All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
भूकाण्डः · वनौषधिवर्गः (13/15)
क्षुद्रकानां मालवानां सेनायां वृन्दसंयुता ।वदन्ति तां कोषविदो बुधाः क्षौद्रकमालवीम् ॥सेनाजघनभागे तु भवेत्प्रतिस[120b]रस्त्रिषु ।नासीरं ना न सेनाग्रं सज्जनं तूपरक्षणम् ॥शस्त्रं ना न प्रहरण-वधत्रास्त्र-धनूंषि च ॥ १३ ॥
2.3.13 · p. 264
अनुष्टुप्metre not read in every line
हत्नुरस्त्र्यायुधं हेतिर्दलपस्तोत्त्रमन्तिमे ।पाणिमुक्तं तु शक्त्यादि यन्त्रमुक्तं शरादिकम् ॥ १४ ॥
2.3.14 · p. 264
अनुष्टुप्
अमुक्तं तु कृपाणादि यष्ट्याद्यं स्याद्द्वयात्मकम् ।धन्विष्वासौ द्रुणं चासो धन्व कार्मुकमस्त्रकम् ॥ १५ ॥
2.3.15 · p. 264
अनुष्टुप्
शरासनं धनुश्चाप-कोदण्डाः स्युर्न योषिति ।दृढधन्वा दृढेष्वासोऽथाह्वये शतधन्ववत् ॥भवेच्छतधनुश्चायं भेद्यलिङ्गा अमी मताः ।कोटिरस्यार्तिरटनी मध्यभागस्तु लस्तकः ॥ १६ ॥
2.3.16 · p. 264
अनुष्टुप्
मौर्वी ज्या शिञ्जिनी शिञ्जा जीवा वामा द्रुणा च सा ।गुणो बाणासनं च स्यात्तारणमादिगव्यकम् ॥ १७ ॥
2.3.17 · p. 264
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
गोधा तु तलमन्त्ये स्याच्छिञ्जिन्याघातवारणा ।वैष्णवं समपादं च वैशाखं मण्डलं तथा ॥ १८ ॥
2.3.18 · p. 264
अनुष्टुप्
प्रत्यालीढं तथालीढमिति षट्स्थानसंग्रहः ।शस्त्राभ्यासस्तु खुरली तद्भूमिस्तु[121a] खरूलिका ॥ १९ ॥
2.3.19 · p. 264
अनुष्टुप्metre not read in every line
उपासनं शराभ्यासोऽथो शरव्यं च वेध्यकम् ।लक्ष्यं लक्षं निमित्तं च चित्रपुङ्खः शिलीमुखः ॥ २० ॥
2.3.20 · p. 265
अनुष्टुप्
शरस्तु न स्त्रियां रोपो विशिखः खग आशुगः ।अजिह्मगो गार्धपक्षः पत्रि-मार्गण-सायकाः ॥ २१ ॥
2.3.21 · p. 265
अनुष्टुप्
कङ्कपत्रः पत्रवाहः पृषत्कः सायकश्च सः ।कलम्बः प्रदरोऽस्त्रीकौ बाण-काण्डाविषुस्त्रिषु ॥ २२ ॥
2.3.22 · p. 265
अनुष्टुप्
प्रक्ष्वेडनास्तु नाराचा सर्वलोहास्तथैषणाः ।नालीको नलिका मोच्ये निरस्ताः प्रहिते शरे ॥ २३ ॥
2.3.23 · p. 265
अनुष्टुप्
विषाक्ते लिप्तको दिग्धो नीलीकाद्या विशेष्यवत् ।क्षुरप्रत्तद्वलार्धेन्दु-तीरे भल्लादयो भिदः ॥ २४ ॥
2.3.24 · p. 265
अनुष्टुप्
शरवाणिः स्त्रीषुमुखं कर्तरी पुङ्खमस्त्रियाम् ।पक्षो वाजः पत्रपाली पत्रणा पत्रलं त्रिषु ॥शरसंक्रमणे पुंसि वातरायण उच्यते ।बाणमुक्तिर्व्यवच्छेदो दीप्तिर्वेगस्य तीव्रता ॥ २६ ॥
2.3.26 · p. 265
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्त्री (wrong syllable)
निषङ्ग-तूणीर-कलाप-बाणा-वापा उपासङ्ग उपाश्रयश्च ।स्त्रीपुंसयोः स्यादिषुधिश्च केकि-छन्दं द्वि[121b]हीनं त्रितयेऽत्र तूणी ॥ २७ ॥
