कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः · क्षत्रियप्रकाण्डः (3/4)

अग्रेसरोग्रे भविता पुरोगो नायकोऽपि च ।पुरोगमः पुरोगामी स चैवाग्राग्रतः सरः ॥ २४१ ॥
1.6.241 · p. 115
अनुष्टुप्
मन्थरो वेगगमनो जङ्घालस्त्वतिवेगिनि ।जाङ्घिको जङ्घाकरिकस्तरस्वी त्वरितो जवी ॥ २४२ ॥
1.6.242 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ङ्घा (wrong syllable)
जवनः प्रजवो वेगी जङ्घिलो जाङ्घ इत्यपि ।अन्वत्यन्तंभृशंकाममेभ्यो गामी क्रमादयम् ॥ २४३ ॥
1.6.243 · p. 115
अनुष्टुप्
अत्यन्तीनोऽनुकामीनः कामङ्गामीन इत्ययम् ।स्यादुरस्वानुरसिले जेयो जेतव्यमात्रके ॥ २४४ ॥
1.6.244 · p. 116
अनुष्टुप्
जेतुं शक्यस्तु जय्यः स्याज्जेतुं शत्रुं प्रयाति यः ।अभ्यमित्रोभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि ॥ २४५ ॥
1.6.245 · p. 116
अनुष्टुप्
ऊर्जस्व्यूर्जस्वलोत्यन्तबलपर्यायवत्यपि ।विक्रान्तो जित्वरो जेता शूरो वीरश्च जिष्णुकः ॥ २४६ ॥
1.6.246 · p. 116
अनुष्टुप्
संयुगे सर्वतः साधुः सांयुगीनः स्मृतश्च सः ।रथस्वामी तु रथिको रथिनो रथिरो रथी ॥ २४७ ॥
1.6.247 · p. 116
अनुष्टुप्
अथ सेना तु पृतना वाहिनी वाहना चमूः ।वरूथिनी च ध्वजिनी बलं सैन्यं च गुल्मिनी ॥ २४८ ॥
1.6.248 · p. 116
अनुष्टुप्
अस्त्रियां कटकं चक्रमनीकं च चमुस्त्रियाम् ।गलोर्गलः कुटः कोटः कोटो दुर्गश्च पुंस्यमी ॥ २४९ ॥
1.6.249 · p. 116
अनुष्टुप्
पत्तिरेकरथैकेभा त्र्यश्वा स्यात्पञ्चपद्गमा ।इतः स्युस्त्रिगुणैरङ्कैर्यथोत्तरमनुक्रमात् ॥ २५० ॥
1.6.250 · p. 116
अनुष्टुप्
क्लीबे सेनामुखं गुल्मोऽस्त्रियामपि गणः पुमान् ।वाहिनी पृतना चापि चमूः पुनरनीकिनी ॥ २५१ ॥
1.6.251 · p. 116
अनुष्टुप्
अपीयं दशभिर्निघ्ना सेनार्थाक्षौहिणीति सा ।खनन्दजिनचन्द्राश्वगुणभूमिमिता (१३७१२४९०) रथाः ॥ २५२ ॥
1.6.252 · p. 116
अनुष्टुप्
गजाश्च खाश्ववेदाश्वरविचन्द्राब्धिभिः (४११२७४७०) क्रमात् ।सादिनः खशराब्ध्यक्षितर्केषु वसुषण् (८५६२४५०) मिताः ॥ २५३ ॥
1.6.253 · p. 117
अनुष्टुप्
पत्तयो यत्र सा प्रोक्ता महाक्षौहिणिका बुधैः ।व्यूहस्तु बलविन्यासो भेदा दण्डादयो युधि ॥ २५४ ॥
1.6.254 · p. 117
अनुष्टुप्
