All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · कान्ताः (1/2)
कः स्याद्विधा[247a]तर्यनलेऽनिलेऽर्केसख्यौ तथा चात्मनि धर्मराजे ।दक्षे मयूरे नरि कं तु मौलौनीरे सुखेऽथ त्रिषु सर्वनामा ॥ २ ॥
6.1.2 · p. 135
इन्द्रवज्राmetre not read in every line
द्विकः
अकं तु दुःखे दुरितेऽपि शस्तम् ।शकस्तु देशे भुजगे च वर्णेशुको भवेद्व्याससुते च कीरे ॥ ३ ॥
6.1.3 · p. 135
उपजातिः
स्याद्ग्रन्थिपर्णे च शुकं शिरीषेद्विकस्तु काकेऽपि च कोकनाम्नि ।ईहामृगे स्यात्करटे वृकोऽथसृकः समीरोत्पलसायकेषु ॥ ४ ॥
6.1.4 · p. 135
उपजातिः
अङ्कः कलङ्कान्तिकरूपकेषुस्यान्नाटकाङ्गेऽपि विचित्रयुद्धे ।उत्सङ्गकस्थानविभूषणागस्-स्वकं तु दुःखे दुरिते द्वयोनम् ॥ ५ ॥
6.1.5 · p. 135
उपजातिः
पल्याणभागे नरि वङ्क उक्तःपात्रे नदीनामपि भङ्गुरे स्यात् ।टङ्कोऽस्त्रियां मानकपित्थभेदेखड्गे खनित्रेऽपि कृपाणकोशे ॥ ६ ॥
6.1.6 · p. 136
इन्द्रवज्रा
स्याट्टङ्कने ग्रावविदारणे चशैलस्य शृङ्गे विवरे च टङ्गे ।अत्कः प्रतीकाध्वगयोरथार्कोरव्यर्कपर्णस्फटिकेन्द्रताम्रे ॥ ७ ॥
6.1.7 · p. 136
इन्द्रवज्रा
[247b]कर्कस्तु शुक्लाश्वघटानलेषुराशौ तथा दर्पण ईरितोऽयम् ।तर्को वितर्केच्छययोः(?)क्रियायाभेदे च शल्कं शकले च वल्के ॥ ८ ॥
6.1.8 · p. 136
इन्द्रवज्रा
कल्कोऽस्त्रियां तैलघृतादिशेषेदम्भे च पापे च बिभीतके च ।विट्किट्टयोः पापहृदि त्रिलिङ्ग्यांवल्कं तु शल्केन समार्थमुक्तम् ॥ ९ ॥
6.1.9 · p. 136
इन्द्रवज्रा
घट्टादिदेये दुहितुश्च पत्युःस्याद्बन्धके शुल्कमपि स्त्रियां न ।मुष्कोऽण्डकोशे तुरगादिमानेस्त्रियां न वृन्देऽपि स मोक्षवृक्षे ॥ १० ॥
6.1.10 · p. 136
उपजातिः
अष्टाधिकस्वर्णशते च कर्षेवक्षःस्थलालंकरणे च हेम्नः ।पात्रे पले पुंसि नपुंसके चदीनारके तद्वदुशन्ति निष्कम् ॥ ११ ॥
6.1.11 · p. 136
इन्द्रवज्रा
किष्कुः प्रकोष्ठेऽपि करे वितस्तौद्वयोस्त्रिलिङ्गस्तु स कुत्सिते स्यात् ।स्त्री कूपनेमौ वहिः ( ? )पृष्ठवंशाधरे त्रये च त्रिकमामनन्ति ॥ १२ ॥
6.1.12 · p. 136
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 7 हिः (wrong syllable)
नाकोऽस्त्रियां व्योमदिवोः शिशौ तुनिष्ठा जरा क्लेदनम[त्र] पाकः ।शक्तौ नरि द्वीपभिदीह राज-भेदे द्रुभेदे[च]वदन्ति शाकम् ॥ १३ ॥
6.1.13 · p. 137
इन्द्रवज्रा
न स्त्री तु कन्दा[248a]दिदशप्रकारेधाको वृषे पुंसि तथाश्रये च ।मूकस्तु दीनावचसोस्त्रिलिङ्ग्यांभूकं तु रन्ध्रे समये तु पुंसि ।बको बकोटे बकपुष्पके चधनाधिनाथे च निशाचरे च ।शूकोऽपि धान्याद्यतितीक्ष्णकाग्रेशुद्धे कृपायामपि न स्त्रियां स्यात् ॥ १५ ॥
6.1.15 · p. 137
इन्द्रवज्राtwo metres in one verse