2.3.27 · p. 265
उपजातिःmetre not read in every line
निस्त्रिंशस्तरवारिश्छिदिरो धारापथस्त्रिमार्गोऽसिः ।खड्गश्च गाढमुष्टिर्लोहभुजंगो जयश्रीदः ॥ २८ ॥
2.3.28 · p. 265
आर्या
कौक्षेयको विशसनो धाराधर-चन्द्रहास-धाराङ्गाः ।करवालः करपालः कोशधरो मण्डलाग्रश्च ॥ २९ ॥
2.3.29 · p. 265
आर्या
श्रीगर्भ-चन्द्रभासौ शस्त्र-कृपाणौ द्वयो रिष्टिः ।वारङ्गः त्सरुरेतन्मुष्टिः स्यान्मेखलाबन्धः ॥ ३० ॥
2.3.30 · p. 265
metre not recognised
प्रत्याकारः परीवारः कोषः खड्गपिधानकम् ।तच्चार्मं चर्मसंभूतमीली तु करवालिका ।असिपुत्र्यसिधेनुश्च क्षुरिका च कृपाणिका ॥ ३१ ॥
2.3.31 · p. 265
अनुष्टुप्
शस्त्री च छुरिका चासिपत्रिकाथ घु फलम् ।परञ्जं पात्रपालस्तु भवेदायतशस्त्रिका ॥ ३२ ॥
2.3.32 · p. 265
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
फलकोऽ *[ स्त्री ]फलं चर्मावरणं खेटकाडुने ।फरकोऽस्त्री स्फुरोऽथ स्यात्संग्राहो मुष्टिरस्य यः ॥ ३३ ॥
2.3.33 · p. 265
अनुष्टुप्
यष्टिः स्त्री लगुडो दण्डो लकुटः प्राजनश्च सः ।द्रुघणो मुद्गर-घनौ कासूः शक्तिः स्त्रियामुभे ॥ ३४ ॥
2.3.34 · p. 265
अनुष्टुप्
कासूतरि तु सा ह्रस्वा प्रा[122a]सः कुन्तः शलश्च सः ।भिन्दिपालो भिण्डिपालः सृगश्चेति समार्थकाः ॥ ३५ ॥
2.3.35 · p. 265
metre not recognised
द्वयोः कुठारः स्वधितिः परशु-च्छिदि-पर्शवः ।जीर्विः परश्वधोऽपि स्यात्स परस्वश्च (ध) इत्यपि ॥ ३६ ॥
2.3.36 · p. 265
अनुष्टुप्
तोमरोऽस्त्री सर्वला स्त्री परिघः परिघातनः ।शूलिः स्त्री शूलमस्त्री*[स्यात् ] क्षिपणिः क्षिपका स्त्रियाम् ॥अरि क्लीबे चक्रमस्त्री गदादीनि पृथक्पृथक् ।शल्यं न स्त्री ध्रुवः शङ्कुः शम्बकः कीलकश्च सः ॥अस्रः पुंसि तथा कोणः स्त्रियः पाल्यश्रि-कोटयः ॥ ३७ ॥
2.3.37 · p. 265
अनुष्टुप्
शस्त्राण्यथो स्युर्यन्त्राणि नाल्यपि नालिका स्त्रियाम् ॥ ३८ ॥
2.3.38 · p. 265
सर्वाभिसारः सर्वौघः सर्वसंनहनं तथा ।इषश्चैव दशम्यां यो राज्ञां नीराजनाद्विधिः ॥ ३९ ॥
2.3.39 · p. 265
अनुष्टुप्
तत्र लोहाभिसारः स्यादथ स्याद्गमनं गमः ।प्रस्थानमभिनिर्याणं प्रयाणं प्रस्थितिः स्त्रियाम् ॥ ४० ॥
2.3.40 · p. 265
अनुष्टुप्
व्रज्या यात्राभिक्रमस्तु रिपून्प्रत्याहवे गमः ।यत्सेनयाभिगमनमरौ तदभिषेणनम् ॥ ४१ ॥
2.3.41 · p. 265
अनुष्टुप्
स्यात्सुहृद्बवलमासारः [122b] प्रचक्रं चलितं वलम् ।प्रसारस्तु प्रसरणं तृणकाष्ठादिहेतवे ।अथ क्रीडाप्रयाणे स्यात्प्रभूणां भ्रमणी स्त्रियाम् ॥ ४२ ॥
2.3.42 · p. 265
अनुष्टुप्metre not read in every line
वैतालिका बोधकरा आर्थिकाः सौखसुप्तिकाः ।चाक्रिका घाण्टिकास्तुल्या मगधा मागधाः समाः ॥ ४३ ॥
2.3.43 · p. 265