प्रत्यासारो द्वयोः पार्ष्णिः सैन्यपृष्ठं प्रतिग्रहः ।प्रतिग्रहोऽपि पुंसि स्यात्पार्ष्णी प्रत्यासरोऽपि च ॥ २५५ ॥
1.6.255 · p. 117
अनुष्टुप्
मुखे रथा हयाः पृष्ठे तत्पृष्ठे च पदातयः ।पार्श्वयोश्च गजाः कार्या व्यूहोऽयं परिकीर्तितः ॥ २५६ ॥
1.6.256 · p. 117
अनुष्टुप्
सम्पत्तिः सम्पदा संपल्लक्ष्मीः श्रीर्विपदा विपत् ।विपत्तिरापद्दुःखार्था न द्वयोरायुधं पुनः ॥ २५७ ॥
1.6.257 · p. 117
अनुष्टुप्
अस्त्रं शस्त्रं प्रहरणं हेतिर्वा नाथ तत्त्रिधा ।पाणियन्त्रादिना मुक्तं तच्च शक्तिशरादिकम् ॥ २५८ ॥
1.6.258 · p. 117
अनुष्टुप्
अमुक्तं शस्त्रिकादि स्याद्यष्ट्याद्यं तु द्वयात्मकम् ।अवलम्बः पुमान्दण्डो यष्टिश्च तरणिर्द्वयोः ॥ २५९ ॥
1.6.259 · p. 117
अनुष्टुप्
मन्त्रप्रयोगजं शस्त्रमथ धन्व तु कार्मुकम् ।शरासनं च कोदण्डं सरासनममूनि षण् ॥ २६० ॥
1.6.260 · p. 117
अनुष्टुप्
स्यादस्त्रियां धनुः षान्तं धनुः पुंसि धनूः स्त्रियाम् ।तृणता त्रिणता चापो न स्त्री गाण्डीवगाण्डिवौ ॥ २६१ ॥
1.6.261 · p. 117
अनुष्टुप्
द्रुणासेष्वासगुणतः पुं क्लीबे स्त्रव्यधं पुनः ।प्रतिकायः पुमानस्याग्रगते कोटिरित्यपि ॥ २६२ ॥
1.6.262 · p. 118
अनुष्टुप्
अटनी धनुषो मध्ये लस्तको ना गुणालयः ।मौर्वी ज्या सिञ्जिनी जीवा न ना गव्या गुणो द्वयोः ॥ २६३ ॥
1.6.263 · p. 118
अनुष्टुप्
पतञ्जिका गुणा सिञ्जा क्लीबे वाणासनं गुणः ।गोधा स्त्रियां तलं क्लीबे सैव स्याद्बाहुपट्टिका ॥ २६४ ॥
1.6.264 · p. 118
अनुष्टुप्
क्लीबे लक्षं शरव्यं स्याल्लक्ष्यं वेध्यमुपासनम् ।शराभ्यासः श्रमो योग्या खलूरी खुरलीति च ॥ २६५ ॥
1.6.265 · p. 118
अनुष्टुप्
खलूरिका तु तद्भूभिरवष्टम्भश्च सौष्ठवम् ।युग्या गुणनिका ग्राह्या काण्डोऽस्त्री विशिखः पुमान् ॥ २६६ ॥
1.6.266 · p. 118
अनुष्टुप्
सायकोऽजिह्मगो बाणः पृषत्कोपि शिलीमुखः ।कलम्बो मार्गणो रोपः पत्री स्यात्खग आशुगः ॥ २६७ ॥
1.6.267 · p. 118
अनुष्टुप्
स्याद्गार्द्ध्रकङ्कयोः पत्रो वाजः प्रदर इत्यपि ।स्थूलदण्डो विपाटः स्यादस्त्रार्थात्कण्टकार्थकः ॥ २६८ ॥
1.6.268 · p. 118
अनुष्टुप्
विकर्षः पत्रवाहश्च चित्रपुङ्खः शरः खरुः ।सरः शरुर्मर्मभेदी वीरशङ्कुश्च लक्षहा ॥ २६९ ॥
1.6.269 · p. 118
अनुष्टुप्
