कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Gaṇitanāmamālā

गणितनाममाला Gaṇitanāmamālā

143 verses · 948 words tagged · 206 marked doubtful (dashed)

राशिसञ्ज्ञा

इत्यङ्कसञ्ज्ञा ॥

अजक्रियो मेषसंज्ञा प्रोक्ता बुधैश्च गोवृषम् ।मिथुनो वैणिको युग्मो प्रोक्तो कर्कश्व कीटकः ॥ ३६ ॥
4.36 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 बु (wrong syllable)
मृगारिमृगराट् सिंहो मृगेन्द्रः केसरी हरी ।नारी स्त्री युवती योषित्कन्या च प्रमदाङ्गना ॥ ३७ ॥
4.37 · p. 2
अनुष्टुप्
वणिक् तुला वाणिजश्च वृश्चिकोऽलिसरीसृपः ।चापो धनुश्च धनुषो कोदण्डकार्मुकोऽपि च ॥ ३८ ॥
4.38 · p. 2
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ण्ड (wrong syllable)
तथैव विबुधैः प्रोक्तो नक्रश्च मकरो मृगः ।घटकुंभश्च कलशो मत्स्यो मीनो झषो मतः ॥ ३९ ॥
4.39 · p. 3
अनुष्टुप्

इतिराशिसञ्ज्ञा ॥

प्रथमंतनुश्च मूर्त्तिराद्यं देहशरीरकम् ।द्रविणं धनं द्वितीयं च द्रव्यं चसमर्थं विधिः ॥ ४० ॥
4.40 · p. 3
metre not recognised
कुटवं स्वाप्तं च मुखं विभवश्चैव वैभवम् ।सहजं सहस्तृतीयं च पराक्रमं सहोदरम् ॥ ४१ ॥
4.41 · p. 3
metre not recognised
विक्रमं त्रिश्च दुश्चिक्यं चतुर्थं हि बुकं जलम् ।जननी मातृपातालं बन्धुतूर्यं सुखं सुहृत् ॥ ४२ ॥
4.42 · p. 3
अनुष्टुप्
रसातलांबुवेश्मोक्तं पंचमं सुतमात्मजम् ।सन्तानं बुद्धिसंज्ञा च विद्या धीश्चैव नंदनम् ॥ ४३ ॥
4.43 · p. 3
अनुष्टुप्
अरिः षष्ठं विपक्षं च द्वेष्यः शत्रुश्च षट् द्विषन् ।विरोधी वैरिसंज्ञं च षट्कोणं चैव सप्तकं ॥ ४४ ॥
4.44 · p. 3
अनुष्टुप्
कलत्रं सप्तमं चाथ द्यूनं च स्मरमन्मथम् ।जामित्रं मदनाह्वानं कामं ततोऽष्टमं मृतिम् ॥ ४५ ॥
4.45 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
निमीलनं च निधनं रंध्रमृत्युर्विनाशनम् ।छिद्रं वसु ततो भाग्यं धर्मं च नवमं तपः ॥ ४६ ॥
4.46 · p. 3
अनुष्टुप्
त्रिकोणं च तथाकाशं व्यापारं दशमं विपत् ।कर्माम्बराख्यं व्योमं च गगनं पुष्करं नभः ॥ ४७ ॥
4.47 · p. 3
अनुष्टुप्
एकादशं भवं लाभं प्राप्तिमापमुदाहृतम् ।अन्त्यं व्ययं द्वादशमं रिष्यं प्राहुर्मुनीश्वराः ॥ ४८ ॥
4.48 · p. 3
अनुष्टुप्