धृष्टेऽग्रजे पीठगते च मूर्धा-वक्षालने द्वीपरुषद्द्रुभेदे ।स्याद्वेसवारे करटे च काकःकाकी तु काकस्य वधूश्च जातिः ॥ १६ ॥
6.1.16 · p. 137
इन्द्रवज्रा
काका मलप्वामपि काकणन्त्यांकाकोलिकायामपि काकमाच्वाम् ।स्यात्काकनासाह्वयभेषजे चकाकं पुनः स्त्रीरतबन्धकेऽपि ॥ १७ ॥
6.1.17 · p. 137
इन्द्रवज्रा
लङ्का तु रक्षःपुरपत्तनस्त्रीशाखासु शङ्का तु भये वितर्के ।राका तु कच्छ्वां प्रथमार्तवायांनद्यन्तरे पूर्णविधौ तिथौ च ॥ १८ ॥
6.1.18 · p. 137
इन्द्रवज्रा
भुवने जने च लोकः श्लोकः कींर्तौ च पद्ये च ।रङ्को मन्दे कृपणे तङ्कस्त्वस्त्री कुजीवने रोगे ॥ १९ ॥
6.1.19 · p. 138
metre not recognised
शोकः[248b]प्रलापे हृदयस्य दौःस्थ्येरोकं तु नौका-क्रयभिद्बिलेषु ।कान्त्यां पुमान्स्यादथ चातके नास्तोकोऽल्पके त्वे[ष] विशेष्यलिङ्गः ॥ २० ॥
6.1.20 · p. 138
इन्द्रवज्राmetre not read in every line
ज्येष्ठ्यां रथाङ्गेऽपि वृकेऽपि कोकःखर्जूरिकायां च तरुप्रभेदे ।छेको विदग्धे भ्रमरे च वक्रे( ? )शङ्काविरेकाधमकेषु रेकः ॥ २१ ॥
6.1.21 · p. 138
इन्द्रवज्रा
भेकस्त्ववानपि(?)वधूकरणे तु शौकंनाकुर्मुनौ कृमिगिरौ [च गिरौ] तथोक्तः ।शङ्कुः पुमान्सलिलजन्तुविभेदकील-शंभ्वस्त्रकेषु मिथुने तु चतुर्दशेऽङ्के ॥ २२ ॥
6.1.22 · p. 138
वसन्ततिलका
एकं तु पूर्वसंख्यायां प्रधाने केवलेऽन्यवत् ।अन्यार्थेऽथ द्वयोः काकुर्जिह्वायां च ध्वनेर्भिदा ।तर्कुस्तु कर्तके पुंसि कुन्दयन्त्रेऽग्निभाजने ॥ २३ ॥
6.1.23 · p. 138
अनुष्टुप्
त्रिकाः
कनकं तु हेम्निचाम्पेयचम्पकपलाशककाञ्चनारे ।धत्तूरके क्वचन पीतकचन्दनेऽपिस्याद्दानवेऽपि नरको जनको मुनौ च ॥ २३ ॥
6.1.23 · p. 138
वसन्ततिलका
करकः करदाडिम-पक्षिभिदा-स्विह पुंसि करङ्कक[249a]मण्डलुषु ।स न योषिति मेघशिलासु तु सत्रितये मशकस्तु रुजाभिदि वः(?) ॥ २४ ॥
6.1.24 · p. 138
तोटकम्metre not read in every line
तर्षे त्रिषु स्यात्सरकोऽथ न स्त्रीस इक्षुसीधुन्यपि सीधुपात्रे ।अच्छिन्नपान्थालिषु चान्तरिक्षे-ऽथो संधिचौरे खनकस्तथाखौ ॥ २५ ॥
6.1.25 · p. 139
उपजातिः
युतकं संशययुगयोर्यौतकमुक्तं वधूवस्त्रे ।चलनाग्रेऽपि वियुक्ते कृषकः फाले कृषीवले चोक्तः ॥ २६ ॥
6.1.26 · p. 139
उद्गीतिः
रजकः शुकेऽप्यथो नायष्ट्याह्वे मधुपर्णिकायाम् ।मधुकः पक्षिविशेषेवन्दिविभेदे च पुंलिङ्गः ॥ २७ ॥
6.1.27 · p. 139
metre not recognised
त्रिष्वणुको निपुणेऽल्पेपृथुकश्चिपिटे पुमाञ्शिशौ वसुकः ।त्रय्यां स्याच्छिवमल्ल्यांमन्दारे रामके तद्वत् ॥ २८ ॥
6.1.28 · p. 139
metre not recognised
क्रमुकः पूगे लोध्रेब्रह्मतरौ भद्रमुस्ते च ।कर्पासिकाफलेऽथोशिशुकः शिशुमारवारकाङ्कोल्ले ॥ २९ ॥
6.1.29 · p. 139
metre not recognised