अनुष्टुप्
नग्नाः स्तुतिव्रतास्तेषां त्वाचार्यौ(?)हिण्डकः स्मृतः ।भोगावली तु तद्ग्रन्थो विरुदं कर्म विश्रुतम् ॥ ४४ ॥
2.3.44 · p. 265
अनुष्टुप्
सूतो मङ्गलपाठी स्याद्बन्दी स च निगद्यते ।आलोकस्तूच्यते सद्भिर्वन्दिनां भाषणं हि यत् ।संसप्तकास्तु समयात्संग्रामादनिवर्तिनः ॥ ४५ ॥
2.3.45 · p. 265
अनुष्टुप्
रेणुस्त्रिषु स्त्रियां धूली रजनं शूक-पांशकः ।पांशुश्च न रजो द्वंद्वे क्षोदश्चूर्णो न योषिति ॥ ४६ ॥
2.3.46 · p. 265
अनुष्टुप्
पताका वैजयन्ती च धूका केतुर्मतो नरि ।केतनं ध्वजमस्त्रीके अस्योच्चूलावचूलिका ॥ ४७ ॥
2.3.47 · p. 265
अनुष्टुप्
मुखमूर्ध्वं कूर्च्चमधः पादरः पादधूलिका ।पताकायास्तु चीरान्तो न पुंसि व्योममञ्जरम् ॥ ४८ ॥
2.3.48 · p. 265
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कू (wrong syllable)
स्त्रियां कद[123a]लिका प्रोक्ता पताका या गजस्थिता ।स्याद्वीराशंसनं युद्धभूमिर्यातिभयप्रदा ॥ ४९ ॥
2.3.49 · p. 265
अनुष्टुप्metre not read in every line
वृत्ते भाविनि वा युद्धे पानं स्याद्वीरपाणकम् ।पराक्रमः प्राण ऊर्जो द्युम्नं च द्रविणं सहः ॥ ५० ॥
2.3.50 · p. 265
अनुष्टुप्
न स्त्री बलसहे स्थाम-स्थामनी शुष्म-शुष्मणी ।ओजः शौर्यं च शक्तिः स्त्री विक्रमस्त्वतिशक्तिता ॥ ५१ ॥
2.3.51 · p. 268
अनुष्टुप्
संग्रामः समुदाय-संगर-समाघाताभिसंपात-सं-स्फोटारालि-समाह्वया अभिमरोमाराङ्कपुग्विग्रहः ।संस्फेटः कलहः कलिः समुदयः प्राह-प्रघाताहवा-क्रन्दाभ्यागम-संप्रहार-समिधाभ्यामर्द्द-सम्मर्द्दकाः ॥ ५२ ॥
2.3.52 · p. 268
शार्दूलविक्रीडितम्
स्त्रीत्वे स्युः समिदाजि-युत्समितयो न स्त्री रणानीकभाक्संख्यं संयुग-संपराय-समराः संयन्न पुंलिङ्गभाक् ॥ ४८ ॥
2.3.48 · p. 268
शार्दूलविक्रीडितम्
युद्धास्कन्दन-सांपरायिक-मृधं द्वंद्वं समीकं तथाजन्यं च प्रविदारणं प्रधनवच्चायोधनं भण्डनम् ।आडम्बरोऽस्त्री पटहो चङ्गलः सूरयो रणः ।ग्राममद्गुरिका ग्राम[123b]युद्धं दोर्भ्यां तु तन्मिथः ॥ ५७ ॥
2.3.57 · p. 268
शार्दूलविक्रीडितम्two metres in one verse
नियुद्धं तुमुलं तु स्यात्संग्रामः संकुलो हि यः ।युद्धे प्रवृत्ते केशेषु केशेषु ग्रहपूर्वकम् ॥ ५८ ॥
2.3.58 · p. 268
अनुष्टुप्
केशाकेशीत्यव्ययं स्याद्दण्डादण्डि तु यो रणः ।दण्डैर्दण्डैः प्रहृत्यास्ति बाहूबाहवि तादृशः ॥ ५९ ॥
2.3.59 · p. 268
अनुष्टुप्
यस्मिन्प्रहरणे दण्डौ द्वौ द्विदण्डि तदीरितम् ।उभाहस्त्युभयाहस्ति द्विमुसल्येवमुन्नयेत् ॥ ६० ॥
2.3.60 · p. 268
अनुष्टुप्
त्रिषु रौक्मिण-सौभद्रौ रुक्मिण्याद्यर्थकौ रणौ ।भारतादिकयोधौ तौ मतौ भारत-कौरवौ ॥ ६१ ॥
2.3.61 · p. 268
अनुष्टुप्
