नयोः ॥ १६२ ॥ Paramānandīyanāmamālā 5.9.162
- शब्दरत्नावली काकरूकपरमर्मज्ञशिष्ये ना शठे कापाटिकस्त्रिषु । काकरूको दम्भनग्नस्त्रीजित्पेचकभीरुषु ॥ Śabdaratnāvalī 7.1.163
- शब्दरत्नावली दिगम्बरदिगम्बरः शिवे नग्ने क्षपणे च तमस्यपि । दुरोदरो द्यूतभेदे द्यूतकारे पणेऽपि च ॥ Śabdaratnāvalī 7.27.126
- त्रिकाण्डशेष गोरङ्कुखगे नग्ने च गोरङ्कुः सङ्ख्याभेदेऽपि गण्डकः । शृङ्ग्यां च ग्रामयुद्धे च ग्राममद्गुरिका स्त्रियाम् ॥ १८ ॥ Trikāṇḍaśeṣa 3.3.18