बहुकः कर्कटकेऽर्केदात्यूहे जलखादके तद्वत् ।धनिको धवे धनाढ्येत्रिषु वध्वां स्त्री नपुंसि धान्याके ॥ ३० ॥
6.1.30 · p. 139
metre not recognised
प्रियको[249b]नीपे मधुपेचित्रमृगे पीतसाले च ।फलिनीकुङ्कुमयोश्चत्रय्यां यमको यमोत्पन्ने ॥ ३१ ॥
6.1.31 · p. 139
metre not recognised
ना संयमेऽथ शब्दा-लंकारे द्वंद्वहीनं स्यात् ।कुलकं ना कुपटोल-श्लोककसंबन्धगुच्छेषु ॥ ३२ ॥
6.1.32 · p. 140
metre not recognised
ना काकतिन्दुके त-द्भेद्यवदुक्तं कुलश्रेष्ठे ।पुण्ड्रे तिलको न स्त्रीपुंसि ललामे गदाश्वभेदे च ॥ ३३ ॥
6.1.33 · p. 140
metre not recognised
तिलकालके द्रुभेदेगगने सौवर्चले प्रोक्तः ।कुलिको नागविशेषेवृक्षविशेषे त्रये कुलश्रेष्ठे ॥ ३४ ॥
6.1.34 · p. 140
metre not recognised
तैले कुशिकं शिष्टेशेषे सर्जार्जयोश्चर्षौ ।चषकोऽस्त्री मधुपात्रेमद्यविशेषे त[था] क्षौद्रे ॥ ३५ ॥
6.1.35 · p. 140
metre not recognised
कटकोऽस्त्र्यद्रिनितम्बेवलये स्याद्राजधान्यां च ।तद्वत्समुद्रलवणेदन्तावलदन्तमण्डने चोक्तम् ॥ ३६ ॥
6.1.36 · p. 140
metre not recognised
कटुकं कटुरोहिण्यांद्वंद्वेऽल्पे सर्षपे व्योषे ।चलुकश्चुलकश्च द्वौप्रसृतौ भाण्डप्रभेदे च ॥ ३७ ॥
6.1.37 · p. 140
metre not recognised
तक्षक उक्तो नागेस्थपतावल्पे तु निःस्वे च ।नीचे कनीयसि स्या-त्परलिङ्गः क्षु[250a]ल्लकस्तद्वत् ॥ ३८ ॥
6.1.38 · p. 140
metre not recognised
रणरणके रक्तकुथेरल्लक उक्तश्च सीमन्ते ।पुलकोऽस्त्री कृमिभेदेगल्वर्के रक्तदोषे च ।रोमाञ्चे हरितालेशिलाविभेदे गजान्नपिण्डे च ॥ ३९ ॥
6.1.39 · p. 141
metre not recognised
रुचकं दन्ते ग्रीवा-लंकारे मङ्गलद्रव्ये ।माल्ये चाश्वाभरणेसौवर्चलजन्तुहारिलुङ्गेषु ॥ ४० ॥
6.1.40 · p. 141
metre not recognised
स्याद्रोचने कटकयोःक्षुरकः पुनरिक्षुरे त्रिकण्टे च ।अतिमुक्तेऽशोकतरौकामुक आद्येऽभिके परवत् ॥ ४१ ॥
6.1.41 · p. 141
metre not recognised
पुंसि वारिकरटिप्रपातयोःपातुकः स पतयालुके त्रिषु ।आनकस्तु रसदब्दमृदङ्ग-भेरिकापटहवाचकः पुमान् ॥ ४२ ॥
6.1.42 · p. 141
रथोद्धताmetre not read in every line
चारको गजहयादिपालकेबन्धभिद्यपि पियालपादपे ।कर्णधारदनुजेषु तारकौलोचने तु स मतो नपुंसके ॥ ४३ ॥
6.1.43 · p. 141
रथोद्धता
सर्वलिङ्गि भकनीनिकयोः स्या-द्वारकस्तु तुरगेऽश्वगतौ च ।स्यान्निषेद्धरि विशेष्यसलिङ्गसायकस्तु विशिखेऽपि कृपाणे ॥ ४४ ॥
6.1.44 · p. 141
स्वागता
हारमध्यगमणौ तु नायको[250b]नेतरि त्रिषु बुधैरुदीरितः ।पावकस्त्वरणिचित्रकाग्निषुत्रिष्वयं विमलशीलशालिनि ॥ ४५ ॥
6.1.45 · p. 142
रथोद्धताmetre not read in every line