कदम्बसायकादम्बा वाजी च स्यादिषुर्द्वयोः ।प्रक्ष्वेडनो ना नाराचोप्यस्त्रं षण् सायकः पुमान् ॥ २७० ॥
1.6.270 · p. 118
अनुष्टुप्
स्त्रियां भल्लिश्च भल्ली च भल्लोऽपि स्यात्पुमानयम् ।सर्वलोहे लोहतालः प्रसरः काण्डगोचरः ॥ २७१ ॥
1.6.271 · p. 119
अनुष्टुप्
निरस्तः प्रहिते वाणे तीरी विजुलसायके ।नालीका नलिकाक्षेप्याः कर्णिनो रुरुशीर्षकाः ॥ २७२ ॥
1.6.272 · p. 119
अनुष्टुप्
स्त्रियां पुंसि विषाक्ते तु दिग्धो लिप्तोऽक्त इत्यपि ।हस्तावापो हस्तमुष्टिग्राह्यवाणगणे पुमान् ॥ २७३ ॥
1.6.273 · p. 119
अनुष्टुप्
शरमुष्टिः पुच्छशीर्ष द्विफली पुंसि पुङ्खकः ।बाणमुक्तिर्व्यवच्छेदो दीप्तिर्वेगस्य तीव्रता ॥ २७४ ॥
1.6.274 · p. 119
अनुष्टुप्
खुरप्रोपि क्षुरप्रः स्यादर्द्धेन्दुप्रमुखा भिदाः ।अप्यञ्जलिक इत्याद्या वाजः पक्षश्च पिच्छकः ॥ २७५ ॥
1.6.275 · p. 119
अनुष्टुप्
प्रत्यालीढं तथालीढं विशाखं मण्डलं पुनः ।वैकृतं दर्दुरं चैव दश स्थानानि धन्विनाम् ॥ २७६ ॥
1.6.276 · p. 119
अनुष्टुप्
शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता ।अयःशङ्कुरसंछिन्ना शतघ्न्येव महाफला ॥ २७७ ॥
1.6.277 · p. 119
अनुष्टुप्
भुशुण्डी स्याद्दारुमयी वृत्तायःकीलसंचिता ।अपि गोलासनं क्लीबे बद्धोल्का नालिका स्त्रियाम् ॥ २७८ ॥
1.6.278 · p. 119
अनुष्टुप्
उत्सृष्टा गोलकाः पुंसि कणयो लोहयन्त्रके ।शरपर्यायाश्रयधिर्द्वयोः स्यादिषुधी स्त्रियाम् ॥ २७९ ॥
1.6.279 · p. 119
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
तूणी तूणा च तूणीर उपासङ्गो निषङ्गकः ।चन्द्रहासस्त्वसिः पुंसि प्रवालः सायकोऽपि च ॥ २८० ॥
1.6.280 · p. 120
अनुष्टुप्
रिष्टिरृष्टिर्द्वयोः खड्गः पुंसि कौक्षेयकोऽपि च ।भद्रासनो मण्डलाग्रः करवालः कृपाणवत् ॥ २८१ ॥
1.6.281 · p. 120
अनुष्टुप्
तरवारिर्द्वयोश्चापि निस्त्रिंशः करपालकः ।क्लीबे शस्त्रं विशसनो धर्मपालः प्रजाकरः ॥ २८२ ॥
1.6.282 · p. 120
अनुष्टुप्
तीक्ष्णधारोधरो देवो व्यवहारो दुरासहः ।प्रसङ्गी रुद्रतनयः शस्त्रो विजय इत्यपि ॥ २८३ ॥
1.6.283 · p. 120
अनुष्टुप्
शिवंकरो मनुज्येष्ठः कराली च विशाग्रजः ।गाढमुष्टिस्तीव्रमार्गः पुष्करी कोशवानपि ॥ २८४ ॥
1.6.284 · p. 120