मल्लो नियुद्धकुशलो मल्लयात्रा तु मल्लवी ।नियुद्धभूरक्षवाटे क्रन्दनं योधशब्दितम् ।अवमर्दः पीडनं स्यान्निसुम्भोऽपि निशुम्भवत् ॥ ६१ ॥
2.3.61 · p. 268
अनुष्टुप्metre not read in every line
बलात्कारो हठः खष्पः प्रसभं स्खलितं छलम् ।प्रपातस्त्वभ्यवस्कन्दोऽभ्यवस्कन्दनमित्यपि ॥ ६२ ॥
2.3.62 · p. 268
अनुष्टुप्
स्यादभ्यासादनं धाटी डिम्बं त्वस्त्री च विप्लवः ।उद्रवो डम्बरश्च स्यात्सौप्तिकं रात्रिमारणम् ॥ ६३ ॥
2.3.63 · p. 269
अनुष्टुप्
वैरनि[124a]र्यातनं वैरशुद्धिर्वैरप्रतिक्रिया ।अवहारो युद्विरामोऽथ जयो विजयः समौ ॥ ६४ ॥
2.3.64 · p. 269
metre not recognised
पराजयो रणे भङ्गोऽथापयानं पलायनम् ।प्रद्रावो द्राव-संद्राव-संदावा विद्रवो द्रवः ॥ ६५ ॥
2.3.65 · p. 269
अनुष्टुप्
अपक्रमोऽप्यथ त्रय्यां पराभूत-पराजितौ ।परिभूतोऽभिभूतः स्यादात्तगन्धोऽपि भग्नवत् ॥उत्पिञ्जलः समुत्पिञ्ज-पिञ्जलौ लुपिताकुलौ ।कान्दिशीकस्तु यो भीत्या व्याकुलः प्रपलायितः ॥पलायितस्तु नष्टः स्यादपक्रान्तस्तिरोहितः ॥ ६६ ॥
2.3.66 · p. 269
अनुष्टुप्
गृहीतदिग्विद्रुतश्च प्रद्रुतश्च विशेष्यवत् ।प्रस्कन्नः पतितस्तुल्यो प्रहृतो घातितोऽपि सः ॥ ६७ ॥
2.3.67 · p. 269
अनुष्टुप्
पुंस्यालम्भ-निशुम्भ-पिञ्ज-विशरोन्माथाश्च घातो वधोमारोऽपि प्रथमोऽस्त्रियां निगदिते संज्ञप्ति-हिंसे स्त्रियौ ।क्लीबे स्युः प्रतिघातनं विशसनं व्यापादनं वर्जनंकिंचापासन-मारण-प्रशमन-प्रोज्जासनोद्वासनम् ॥ ६८ ॥
2.3.68 · p. 269
शार्दूलविक्रीडितम्
प्रतिघातनं विशरणं वि[124b]शारणंकदन-प्रवासन-परासनानि च ।क्रथनं तथा प्रमथनं विकारणंक्षणनं निषूदन-समापने अपि ॥ ६९ ॥
2.3.69 · p. 269
metre not recognised
निस्तर्हण-विनिबर्हण-निर्वासन-संप्रमापणानि स्युः ।निर्यातन-निर्वापण-हिंसनमपि संनिपातनं वात्र ॥ ७० ॥
2.3.70 · p. 269
गीतिः
स्युः कालधर्म-प्रलयात्ययान्त-दिष्टान्त-नाशाः परलोकयात्रा ।स्याद्दीर्घनिद्रा च मृतिश्च संस्थामृत्युर्द्वयोः स्यादपि पञ्चता स्त्री ॥ ७१ ॥
2.3.71 · p. 269
इन्द्रवज्रा
पञ्चत्वमस्तं मरणं निमीलनंतत्रावसानं निधनस्तु न स्त्रियाम् ।मारिश्च मारी मरकः स सर्वत-श्चित्या चिता स्याच्च चितिस्तथा स्त्रियाम् ॥ ७३ ॥
2.3.73 · p. 270
इन्द्रवंशा
रुण्डः शरीरं विशिरस्तु मुक्तंन स्त्री कबन्धो यदि तत्क्रियावत् ।क्ष(श)वस्तु षण्ढे मृतकं तु पूति-विवर्धनोऽस्त्री कुणपः शवोऽस्त्री ॥ ७३ ॥
2.3.73 · p. 270
उपजातिः
मृतः प्रमीतश्च परासु-संस्थितौप्रेतः परेतो व्यसु…स्त्री ।आलेख्यशेषोऽपि यशोवशेष-स्तथोपसंपन्नक-नामशेषौ ॥ ७४ ॥
2.3.74 · p. 270
उपजातिःmetre not read in every line
