All kośas › Gaṇitanāmamālā
गणितनाममाला Gaṇitanāmamālā
143 verses · 948 words tagged · 206 marked doubtful (dashed)
पूर्वाह्नपराह्नसंज्ञा
इति रात्रिसंज्ञा ॥
निशीथो मध्यरात्रिश्च रात्रिशेषस्ततः परं ।तथैव रात्रेः पूर्वार्द्धं सूर्यास्ताच्च गता निशा ॥ ८५ ॥
20.85 · p. 5
अनुष्टुप्
सूर्योदयाच्च मध्याह्नं यावत्पूर्वाह्नसंज्ञकम् ।तथा मध्याह्नतः पश्चाद्दिनशेषे पराह्नकम् ॥ ८६ ॥
20.86 · p. 5
अनुष्टुप्