अनुष्टुप्
धाराधरो लोहसर्पो जयश्रीर्जगतोऽपि च ।धर्मप्रचारो धाराङ्गः स्याद्धाराविष इत्यपि ॥ २८५ ॥
1.6.285 · p. 120
अनुष्टुप्
पञ्चाशताङ्गुलैर्मुख्यः पञ्चविंशतिको परः ।अनयोर्मध्यमानेन मध्यमः खड्ग उच्यते ॥ २८६ ॥
1.6.286 · p. 120
अनुष्टुप्
अव्रणो योगरोपेतस्तिर्यग्भेदविवर्जितः ।व्रणयुक्तोऽपि निस्त्रिंशो बिल्वकुण्डलपञ्जरैः ॥ २८७ ॥
1.6.287 · p. 120
अनुष्टुप्
वर्द्धमानध्वजच्छत्रस्वस्तिकैश्च व्रणैः शुभः ।मानहीनो विभिन्नश्च कुञ्चितो ध्वनिवर्जितः ॥ २८८ ॥
1.6.288 · p. 120
अनुष्टुप्
नेत्रचित्तविरोधी च वर्जनीयो दुरासहः ।असिर्मरकतश्यामो योगरैः परिवर्जितः ॥ २८९ ॥
1.6.289 · p. 121
अनुष्टुप्
बाणबाहुवनच्छेदी वाणो यः शार्ङ्गिणा धृतः ।कृपाणः शाद्वलश्यामस्तबकी दीर्घयोगरः ॥ २९० ॥
1.6.290 · p. 121
अनुष्टुप्
अच्छेद्यो रोहिणीवाहः पौलस्त्येन धृतः पुरा ।कुटिलैर्योगरैर्युक्तो वरकेसरसंनिभैः ॥ २९१ ॥
1.6.291 · p. 121
अनुष्टुप्
मत्कुणः करवालोऽयं लोहवर्णेन वर्ण्यते ।गोजिह्वापल्लवप्रख्यो योगरो यत्र दृश्यते ॥ २९२ ॥
1.6.292 · p. 121
अनुष्टुप्
असिर्निरवहो नाम द्विषच्छेदकरः परः ।तरुणीकेशसंकाशः सूक्ष्मपाण्डुरयोगरः ॥ २९३ ॥
1.6.293 · p. 121
अनुष्टुप्
सान्द्राङ्गः करवालोऽयं भद्रकालीकरस्थितः ।राजजम्बूफलश्यामो वक्रपाण्डुरयोगरः ॥ २९४ ॥
1.6.294 · p. 121
अनुष्टुप्
स्निग्धच्छायवपुः खड्गो वङ्गिवालोऽभिधीयते ।असिः प्रत्यग्रजीमूतसकलश्यामलच्छविः ॥ २९५ ॥
1.6.295 · p. 121
अनुष्टुप्
पाठीनत्वक्समाकारयोगरो य सुवालकः ।केकिचन्द्रकसङ्काशैर्योगरैर्निविडैः श्रितः ॥ २९६ ॥
1.6.296 · p. 121
अनुष्टुप्
केवेल्लक इति ख्यातः खड्गः खड्गभृतां मतः ।तमालव्यालरोलम्बनिकुरम्बसमच्छविः ॥ २९७ ॥
1.6.297 · p. 121
अनुष्टुप्
कौक्षेयकः स भीताक्षः पुरुषाकारयोगरः ।एरण्डबीजसंकाशयोगरस्तार पट्टकः ॥ २९८ ॥
1.6.298 · p. 122
अनुष्टुप्
रामारोमावलीश्यामो न नमेन्नामितोप्यसिः ।नववारिधरश्यामः पिङ्गाकुञ्चितयोगरः ॥ २९९ ॥
1.6.299 · p. 122
अनुष्टुप्
खड्गः षडालको नाम विषवज्रभयापहः ।स्वर्णचूर्णनिभैः सूक्ष्मैर्योगरैः स्वर्णपञ्जरः ॥ ३०० ॥
1.6.300 · p. 122
अनुष्टुप्