[125a] द्युपात-लोकान्तरगाप्तपञ्चत-व्यापन्न-नष्टाश्च विशेष्यलिङ्गगाः ।मृतस्य शय्या तु खडूः स्त्रियां महा-शय्याप्यपस्नानमजीविताप्लुतिः ॥ ७५ ॥
2.3.75 · p. 270
upajati 12
मृतयानं काष्ठमल्ले गाङ्गेष्टी कटशर्करा ।सूना स्त्रियां वधस्थाने मतमाघातनं तथा ।पितृवसतिः पितृविपिनं करवीरं दाहसा(स)रश्च ।संकटमघमाशौचं भवत्यशौचं च तद्वदेवेह ॥ ७६ ॥
2.3.76 · p. 270
अनुष्टुप्metre not read in every line
प्रग्रहोपग्रहौ तत्र बन्दी स्त्रियांयद्वलद्बन्धनं शत्रुदारादिनः ।गुप्ति-कारे स्त्रियौ पुंसि वारो भवेत् ।तत्र बन्दी गृहं बन्धनस्यालयः ॥ ७७ ॥
2.3.77 · p. 270
स्रग्विणी
इति क्षत्रवर्गः ।
ऊरव्या ऊरुजा वैश्या अर्या भूमिस्पृशो विशः ।वृत्तिर्वार्त्ता जीविका स्यादाजीवो वर्तनं तथा ॥ १ ॥
2.3.1 · p. 271
अनुष्टुप्
स्याज्जीवनं चाथ कृषिः कर्षणं प्रमृतानृते ।उञ्छो धान्यकणादानं कणिशाद्यर्जनं शिलम् ॥ २ ॥
2.3.2 · p. 271
अनुष्टुप्
ऋतं द्वे अमृतं तु स्यादयाचितमथो मृतम् ।याचितं स्याद्वणिज्या तु न ना वाणि[125b]ज्यमन्तिमे ॥ ३ ॥
2.3.3 · p. 271
अनुष्टुप्metre not read in every line
सत्यानृतमृणं तु स्यात्प्रामीत्यं पर्युदञ्चनम् ।कुसीदं च तथोद्धारो मुक्तौ विगणनं मतम् ॥ ४ ॥
2.3.4 · p. 271
अनुष्टुप्
तत्तत्काले देयमृणं कलापकमुदीरितम् ।अश्वत्थकं यववुसकं च ग्रैष्मकमित्यपि ॥ ५ ॥
2.3.5 · p. 271
अनुष्टुप्
आवरसमकं त्वृणमुक्तं यदन्यवर्षे प्रदेयं स्यात् ।सांवत्सरिकं सांवत्सरकं वर्षेण यद्देयम् ॥ ६ ॥
2.3.6 · p. 271
metre not recognised
मासादिके देयमृणं मासिकं वार्षिकं त्रिषु ।प्रार्णं वत्सतरार्णं च प्रगतादावृणे क्रमात् ॥ऋणार्णं प्रागृणोच्छित्त्यै यदृणं क्रियते परम् ।वृद्धिः कलान्तरं प्रोक्तमथार्थस्य प्रयोजने ॥ ५ ॥
2.3.5 · p. 271
अनुष्टुप्
कुसिदं कुसितं वृद्धिजीविका चेति वृत्तयः ।ग्राहकस्त्वधमर्णो दाय्युत्तमर्णः प्रयोजकः ॥ ७ ॥
2.3.7 · p. 271
अनुष्टुप्
वृद्ध्याजीवो द्वैगुणिको वार्द्धुषी च कुसीदिकः ।भवेद्वार्द्धुषिकः सोऽथ स्त्री तादृक्स्यात्कुसीदिकी ॥ ८ ॥
2.3.8 · p. 271
अनुष्टुप्
दशैकादशिकस्तु स्यादेकादशकृते दश ।यः प्रयच्छेल्लग्नक[126a]स्तु प्रतिभूर्ऋणमत्कुणः ॥ ९ ॥
2.3.9 · p. 271
अनुष्टुप्metre not read in every line
स्थेयः साक्षी विशेष्यघ्नः पुंस्याधिर्बन्धकः समौ ।निमेयस्तु परावर्तो नैमेयो निमयोऽपि सः ॥ १० ॥
2.3.10 · p. 272
अनुष्टुप्
व्यतिहारः परावृत्तिः परिवर्तनमित्यपि ।पुमान्विनिमयस्तत्रापमित्येत्यव्ययं मतम् ॥ ११ ॥
2.3.11 · p. 272
अनुष्टुप्
त्रिष्वापमित्यकं तत्स्यान्निवृत्तमपमित्य यत् ।याचितेन तु निर्वृत्तमेवं याचितकं मतम् ॥ १२ ॥
2.3.12 · p. 272
अनुष्टुप्