वर्तको हयखुरे द्वितयस्मि-न्नेष पक्षिणि मतोऽथ कुलाये ।जालिनीफलककोरकदम्भा-नायवाचि किल जालकमन्त्ये ॥ ४६ ॥
6.1.46 · p. 142
स्वागता
स्त्री तु वस्त्र भिदि भेद्यगतस्तुवालको जडमतौ च शिशौ च ।पुंसि केशहयवारणपुच्छे-ऽथोर्मिकानलदयोरपि न स्त्री ॥ ४७ ॥
6.1.47 · p. 142
स्वागता
स्यात्कारकं कर्तरि वाच्यलिङ्गंकर्मादिषूक्तं द्वितयोनमेतत् ।स्याद्वार्द्धकं कर्मणि च व्रजे चभावे च वृद्धस्य जघन्यलिङ्गम् ॥ ४८ ॥
6.1.48 · p. 142
इन्द्रवज्रा
ममत्वभाजि मामकस्त्रयेऽथ मातुले पुमान् ।नृपद्विपे(?) च राजको नृपव्रजे तु न द्वयोः ॥ ४९ ॥
6.1.49 · p. 142
पञ्चचामरम्
स्याद्ग्राहको वधकपक्षिणि भेद्यलिङ्ग-स्त्वेष ग्रहीतरि भवेदथ दारकः स्यात् ।भेद्यायतो भिदिकरे द्वितये त्वपत्येस्याद्रात्रकस्तु पुरदारगृहेऽब्दनेता ॥ ५० ॥
6.1.50 · p. 142
वसन्ततिलका
पिण्डे तु शर्करायाः शार्कक उक्तः स दुग्धफेनेऽपि ।[251a]केकिनि लासक आद्येभेद्याधीनस्तु नर्तके लसके ॥ ५१ ॥
6.1.51 · p. 142
metre not recognised
हारकः कितवचौरगद्यभिद्-ज्ञानभित्सु च मतो नृलिङ्गकः ।स्थासकस्तु हयभूषणवारि-बुद्बुदेष्वपि च चर्चिकतायाम् ॥ ५२ ॥
6.1.52 · p. 142
रथोद्धताtwo metres in one verse
सूर्यावर्ते धूर्ते ग्रावविभेदे च जम्बुको गदितः ।भ्रामक आद्ये परवद्भ्रमकर्तर्येष उद्दिष्टः ॥ ५३ ॥
6.1.53 · p. 143
आर्याmetre not read in every line
कोके तु कावृकः स्यात्कृकवाकौ पीतमौलौ च ।ग्रावविभेदे चतुरे द्रावक उक्तोऽपि घोषके पुंसि ॥ ५४ ॥
6.1.54 · p. 143
उद्गीतिः
क्षारकः खगझषादिपेटकेपाटकस्तु कटकान्तरे तटे ।वाद्यभिद्यपि * मूलरैक्षये-ऽक्षादितोलनविधावपि स्मृतः ॥ ५५ ॥
6.1.55 · p. 143
रथोद्धताmetre not read in every linenearly रथोद्धता
युद्धे वराकस्त्रिषु तु स्मृतोऽसौशोच्ये पराको व्रतखड्गयोः स्यात् ।पिनाकमस्त्री हरचापपांशु-वर्षे त्रिशूलेऽपि च संप्रदिष्टम् ॥ ५६ ॥
6.1.56 · p. 143
उपजातिः
पिण्याकमस्त्री तिलकल्कहिङ्गु-कश्मीरजन्मस्वपि सिह्लके च ।बाह्लीकवद्बाह्लिकमत्र हिङ्गु-सत्कुङ्कु[251b]मे देशतुरंगयोर्ना ॥ ५७ ॥
6.1.57 · p. 143
इन्द्रवज्राmetre not read in every line
स्यात्पाणिनौ खजाको दर्व्यां तु स्त्री पुलाकस्तु ।संक्षेपे(ऽ?) फलधान्यौदनसिक्थेष्वेष शीघ्रे च ॥ ५८ ॥
6.1.58 · p. 143
metre not recognised
स्वादौ परिणामे दुर्गतौ विपाकः समुद्दिष्टः ।स्वेदे दुष्कर्मफले भवति निपाकस्तथा पाके ॥ ५९ ॥
6.1.59 · p. 143
metre not recognised
किंपाकस्त्रिषु मन्दे स फले क्लीबेऽथ लम्पाकः ।त्रितये लम्पटवाची देशे पुंलिङ्ग उद्दिष्टः ॥ ६० ॥
6.1.60 · p. 143
metre not recognised
लिम्पाकं निम्बूके[लिपिका] लिम्पौ स्त्रियां कदल्यां तु ।शिग्रौ विरागिणि तथाप्रोक्तो निर्मोचके च मोचकः ॥ ६१ ॥