मुक्ताचूर्णसमाकारैः ख्यातस्तित्तिरवल्लरः ।योगरैः कज्जलप्रख्यैः खड्गः स्यात् कालवल्लरः ॥ ३०१ ॥
1.6.301 · p. 122
अनुष्टुप्
वियच्छ्यामवपुःसारः स्वल्पपाण्डरयोगरः ।सरोजिनीदलच्छायः कोङ्गिः खड्गोऽभिधीयते ॥ ३०२ ॥
1.6.302 · p. 122
अनुष्टुप्
कदली शृङ्खली चापि यस्मिन्दृश्येत चान्तरा ।वर्णयोगरभेदेन नामान्येषां भवन्ति हि ॥ ३०३ ॥
1.6.303 · p. 122
अनुष्टुप्
कटीतलो न्युब्जखड्ग एकधार इली स्त्रियाम् ।इलालिः करपालिः स्यादिलीलिरपि वा पुनः ॥ ३०४ ॥
1.6.304 · p. 122
अनुष्टुप्
करवाल्यथ मुष्टी स्त्री द्वयोर्मुष्टिर्ग्रहस्थले ।त्सरुश्च पुंसि ग्राहोऽपि प्रत्याकारस्तु पुंसि च ॥ ३०५ ॥
1.6.305 · p. 122
अनुष्टुप्
दन्तेन निर्मितस्तत्र दन्तपालिरसेस्तु यत् ।तिर्यग्भागद्वयं मुष्टावधोग्रान्तं नपुंसकम् ॥ ३०६ ॥
1.6.306 · p. 122
अनुष्टुप्
भवेद्गृञ्जनकं तस्मादधस्ताद्धण्डिका स्त्रियाम् ।अत्रिका तदधस्तिर्यग्भागद्वितयमस्य तु ॥ ३०७ ॥
1.6.307 · p. 123
अनुष्टुप्
मध्यभागस्ताडिका स्त्री शूकभागोग्रमप्यसेः ।योगरस्तु गुणोत्कर्षे खड्गाद्यश्चास्य कीर्त्तितः ॥ ३०८ ॥
1.6.308 · p. 123
अनुष्टुप्
परिवारः परीवारः कोशः कोषो नपुंसकम् ।खड्गपर्यायसद्मार्थपिधानार्थकमित्यपि ॥ ३०९ ॥
1.6.309 · p. 123
अनुष्टुप्
प्रत्यग्रकोशः स्याद्घातोः खड्गाग्राघातवारणे ।खड्गस्य कटिबन्धार्था वेधा स्त्री मेखलापटः ॥ ३१० ॥
1.6.310 · p. 123
अनुष्टुप्
फलकोऽस्त्री फलं फाण्टं खेटं क्लीबे स्फुटं पुनः ।अद्भुतावरणे चर्मदके संग्राहकोस्य तु ॥ ३११ ॥
1.6.311 · p. 123
अनुष्टुप्
मुष्टावथ कृपाणी तु षुरी शस्त्री क्षुरीति च ।स्यातामसेर्द्धेनुपुत्र्यौ सैव स्यात्कोशशायिका ॥ ३१२ ॥
1.6.312 · p. 123
अनुष्टुप्
पत्रतो धेनुकाथ स्यात्पत्रपालस्तु सायता ।भिन्दिपाले सृगः पुंसि कुट्टन्ती कुलमातृका ॥ ३१३ ॥
1.6.313 · p. 123
अनुष्टुप्
अपि पत्रलता सा स्याद्दण्डोऽस्त्री लगुडः पुमान् ।यष्टिर्द्वयोः स्त्रियां यष्टी काण्डोऽप्यस्त्री ततः पुनः ॥ ३१४ ॥
1.6.314 · p. 123
अनुष्टुप्
शक्ती स्त्रियां तथा शक्तिरमृतापि महाफला ।कासूःखुरोत्तमस्तु स्यात्पट्टिशः पटिसोऽपि च ॥ ३१५ ॥
1.6.315 · p. 124
अनुष्टुप्
पालिरस्त्री कोटिरेता दीर्घान्ताः स्युः स्त्रियामिमाः ।कुलाग्रका तु चिरिका फलपत्राग्रके हुलम् ॥ ३१६ ॥