क्षेत्राजीवः कार्षकः स्यात्कृषकश्च कृषीवलः ।कर्षकः क्षेत्रि-हलिनौ कुटुम्बी च विशेष्यवत् ॥ १३ ॥
2.3.13 · p. 272
अनुष्टुप्
वापोऽहिर्वलयत्रय्यां वप्रं केदारमस्त्रियाम् ।क्षेत्रं क्षैत्रं तु कैदार्यं कैदारिकमपि व्रजे ॥ १४ ॥
2.3.14 · p. 272
अनुष्टुप्
कैदारिकमकृष्टं तु खिलमप्रहतं त्रिषु ।धान्यानां भवने क्षेत्रे वक्ष्यमाणा विशेष्यगाः ॥ १५ ॥
2.3.15 · p. 272
अनुष्टुप्
द्विकाण्डा क्षेत्रभक्तिश्चेद्द्विकाण्डान्या विशेष्यवत् ।तुल्ये व्रैहेय-शालेये तथा तैलीन-तिल्यके ।माषीण-माष्ये भाङ्गीन-भङ्ग्ये औमीनमुम्यवत् ॥ १६ ॥
2.3.16 · p. 272
अनुष्टुप्
[126b] अणव्यमाणवीनं च यव्यं स्याच्च यवस्य तत् ।पृथग्यवक्यं षष्टिक्यं मौद्गीनं कौद्रवीणकम् ॥ १७ ॥
2.3.17 · p. 272
अनुष्टुप्
तस्मै हितेऽपि यव्यं स्यान्माष्यं तिल्यं च भेद्यवत् ।बीजाकृतं वापितं स्यादुप्तकृष्टं हि यद्भवेत् ।कृष्टं सीत्यं च हल्यं स्याद्द्विसीत्यं तु द्विहल्यवत् ॥ १८ ॥
2.3.18 · p. 272
अनुष्टुप्
द्विगुणाकृतं द्वितीयाकृतं च शम्बाकृतं चेदम् ।त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् ॥ १९ ॥
2.3.19 · p. 272
उद्गीतिः
प्रस्थद्रोणादिवापादौ प्रास्थिक-द्रौणिकादयः ।खारीवापस्तु खारीको द्विखारीकादयस्तथा ॥ २० ॥
2.3.20 · p. 273
अनुष्टुप्
पात्रवापा पात्रिकी स्यात्त्रिषु बीजाकृतादयः ।खलोऽस्त्री खलधानं स्याल्लोष्टोऽस्त्री लोष्टुरादिमे ॥ २१ ॥
2.3.21 · p. 273
अनुष्टुप्
लेष्टुः पुंसि दलिः स्त्री स्यात्स महान्दरणीर्द्वयोः ।न स्त्रियां हल-सीरौ स्तः कृन्तत्रं लाङ्गलं तथा ॥ २२ ॥
2.3.22 · p. 273
अनुष्टुप्
गोदारणं चाथ महद्धलं जित्या हलिर्द्वयोः ।अहलस्त्वहलिस्तुल्यौ सुहलः सुहलिः समौ ॥[127a] दुर्हलिर्दुर्हलस्त्रय्यां हल्या तु हलसंहतिः ।हलिं गृह्णाति यस्तस्मिन्हलयत्स्याद्विशेष्यवत् ॥कुशी स्त्री फाल-कृषकौ निरीषं कुटकं फलम् ॥ २३ ॥
2.3.23 · p. 273
अनुष्टुप्
कुशिकश्च स्त्रियां त्वीषापीषो लाङ्गलदण्डकः ।स्त्रियौ सीता च शीता च भवेल्लाङ्गलपद्धतिः ॥ २४ ॥
2.3.24 · p. 273
अनुष्टुप्
प्रतोदस्तु प्रवपणं प्राजनं तोत्र-तोदने ।प्रेषणं चाथ कूद्दाल-कुद्दालौ गोविदारणम् ॥ २५ ॥
2.3.25 · p. 273
अनुष्टुप्
आखनिकाखनिकबकावाखर आखान आखनोऽप्याखः ।अवदारणं खनित्रं खात्रं क्लीबे च विख्यातम् ॥ २६ ॥
2.3.26 · p. 273
metre not recognised
दात्रस्य मुष्टौ वण्टः स्यादथ मत्यं समीकृतौ ।कुशा च लाण्डी कथिता या भवेद्दारुनिर्मिता ।* * * * * * * * * * * * * * *लविर्द्वयोः कोटिश-लोष्टभेदनौ ।आबन्धमाहुर्नरि योत्र-योक्त्रेशम्या स्त्रियां स्याद्युगकीलकश्च ।खलं त्रिषु खलेवालं धान्यराशीकृतिस्थलम् ।स्यात्खलायाहृतं खल्यं कथितं भेद्यलिङ्गकम् ॥ २७ ॥
