All kośas › Gaṇitanāmamālā
गणितनाममाला Gaṇitanāmamālā
143 verses · 948 words tagged · 206 marked doubtful (dashed)
नक्षत्रनामानि
अथ नक्षत्रनामानि ।
अश्वनी दस्रभेदास्त्र नासत्यं तुरगं हयम् ।भरणी यमभं याम्यं प्रोक्तमंतकमांतकम् ॥ २ ॥
1.2 · p. 1
अनुष्टुप्
कृत्तिकाग्निभमाग्नेयं कृशानं हव्यवाहनम् ।अनलं दहनर्क्षं च वह्निभं च हुताशनम् ॥ ३ ॥
1.3 · p. 1
अनुष्टुप्
रोहिणं रोहिणी ब्राह्मं प्राजापत्यं च धातृभम् ।मृगशीर्षं मृगशिरं सौम्यं मृगश्च शोभनम् ॥ ४ ॥
1.4 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मृ (wrong syllable)
ऐंदवं चन्द्रशशिभमिंदुं चंद्रभमुच्यते ।आर्द्री शिवं शिवर्क्षं च शिवभं रौद्रमीश्वरम् ॥ ५ ॥
1.5 · p. 1
अनुष्टुप्
ईशं च शांकरं शर्वं शंकरं शशिशेखरम् ।पुनर्वसु पुनःप्रोक्तमादित्यं च तथादिति ॥ ६ ॥
1.6 · p. 1
अनुष्टुप्
पुष्यं तिष्यगुरूभं च अश्लेषा सर्पदैवतम् ।सार्प्पभं सर्पभं सार्प्पं मघा च पितृदैवतम् ॥ ७ ॥
1.7 · p. 1
अनुष्टुप्
पितृभं पितरं पित्रं पूर्वाफाल्गुनि भाग्यभम् ।भगं भाग्यं तथा प्रोक्तोत्तराफल्गुनि चार्यभम् ॥ ८ ॥
1.8 · p. 1
अनुष्टुप्
उग्रार्यमास्ततो हस्त अर्कं चैव तथार्कभम् ।करं सवित्तृ सूर्यर्क्षं चित्रा त्वाष्ट्रं चत्वष्ट्रभम् ॥ ९ ॥
1.9 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)
सुरवार्द्धकिसंज्ञं च तथा स्वातिं च मारुतम् ।अनिलं वायुनक्षत्रं विशाखेंद्राग्निदैवतम् ॥ १० ॥
1.10 · p. 1
अनुष्टुप्
शक्राग्निभद्विदैवं च मैत्रं मित्रानुराधकम् ।ज्येष्ठा शाक्रं चशक्रर्क्षं पौरुहूतं तथेंद्रभम् ॥ ११ ॥
1.11 · p. 1
अनुष्टुप्
तथैव वासवर्क्षं च मूलनैष्कृति निरृति ।पूर्वाषाढा तथा पूषा तोयभं च तथांबुभम् ॥ १२ ॥
1.12 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
ऊषा चैवोत्तराषाढा विश्वं च विश्वदैवतम् ।श्रवणं वैष्णवं विष्णुर्गोविंदं हरिभं श्रुतिः ॥ १३ ॥
1.13 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
वासुदेवं धनिष्ठा च श्रविष्ठा वासवं वसु ।शतभिषा वरुणं चैव वारुणं शततारका ॥ १४ ॥
1.14 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अजमार्जपदं पूभं तथाजचरणं मतम् ।तथोत्तरा भाद्रपदमाहिर्बुध्नं च भं स्मृतम् ॥ १५ ॥
1.15 · p. 1
अनुष्टुप्
रेवती पूषभं पौष्णं पूषमान्त्यं च पौष्णभम् ।पूषं चैवान्त्यसंज्ञं तु कथितं शास्त्रकोविदैः ॥ १६ ॥
1.16 · p. 1
अनुष्टुप्