1.6.316 · p. 124
अनुष्टुप्
वराहकर्णोन्वर्थः स्याद्दुःस्फोटस्तीक्ष्णधारकः ।आराकरो लोहदण्डश्चक्रं तु वलयाकृति ॥ ३१७ ॥
1.6.317 · p. 124
अनुष्टुप्
क्लीबे सुसंचितमपि मुद्गरो द्रुघणो घनः ।द्रुघनोऽपि च कुन्ते तु प्रासः प्राशः शलोऽपि च ॥ ३१८ ॥
1.6.318 · p. 124
अनुष्टुप्
शल्यमस्त्री पुंसि शङ्कुस्तत्र दीर्घायुधं पुनः ।द्वयोः कुठारः परशुः पर्शुः परश्वधोऽपि च ॥ ३१९ ॥
1.6.319 · p. 124
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 प (wrong syllable)
परस्वधश्च स्वधितिष्टङ्कोपि पर्श्वधः कुठः ।सर्वला शर्वलापि स्त्री सर्वली शर्वलीत्यपि ॥ ३२० ॥
1.6.320 · p. 124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
अस्त्रियां तोमरोथ स्यात्परिघः परिपालनः ।सर्वलोहमयं त्र्यग्रं त्रिशूलं तु त्रिशीर्षकम् ॥ ३२१ ॥
1.6.321 · p. 124
अनुष्टुप्
धनुः खड्गो गदाचक्रवज्रखट्वाङ्गतोमराः ।यमदंष्ट्रा क्षुरीमूलं कर्तरी मुद्गरो हलम् ॥ ३२२ ॥
1.6.322 · p. 124
अनुष्टुप्
पाशोङ्कुशो भिन्दिपालः कणपः पट्टिशस्ततः ।भुशुण्डी शङ्खमुसलस्तरुगोफणपत्रणाः ॥ ३२३ ॥
1.6.323 · p. 124
अनुष्टुप्
दुःस्फोटमक्षिकाडाहडभसाः करपत्रकः ।हुलिः कुठारः परिघः कुन्तिः शक्तिश्च कर्तरी ॥ ३२४ ॥
1.6.324 · p. 125
अनुष्टुप्
यष्टिः शस्त्राणि षट्त्रिंशदमून्यायोधजीविनाम् ।घाण्टिको घण्टिकः कोणः स्यादश्रोऽस्रश्च पुंस्यमी ॥ ३२५ ॥
1.6.325 · p. 125
अनुष्टुप्
सर्वाभिसारः सर्वाभीसारोभी राजनात्परः ।स च स्यात्सर्वसंनाहोऽभिसारोभिसरोऽपि च ॥ ३२६ ॥
1.6.326 · p. 125
अनुष्टुप्
दशम्यां यो विधिर्भूपे स च लोहाभिसारकः ।यत्सेनयाभिगमनमरौ तदभिषेणनम् ॥ ३२७ ॥
1.6.327 · p. 125
अनुष्टुप्
यात्रा व्रज्याभिनिर्याणं प्रयाणं गमनं गमः ।प्रस्थानं च प्रसरणं ननासारः प्रचक्रकम् ॥ ३२८ ॥
1.6.328 · p. 125
अनुष्टुप्
अभिक्रमे रणे यानमभीतस्य रिपुं प्रति ।अभ्यमित्र्योऽभ्यमित्रीयोऽभ्यमित्रीणोभ्यरिं व्रजन् ॥ ३२९ ॥
1.6.329 · p. 125
अनुष्टुप्
स्यात्सुहृद्बलमासारः प्रचक्रं चलितं बलम् ।प्रसारस्तु प्रसरणं तृणकाष्ठादिहेतवे ॥ ३३० ॥
1.6.330 · p. 125
अनुष्टुप्
वैतालिका बोधकराः प्रातर्गेयाः स्तुतिव्रताः ।आर्थिकाः सौखसुप्त्यर्था घाण्टिकाश्चाक्रिकाः समाः ॥ ३३१ ॥