2.3.27 · p. 273
अनुष्टुप्two metres in one verse
उकारश्च निकारश्च द्वौ धान्य[127b]क्षेपणार्थकौ ।खलेवाली स्त्रियां द्वंद्वे मेथिर्मेधिरुभे मते ।खले गोबन्धकाष्ठेऽथ धान्यादिक्षेपणार्थके ॥ २७ ॥
2.3.27 · p. 274
अनुष्टुप्metre not read in every line
काष्ठे पञ्चाङ्गुलं क्लीबे धान्यं सीत्यं च सस्यकम् ।व्रीहिः स्तम्बकरी पुंसि व्रीहिस्त्वाशुश्च पाटलः ॥ २८ ॥
2.3.28 · p. 274
अनुष्टुप्
व्रीहिमान्व्रीहिको व्रीही शालिलः शालिकस्तथा ।शाली च शालियुक्तेऽथ चरव्यश्चरवे हुतः ॥स राजभोजनो राज्ञा भुज्यते योऽन्यलिङ्गकः ।शालयः कलमाद्याः स्युः कलमो ना कलामकः ॥लोहितो रक्तशालिः स्यान्महाशालिः सुगन्धिकः ॥ २९ ॥
2.3.29 · p. 274
अनुष्टुप्
जीर्णप्रकारशालिर्यो गदितः स च जीर्णकः ।षष्टिको गर्भपाकी स्याद्व्रीहिभेदोऽस्त्रियामणुः ।वनव्रीहिस्तु नीवारो यवस्तु शितशूककः ॥ ३० ॥
2.3.30 · p. 274
अनुष्टुप्
अश्वप्रियः प्रावटोऽथ तोक्मोऽसौ हरितो भवेत् ।साक्तुकः सक्तुसाधुर्यो यव आपूपिकस्त्रिषु ॥ ३१ ॥
2.3.31 · p. 274
अनुष्टुप्
गोधूमचूर्णं समिता शुद्धा च कणिका स्त्रियः ।गो[128a]धूम-सुमनौ तुल्यौ भूजम्बूरत्र योषिति ॥ ३२ ॥
2.3.32 · p. 274
अनुष्टुप्metre not read in every line
प्रियङ्गु-कङ्गु-कङ्गुन्यः क्वङ्गुः स्त्री पीततन्दुला ।शोधिका मुशटी श्वेता साथ पीता तु माधवी ॥ ३३ ॥
2.3.33 · p. 274
अनुष्टुप्
लोहिता मधुका मा(सा?)तु सा कृष्णा विनिगद्यते ।श्यामाकः श्यामकश्चाथ कोद्रवः कोरदूषकः ॥ ३४ ॥
2.3.34 · p. 274
अनुष्टुप्
उद्दालस्तु स वन्यः स्याद्यावनालस्तु जूर्णकः ।युगंधरो योनलश्च योन्नालो बीजपुष्पकः ॥ ३५ ॥
2.3.35 · p. 274
अनुष्टुप्
देवधान्यं बर्बटी तु गवेधूः स्याद्द्विलिङ्गका ।चीनकः काककङ्गुः स्यादथ स्युस्त्रिःफलीकृताः ॥ ३६ ॥
2.3.36 · p. 275
अनुष्टुप्
स्थालीबिल्यास्त्रिषु स्थालीबिलीयाः कलमादयः ।आबर्हिमूला शाल्या स्यान्मूल्याः स्युर्भेद्यलिङ्गकाः ।तन्दुलोऽवहतव्रीहिगर्भो मुद्गस्तु शारदः ॥ ३७ ॥
2.3.37 · p. 275
अनुष्टुप्
लोभ्यो बलाटः प्रथनो हरितस्तु हरिर्मतः ।पीतेऽत्र वसुखण्डीरः प्रवेलो जय इत्यपि ॥ ३८ ॥
2.3.38 · p. 275
अनुष्टुप्
कृष्णे प्रवर-वासन्त-हरिमन्थज-शिम्बिकाः ।वन्ये खण्डी-तुबर[128b]क-निगूढ*[क]कुलीनकाः ॥ ३९ ॥
2.3.39 · p. 275
अनुष्टुप्metre not read in every line
आढकी तुबरी वर्णा राजमाषस्तु बर्वटः ।माषस्तु मदनो नन्दी वृष्यो बीजवरो बली ॥ ४० ॥
2.3.40 · p. 275
अनुष्टुप्
मसुरा च मसूरा च द्वंद्वे स्याद्व्रीहिकाञ्चनः ।मङ्गल्यकश्चाथ समौ मकुष्टक-मयुष्टकौ ॥ ४१ ॥
2.3.41 · p. 275
अनुष्टुप्
राजमुद्गः कुलत्थस्तु कालवृन्तोऽभिधीयते ।कुलत्थिका ताम्रवृन्ता कलायस्तु सतीनकः ॥ ४२ ॥