6.1.61 · p. 143
metre not recognised
संपाको नृपतरुधृष्टतर्ककेषुपुंलिङ्गः पुनरपि पेचकोऽस्त्युलूके ।स्यान्नीले तमसि मले च बर्हिचन्द्रेस्त्रीलिङ्गं न भजति जातु मेचकोऽपि ॥ ६२ ॥
6.1.62 · p. 144
प्रहर्षिणी
स्यात्सूचकः सीवनवस्तुकाक-बिडालवान्तादगतो नृलिङ्गः ।स्याद्बोधके च पिशुने च विशेष्यलिङ्गोमेघे तु ना त्रिषु तु सेक्तरि सेचकोऽपि ॥ ६३ ॥
6.1.63 · p. 144
उपजातिःtwo metres in one verse
खाद्ये न स्त्री मोदको हर्षुके तुभेद्याधीनो लोचक[252a]स्त्वक्षितारे ।स्त्रीणां भालालंकृतौ मांसपिण्डेमोचार्थी चाथास्त्रियां कज्जले सः ॥ ६४ ॥
6.1.64 · p. 144
शालिनीmetre not read in every linenearly शालिनी: pāda 2, syllable 7 क (wrong syllable)
स्यात्पूगकोशे कृमिपर्वते चपाके शिरस्त्रेऽपि च खोलको ना ।स्याद्गोलको ना मणिके गुडेऽपितोयस्थितग्राव्णि तु कूपकः स्यात् ॥ ६५ ॥
6.1.65 · p. 144
इन्द्रवज्रा
तैलस्य पात्रे च कुकुन्दरेऽथप्रतीपवल्मीकसमुच्छ्रयेऽन्त्ये ।स्यात्कूपिका कूपसमीपगायांशुष्कापगायामपि खातकूपे ॥ ६६ ॥
6.1.66 · p. 144
उपजातिः
काव्यालंकृतिभेदेकाव्यविशेषे च रूपकं क्लीबे ।परवद्धूर्ते कूपेत्वाम्रे प्रोक्तश्च चूतकः पुंसि ॥ ६७ ॥
6.1.67 · p. 144
metre not recognised
रसे सूतकोऽस्त्री जनौ त्वन्त्यलिङ्गःपशौ लूनकोऽथ त्रये भिन्नवाची ।पुमान्कीचको दैत्यभेदे च वेणौबधौ( ? )हीरको वृत्तभेदे तु षण्ढे ॥ ६८ ॥
6.1.68 · p. 145
भुजङ्गप्रयातम्
जीवकस्तु नरि पीतशालकेवृद्धिजीविकृपणार्थकोऽन्यवत् ।दीपकं भवति वागलंकृतौदीप्तिकारिणि तु वग्च्यवत्स्मृतम् ॥ ६९ ॥
6.1.69 · p. 145
रथोद्धता
पुंसि जीरकयवानिकाद्वयेस्या[252b]च्छिखावलशिखण्डवाच्यपि ।निर्धने हृतदयेऽपि कीटकोभेद्यवत्समुदितो विचक्षणैः ॥ ७० ॥
6.1.70 · p. 145
रथोद्धताmetre not read in every line
स्यात्सेवकः [प्र]सेवेपरवत्सेवाकरे प्रोक्तः ।मानद्रुमेऽप्यशोकोनिःशोके वाच्यवद्गदितः ॥ ७० ॥
6.1.70 · p. 145
metre not recognised
योषिति कटुरोहिण्यांसाधारण्येन पादपे क्लीबे ।आलोको वन्द्युक्ता-वुद्द्योते दर्शने पुंसि ॥ ७१ ॥
6.1.71 · p. 145
metre not recognised
पुस्तकमञ्जूषायांपेटकमुदितं तथा संघे ।भवति महाकालगणेचार्वाके हेतुकस्तद्वत् ॥ ७२ ॥
6.1.72 · p. 145
metre not recognised
स्याद्धैनुकं स्त्रीकरणे गवौघेधातौ गिरेर्हेम्नि च गैरिकं स्यात् ।सद्योंङ्कुरे शिग्रुभवे च तैलेहेतौ तथा बैजिकमुक्तमत्र ॥ ७३ ॥
6.1.73 · p. 145
इन्द्रवज्रा
प्रसेकः स्रुतौ सेचने वक्त्रलाला-स्रुतौ स्यादथ द्रोणिकायां जलस्य ।विचारे रहोऽर्थे च शस्तो विवेक-स्त्रिषु त्वेकको निःसहाये रसे ना ।कङ्कोलके मृणालेकोरकमस्त्री च कुड्मलार्थेऽपि ।अभिलाषोत्सवनर्म-प्रीतिविवा[253a]हीयगीतसूत्रादौ ॥ ७५ ॥