1.6.331 · p. 125
अनुष्टुप्
मागधा मगधास्ते स्युर्वन्दिनः स्तुतिपाठकाः ।वैतालिकाद्या नग्नाः स्युर्नग्नाचार्यस्तु हिण्डकः ॥ ३३२ ॥
1.6.332 · p. 125
अनुष्टुप्
भोगावली वन्दिपाठो वसुकीटस्तु याचकः ।संसप्तकास्तु समये समरादनिवर्त्तिनः ॥ ३३३ ॥
1.6.333 · p. 126
अनुष्टुप्
संशप्तका अथ रजः क्षोदः सान्ते उभे च षण् ।रेणुस्त्रिषु रजः क्लीबे धूलिर्धूली स्त्रियामुभे ॥ ३३४ ॥
1.6.334 · p. 126
अनुष्टुप्
पुंसि पांसुश्च पांशुश्च वातकेतुः क्षितेः कणः ।अस्त्री तूस्तमपि क्षोदश्चूर्णः सर्वत्र चूर्णिते ॥ ३३५ ॥
1.6.335 · p. 126
अनुष्टुप्
सम्भारः पिञ्जलस्तु स्यात्समुत्पिञ्जो भृशाकुले ।महासमरतूर्येऽस्त्री पटहाडम्बरौ समौ ॥ ३३६ ॥
1.6.336 · p. 126
अनुष्टुप्
ध्वजोऽस्त्री केतनं चापि क्लीबे केतुः पुमान् स्त्रियाम् ।वैजयन्ती जयन्ती च पताका व्योममञ्जरी ॥ ३३७ ॥
1.6.337 · p. 126
अनुष्टुप्
कन्दल्यपि स्यात्कदली ककुत्स्त्री ककुदोऽस्त्रियाम् ।विहिते पत्रवस्त्रादौ मीने चीनोऽस्त्रियामयम् ॥ ३३८ ॥
1.6.338 · p. 126
अनुष्टुप्
एषां वस्त्रे कोणभेदात् पताकाध्वजकेतवः ।अस्योच्चूडावचूडाख्यावूर्ध्वाधोमुखकूर्चके ॥ ३३९ ॥
1.6.339 · p. 126
अनुष्टुप्
अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् ।एवं चाहंप्रथमिका तथाहंश्रेष्ठिकापि च ॥ ३४० ॥
1.6.340 · p. 126
अनुष्टुप्
दर्पादात्मनि या श्लाघा साहंपुरुषिका स्त्रियाम् ।परस्परं योहंकारः सोहमहमिका स्त्रियाम् ॥ ३४१ ॥
1.6.341 · p. 126
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ह (wrong syllable)
दण्डैर्दण्डैर्यद्भटानां वृत्तं युद्धमनुत्तमम् ।दण्डादण्डि तदेवं स्यात्केशाकेशि नखानखि ॥ ३४२ ॥
1.6.342 · p. 127
अनुष्टुप्
मुष्टिभिर्मुष्टिभिर्युद्धं यद्वृत्तं मुष्टीमुष्टि तत् ।शक्त्यृष्टिमुष्टियुक्तीनां गालिबाहूरुजानुनाम् ॥ ३४३ ॥
1.6.343 · p. 127
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ष्टी (wrong syllable)
उन्नेयमेवं क्रमशो वृत्ते भाविनि वारणे ।पराक्रमातिशायित्वहेतवे क्रियते भटैः ॥ ३४४ ॥
1.6.344 · p. 127
अनुष्टुप्
पानं यत्तद्वीरपाणमोजः पुंसि सहोऽस्त्रियाम् ।सान्तमोजः सहः क्लीबे क्लीबे सुष्मं च शुष्म च ॥ ३४५ ॥