2.3.42 · p. 275
अनुष्टुप्
सातीनः खण्डिकश्च स्याद्धरेणुर्द्वयलिङ्गकः ।त्रिपुटो वण्टकस्त्वेष वर्तुलो विनिगद्यते ॥ ४३ ॥
2.3.43 · p. 275
अनुष्टुप्
हरिमन्थस्तु चणको निष्पावः सितशिम्बिकः ।वल्लश्चाथ तिलस्तैलफलपूतेऽथ जर्तिलः ॥ ४४ ॥
2.3.44 · p. 275
अनुष्टुप्
स वन्यस्तिलपेजस्तु तिलपिञ्जश्च निष्फलः ।स एव कृष्णवर्णश्चेत्कृष्णको विनिगद्यते ॥ ४५ ॥
2.3.45 · p. 275
अनुष्टुप्
उमा क्षुमातसी चण्डी विकारे त्वौममौमकम् ।त्रिषु तस्या अथो धूलौ स्यादुमाकटमन्तिमे ॥ ४६ ॥
2.3.46 · p. 275
अनुष्टुप्
शणो भङ्गा मातुलानी रजस्त्व[129a]स्यास्तिलस्य च ।भङ्गाकटं तिलकटमथाश्वयुजकं भवेत् ॥ ४७ ॥
2.3.47 · p. 276
अनुष्टुप्metre not read in every line
यदुप्यते पौर्णमास्यामाश्वयुज्यां विशेष्यवत् ।तद्विकारे तिलमयं तथा यवमयं भवेत् ।किंशारुः सस्यशूकोऽस्त्री शिलोऽस्त्री कणिशोऽपि च ॥ ४८ ॥
2.3.48 · p. 276
अनुष्टुप्metre not read in every line
सस्यस्य मञ्जरी चाथ काण्डोऽस्त्री सस्यनाडिका ।नाली नालं निफलस्तु पलालोऽस्त्री पलश्च सः ॥ ४९ ॥
2.3.49 · p. 276
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 फ (wrong syllable)
स्याद्यावकस्तु कुल्माषः पुलाकस्तुच्छधान्यकम् ।;l[6535}बुषं बुसं तु न स्त्रियां कडंगरः कडंकरः ।कणस्तु सूक्ष्मतन्दुलस्तुषस्तु पुंसि तत्त्वचि ॥ ५० ॥
2.3.50 · p. 276
अनुष्टुप्two metres in one verseLatin letters: l
रिद्धमृद्धं चावसितं पूतं स्याद्बहुलीकृतम् ।यन्निर्बुसीकृतं धान्यं कण्डितं त्वाहतं त्रिषु ॥ ५१ ॥
2.3.51 · p. 276
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
माषादयः शमीधान्यं शूकधान्यं यवादयः ।नीवारवरकाद्यानि नृणां धान्यानि निर्द्दिशेत् ॥ ५२ ॥
2.3.52 · p. 276
अनुष्टुप्
ईतिः स्त्रियां धान्यविघ्ने धान्यसंघे तु सास्यकम् ।वाटभङ्गस्तु शस्यानां नखेन ग्रहणं भवेत् ।प्रस्फोटनं तु पवन[129b]मवघातस्तु कण्डनम् ।अयोग्रं मुसलं न स्त्री मुशलं मुषलं… ॥ ५३ ॥
2.3.53 · p. 276
अनुष्टुप्metre not read in every line
अयोनिशूकिलोऽथास्याग्रे शम्बः कण्डनी पुनः ।उलूखलोदूखले च * [शू]र्प-सूर्पे तु न स्त्रियाम् ॥ ५४ ॥
2.3.54 · p. 276
अनुष्टुप्
प्रास्फोटनं चालनी तु न ना तितउ न स्त्रियाम् ।सूदशाला रसवती पाकस्थाने महानसम् ॥ ५५ ॥
2.3.55 · p. 276
अनुष्टुप्
पक्तिः पचा रन्धनं च पाकः पक्त्रिम-पाकिमे ।निवृत्ते पाकतोऽथ स्यात्पक्ता * * च पाचकः ।महानसे त्वधिकृते पौरोगव-पुरोगुकौ ।सूदाध्यक्षश्च सूदास्तु पाकुका वल्लवा गुणाः ॥ ५६ ॥
2.3.56 · p. 276
अनुष्टुप्metre not read in every linenearly अनुष्टुप्