6.1.75 · p. 146
भुजङ्गप्रयातम्metre not read in every line
कामे भोगे कुतुकेकौतुकमच्छिन्नमङ्गले चापि ।दीपाङ्गयोः प्रतीकःप्रतिकूलविलोमयोः परवत् ।विश्वामित्रे वृत्रशत्रावुलूकेव्यालग्राहे गुग्गुलौ कोशविज्ञे ।पुंलिङ्गः स्यात्कौशिकः कौशिकी तुकात्यायन्यां स्यात्स्रवन्तीविशेषे ॥ ७७ ॥
6.1.77 · p. 146
शालिनीmetre not read in every line
भूतीकं भूतिकव-त्कत्तृणभूनिम्बसोमवल्केषु ।वल्मीको मुनिभेदेगदभेदेऽर्थे*वामलूरेऽस्त्री ॥ ७८ ॥
6.1.78 · p. 146
metre not recognised
धूमेन्द्रवोस्त्वजीवो ना स त्रिषूपहते मतः ।कुण्डीकुलविभेदे तु चुलुकी शिशुमारके ।अभीकः कवौ कामुकः क्रूरवाचीविशेष्यायतोऽनीकमस्त्री रणेऽपि ।अलीकालिके नाकभालानृतेषुस्मृते चाप्रियेऽथ व्यलीकं न योषित् ॥ ७९ ॥
6.1.79 · p. 146
अनुष्टुप्two metres in one verse
अकार्येऽप्रिये कामदोषे तु पीडा-र्थवैलक्षयोर्द्वंद्वहीनं मतं तत् ॥ ८० ॥
6.1.80 · p. 147
भुजङ्गप्रयातम्
नालीकं कमलगणेऽन्तिमेऽथ बाणेना शिल्पिन्यथ[253b]कुलशीलयोरनूकम् ।पुंसि स्याद्गतजननेऽथ वासवे स्या-द्घूके स्यादपि कुरुवीरकेऽप्युलूकः ॥ ८२ ॥
6.1.82 · p. 147
प्रहर्षिणीmetre not read in every line
शम्बूकशम्बुकौ स्तो दैत्यविभेदे च भेके च ।गजकुम्भमध्यभागे स्त्रीपुंसावम्बुशुक्तौ तौ ॥ ८२ ॥
6.1.82 · p. 147
metre not recognised
चारणे वर्ण[को] वर्णकं चन्दनेकुङ्कुमे लेपनेऽथार्भको भेद्यवत् ।बालके[निर्ध]ने[स्यात्]कृशे भ्रूणकोवेत्रधारे त्रये दर्शकः शिक्षके ॥ ८३ ॥
6.1.83 · p. 147
स्रग्विणी
पुष्पकं रीरिकादृग्व्यथाभेदयोरत्नसत्कङ्कणे स्याद्विमानान्तरे ।लोहकासीसकाङ्गारधान्याह्वयेतार्क्ष्यजे चाञ्जने पुष्पकं चक्षते ॥ ८४ ॥
6.1.84 · p. 147
स्रग्विणी
पद्मकमस्त्री करिणों-ऽशुबिन्दुजाले च पद्मकाष्ठे च ।व्याघ्रे तु चित्रको नाद्रुमभेदे पुण्ड्रके नस्त्री ॥ ८५ ॥
6.1.85 · p. 147
metre not recognised
स्यान्नालिकेरमध्येखड्गे रत्ने च सस्यकः प्रोक्तः ।अम्लाने बन्धूकेरक्तपटे ना च रक्तको [गणितः] ॥ ८६ ॥
6.1.86 · p. 147
metre not recognised
द्रुणे वृश्चिकः शूककीटे च राशौद्वयोरोषधीभेदके स्यान्नृलिङ्गः ।भ[254a]वेदंशुकं सूक्ष्मवस्त्रे च वस्त्रेतथैवोत्तरीये मयूखे तु पुंसि ॥ ८७ ॥
6.1.87 · p. 147
भुजङ्गप्रयातम्metre not read in every line
स्यादन्तिकं समीपेचुल्ल्यां ज्येष्ठस्वसरि च नाट्ये स्त्री ।स्यात्स्वस्तिकश्चतुष्केगृहभेदे मङ्गलद्रव्ये ॥ ८८ ॥
6.1.88 · p. 148
metre not recognised
पिष्टकविकृतौ तद्व-द्रतताल्यामादिमे प्रोक्तः ।कञ्चुकमस्त्री कवचेनिर्मोके वारणेऽपि स्यात् ॥ ८९ ॥
6.1.89 · p. 148
metre not recognised