1.6.345 · p. 127
अनुष्टुप्
मृधमास्कन्दनं संख्यं समीकं साम्परायिकम् ।जन्यं पुमान् सम्प्रहारो नदनुः कलहो रणः ॥ ३४६ ॥
1.6.346 · p. 127
अनुष्टुप्
समाघातोभिसंपातः संस्कारो दुर्दरः कलिः ।अत्यामर्दश्च सम्मर्दो विमर्दः संयुगोऽस्त्रियाम् ॥ ३४७ ॥
1.6.347 · p. 127
अनुष्टुप्
द्वयोराजिश्च समितिः संयद्राढिः समित्पुनः ।अस्त्रियां समरं चापि जन्यमाहरणं मृधम् ॥ ३४८ ॥
1.6.348 · p. 127
अनुष्टुप्
द्वन्द्वमास्कन्दनं पुंसि संगरश्च समाह्वयः ।युदाहवश्च संघातः समुदायोऽपि विग्रहः ॥ ३४९ ॥
1.6.349 · p. 127
अनुष्टुप्
प्रघातोभ्यागमश्चापि नन्दनुः संप्रहारकः ।समर्यो भर आक्रन्दः पृतनाज्यौ स्त्रियां पुनः ॥ ३५० ॥
1.6.350 · p. 127
अनुष्टुप्
नियुद्धं बाहुयुद्धे स्यात्तस्य भेदा अमी मताः ।मिथः करग्रहे योद्ध्रोः प्रसृष्टा स्यात्स्त्रियामियम् ॥ ३५१ ॥
1.6.351 · p. 128
अनुष्टुप्
द्विगुणीकृतदोर्मध्ये ग्रीवाकर्षोपि कण्टकः ।अवधूतं तु पादेन प्रेरणं यच्च वक्षसः ॥ ३५२ ॥
1.6.352 · p. 128
अनुष्टुप्
शलाकयाङ्गुलीच्छिन्ना नखयष्टिर्हि सा मता ।पद्भ्यां पदोर्यद्धरणं पादबन्धः स उच्यते ॥ ३५३ ॥
1.6.353 · p. 128
अनुष्टुप्
दोर्द्वयाकर्षणं कीलः प्रकोष्ठहननं तु यत् ।स वज्रपातोऽथ पुनस्तुमुलं संकुलं रणम् ॥ ३५४ ॥
1.6.354 · p. 128
अनुष्टुप्
क्ष्वेडा स्त्री सिंहनादो ना क्ष्वेडितं पुंनपुंसकम् ।नासीरं त्वग्रयानं स्यादवमर्दस्तु पीडनम् ॥ ३५५ ॥
1.6.355 · p. 128
अनुष्टुप्
उत्पिञ्जलः काहलश्च हल्लोलस्तत्र लोलता ।तत्राव्यक्तो रवो रोलो हलः कोलाहलः पुनः ॥ ३५६ ॥
1.6.356 · p. 128
अनुष्टुप्
प्रविदारश्च संग्रामो विदारः प्रविदारणम् ।संस्फेटश्चापि संपानोऽनीकः संफेट इत्यपि ॥ ३५७ ॥
1.6.357 · p. 128
अनुष्टुप्
संपरावः समुदयः संस्फोटः कलहोऽस्त्रियाम् ।स्त्रियामाजी च समितिः स्यात् क्लीबे सांपरायिकम् ॥ ३५८ ॥
1.6.358 · p. 128
अनुष्टुप्
आयोधनं च प्रधनं युद्धं संयत् स्त्रियां नरि ।क्रन्दनं रोदनं रावो वृंहितं करिगर्जितम् ॥ ३५९ ॥
1.6.359 · p. 128
अनुष्टुप्
विस्फारो धनुषः स्वाने विष्फारोऽपि निगद्यते ।प्रसभं तु बलात्कारे छलितं तु छलं च षण् ॥ ३६० ॥
1.6.360 · p. 129
अनुष्टुप्