कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Gaṇitanāmamālā

गणितनाममाला Gaṇitanāmamālā

143 verses · 948 words tagged · 206 marked doubtful (dashed)

एकाद्यङ्कानां सञ्ज्ञा

इति नक्षत्रसंज्ञा ।

अथैकाद्यङ्कानां सञ्ज्ञा ॥

एकेंदु रजनीनाथ कुभु चन्द्रं च मेदिनी ।धरारूप निशानाथ रजनीश निशाकर ॥ १७ ॥
3.17 · p. 1
अनुष्टुप्
वसुधाशर्वरीकान्तशशाङ्कावनयस्तथा ।यत्र भूमींदुनामानि प्रोक्ता तत्रैकसञ्ज्ञका ॥ १८ ॥
3.18 · p. 1
अनुष्टुप्
द्विनेत्रलोचनः पक्षादस्राक्षियमवाहवः ।यमलाश्विभुजापाणिकरयुग्मादयो मताः ॥ २० ॥
3.20 · p. 2
अनुष्टुप्
कृशानुगुणरामाग्निपावकानलवह्नयः ।हुताशनास्त्रयास्तिस्रः प्रोक्ताश्च शिखिना बुधैः ॥ २१ ॥
3.21 · p. 2
अनुष्टुप्
चतस्रश्चतुरो वेदा सागराब्धिकृताश्चतुः ।समुद्राम्भोनिधियुगा श्रुतिनीररगीश्वराः ॥ २२ ॥
3.22 · p. 2
अनुष्टुप्
शरमार्गणबाणेषुसायकानिलमारुतः ।समीरणाक्षपवनाः पंचवातास्तथाशुगाः ॥ २३ ॥
3.23 · p. 2
अनुष्टुप्
षष्ठसंज्ञा षड्रत्वं गरसा प्रोक्ता मनीषिभिः ।मुनिपर्वतशैलादि सप्ताचालनगा स्मृताः ॥ २४ ॥
3.24 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable)
संज्ञा हयाश्च तुरगा सप्तागमुनयोऽपि च ।अष्टानीं वसुनागेभहस्तीदन्त्यष्टकुञ्जराः ॥ २५ ॥
3.25 · p. 2
अनुष्टुप्
गोनन्दाङ्कनवानां च ग्रहखेटा खगास्तथा ।शून्याभ्रगगनं व्योम खमंबर नभो वियत् ॥ २६ ॥
3.26 · p. 2
अनुष्टुप्
आकाश नाम यत्रैव तत्र शून्यमुदाहृतम् ।ककुपदिक्काष्ठा च दशसंज्ञा सदैव हि ॥ २७ ॥
3.27 · p. 2
अनुष्टुप्metre not read in every line
शिवैकादश रुद्राश्च सर्वेशाभवशंकरा ।यत्रेश्वरस्य नामानि तत्रैकादश कीर्तिताः ॥ २८ ॥
3.28 · p. 2
अनुष्टुप्
भास्करादित्यसूर्यार्क द्वादशं च दिवाकरः ।रविः सहस्रकिरणदिनकृद्भानवो ध्रुवम् ॥ २९ ॥
3.29 · p. 2
अनुष्टुप्
बुधैर्द्वादाश विज्ञेया यत्र नाम भवेद्रविः ।विश्वे त्रयोदशः प्रोक्तः इंद्रशक्रश्वतुर्दशः ॥ ३० ॥
3.30 · p. 2
अनुष्टुप्
आखण्डलः सुरपतिः सुरेशमनुवासवाः ।तिथिः पंचदशः प्रोक्ता नृपभूपति षोडशः ॥ ३१ ॥
3.31 · p. 2
अनुष्टुप्
ज्ञेया षोडशसंज्ञा वै नाम स्याद्यत्र भूपतेः ।अथ सप्तदशात्यष्टि तत्रैवाष्टदशा धृतेः ॥ ३२ ॥
3.32 · p. 2
अनुष्टुप्
द्वाविंशतेराकृतिश्च नखसंज्ञास्तु विंशतिः ।सिद्धा जिनाश्चतुर्विंशत्तत्त्वं च पञ्चविंशतिः ॥ ३३ ॥
3.33 · p. 2
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
सप्तविंशति नक्षत्रं धिष्ण्यर्क्षोडुश्व कथ्यते ।दंता रदाश्च द्वात्रिंशत्संज्ञोक्ता मुनिसम्मतम् ॥ ३४ ॥
3.34 · p. 2
अनुष्टुप्
त्रिदशा देवता देवास्त्रयस्त्रिंशत्सुराबुधाः ।त्रिविष्टपाश्च विबुधा संज्ञाङ्कानां सदा स्फुटा ॥ ३५ ॥
3.35 · p. 2
अनुष्टुप्