चोलकपूर्णानकयो-रोषधिभेदे तु कञ्चुकी प्रोक्ता ।गृहनकुले गोमायौनरि धूर्ते तु वञ्चकः परवत् ॥ ९० ॥
6.1.90 · p. 148
metre not recognised
निघ्नेऽपि गृह्यकः स्या-द्विनिमित्यां बन्धकं निहिते ।परवत्सुगन्धविक्रे-तरि लिपिजीवे च गान्धिको गदितः ॥ ९१ ॥
6.1.91 · p. 148
metre not recognised
वरुणेऽपि जम्बुकः स्याद्-ग्रन्थिक आद्ये करी[रः]स्यात् ।गुग्गुलुमाद्रीसून्वो-र्दैवज्ञेऽन्त्ये तु पिप्पलीमूले ॥ ९२ ॥
6.1.92 · p. 148
metre not recognised
स्याद्वार्षिकं द्वयोनंत्रायन्त्यां वार्षिके परवत् ।महिषीपयसः फेनेखट्टिक उक्तोऽथ सौनिके परगः ॥ ९३ ॥
6.1.93 · p. 148
metre not recognised
आह्निकमशनेऽहीन-निर्वर्त्यकर्मण्युदीरि[254b]तं चरमे तत् ।गुलकः कलोक्तिधूलि-स्नेहामत्रेषु वाच्यवन्मलिने ॥ ९४ ॥
6.1.94 · p. 148
metre not recognised
स्याद्गण्डकः खड्गिनि चान्तरायेसंख्याकलाभिद्यबला तु नद्याम् ।स्यात्तण्डको भूरिसमासवाक्येफेने च मायाविनि खञ्जने च ॥ ९५ ॥
6.1.95 · p. 149
इन्द्रवज्रा
स्यात्कण्टकोऽस्त्री पुलकद्रुमांश-क्षुद्रारिकर्मस्थितिदूषणेषु ।द्वारे तु पक्षस्य च पार्श्वमात्रेस्यात्पक्षकोऽथो वलये च कम्बौ ॥ ९६ ॥
6.1.96 · p. 149
इन्द्रवज्रा
क्लीबेऽथ मर्मण्यपि शीर्षरोगेना शङ्खकोऽथ त्रिषु नन्दकः स्यात् ।कुलोत्तमे हृष्यति विष्णुखड्गेना शीतकः शीतऋतौ नरे स्यात् ॥ ९७ ॥
6.1.97 · p. 149
उपजातिः
स्याद्दीर्घसूत्रे त्रिषु सुस्थिते चग्रीष्मे पुमानुष्णक आतुरे तु ।क्षिप्रक्रिये चाप्यथ[?]र्क्कुकः स्या-न्ना गन्धकुट्यामवकाशके च ॥ ९८ ॥
6.1.98 · p. 149
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा
दुण्डकस्तिन्दुके वाच्यवन्निष्ठुरेभस्मकं रूप्यके जन्तुहारिण्यपि ।रोगभेदे पुमांश्चुम्बकस्त्वादिमेस्यादयस्कान्तके ****** ॥
6.1.99 · p. 149
स्रग्विणीmetre not read in every line
मोक्षेऽन्तरिक्षे कवचेऽहिकृत्तौनिर्मोक आद्ये चरकस्तु चारे ।मुनौ कुषाकुस्तु कृशानुभानु-कीशेष्वथातापिनि वाच्यलिङ्गः ॥ १ ॥
6.1.1 · p. 149
उपजातिः
कुठाकुर्दुराधर्षदुःशीलयोः स्या-द्विशेष्यायतः पक्षिभेदे तु पुंसि ।सृदाकुर्दवाग्नौ समीरे शयानेसरिद्वाचकस्तु स्त्रियां **** ॥ २ ॥
6.1.2 · p. 150
भुजङ्गप्रयातम्metre not read in every line
व्याघ्रे सर्पे चित्रके ना पृदाकु-र्गोरङ्कुः स्यान्नग्नके पक्षिजातौ ।बन्दिन्युक्तोऽथ त्रिशङ्कुर्बिडालेराज्ञो भेदे स्यात्पतङ्गाह्वये च ॥ ३ ॥
6.1.3 · p. 150
शालिनी
पर्यङ्कः पल्यङ्कोद्वौ पर्यङ्के च मञ्चे च ।मुन्यासने च सक्थ्या-मथो करङ्कः पुटोदकेऽस्थ्नि स्यात् ॥
6.1.104 · p. 150
metre not recognised
सस्ये तथोत्तमाङ्गे-ऽथाक्षेपेऽङ्के मलेऽप्ययसः ।प्रथमे कलङ्क उक्तःपालङ्कः शाकशल्लक्योः ॥ ५ ॥
6.1.5 · p. 150
metre not recognised
भालाङ्क ईशेऽपि च शाकभेदेकूर्मे तथा रोहितनाम्नि मत्स्ये ।सल्लक्षणे स्यात्पुरुषे वृषाङ्क-स्त्वीशे च साधावपि वल्लिवृक्षे ॥ ६ ॥
6.1.6 · p. 150
इन्द्रवज्रा
[255b]आतङ्को मुरजनिनादतापशङ्का-रुक्ष्वस्त्री रतिपतिकण्टकेऽप्युदर्कः ।संपर्को निधुवनपृक्तिवाचकः स्या-दूहायां पुनरिह संशये वितर्कः ॥ ७ ॥
6.1.7 · p. 150
प्रहर्षिणी
अम्बिका तु जननी *************** ।******* कपटे चा-थाम्लिकाम्लकरसोद्गिरणेऽपि ॥ ८ ॥
6.1.8 · p. 151
metre not recognised
अम्लानके स्यादपि यूथिका स्त्रियांकेदाररेखासुरिकासु राजिका ।द्वारस्य पिण्ड्यामपि दूतिकायांसंग्रामभूमौ गदिता च रुण्डिका ॥ ९ ॥
6.1.9 · p. 151
upajati mixed
काञ्चीरसालारसनासु सद्भिःकोषप्रवीणै रसिकोपदिष्टा ।स्यात्कर्णिका कर्णविभूषणेभ-शुण्डाग्रपाथोरुहबीजकोशे ॥ १० ॥
6.1.10 · p. 151
इन्द्रवज्रा
स्यात्पाणिमध्याङ्गुलिपूगखण्डे*********** ।स्यात्कल्पनायामपि भूमिकान्य-वेषस्य च स्वीकरणे प्रदिष्टा ॥ ११ ॥
6.1.11 · p. 151
इन्द्रवज्राmetre not read in every line
गोधूमपिष्टे कणिका कणे चा-थ स्यात्करिण्यां गणिका च यूथ्याम् ।वाराङ्गनायामरणिद्रुमेऽथस्याद्ग्रामकूटेऽपि च धीवरे च ॥ १२ ॥
6.1.12 · p. 151
इन्द्रवज्रा
ना जालिकः स्त्री त्वधवाङ्गनायांवेणीफले[256a] स्यादपि रक्तपायाम् ।स्यात्कामचिन्तातनुरक्षिणीषुसारेमि[?]श्च क्वचिदुच्यतेऽसौ ॥ १३ ॥
6.1.13 · p. 151
metre not recognised
कारिका विवृतियातनानटी-कारुकर्मसु च वर्णका पटे ।लेखिनीभिदि च नीलिका पुनःसिन्धुवारगदनीलिनीष्वपि ॥ १४ ॥
6.1.14 · p. 151
रथोद्धता
गौरीनवाम्बुदघनावलिधूमरीषुस्याद्योगिनीभिदि नृवत्सर( ? )कार्ष्ण्ययोश्च ।मांसीपटोलघनरोमलतासु शाखा-काक्योश्च वृश्चिकदलेऽपि च कालिका स्यात् ॥ १५ ॥
6.1.15 · p. 152
वसन्ततिलका
मालिका तु सरिदन्तरे स्रजिश्रोत्रमण्डनकवालुकासु तु ।बालिका भवति पत्रकाहला-बाल्यशालिललनास्वपि स्मृता ॥ १६ ॥
6.1.16 · p. 152
रथोद्धता
आलेख्यलेखनीतूलशय्यास्वपि च तूलिका ।नाटकाङ्गे कर्णजाहे करिणामपि चूलिका ॥ १७ ॥
6.1.17 · p. 152
अनुष्टुप्
करिण्यां धेनुका धेनौ पुंलिङ्गे दनुजान्तरे ।मल्लिका तृणशूल्ये ना हंसभिद्दीपपात्रयोः ।चोलकी नागरङ्गे च करीरे किष्कुपर्वणि ।नग्नाचार्ये हिण्डकः स्याद्दीनाया[256b]मपि मूषिका ॥ १८ ॥
6.1.18 · p. 152
अनुष्टुप्metre not read in every line
झिल्लिका सिह्लके झिल्ल्यां विलेपनमलेऽपि च ।वालुका सिकतासु स्त्री द्वयोनं त्वेलवालुके ॥ १९ ॥
6.1.19 · p. 152
अनुष्टुप्
कुमार्यां धेनुकायां च नग्निका नरि वन्दिनि ।हरेणौ पर्शुरामस्य जनन्यामपि रेणुका ॥ २० ॥
6.1.20 · p. 152
अनुष्टुप्