कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Gaṇitanāmamālā

गणितनाममाला Gaṇitanāmamālā

143 verses · 948 words tagged · 206 marked doubtful (dashed)

घटीपलप्रहरसंज्ञा

इति चतुर्विधमाससंज्ञा ॥

अक्षरैः षष्टिभिर्दीर्घैः पलमेकं बुधैः स्मृतम् ।पलैश्च खरसैर्नाडीप्रमाणं भवति स्फुटम् ॥ ८१ ॥
17.81 · p. 5
अनुष्टुप्
नाडी घटी च घटिका विनाडी पलमीरितम् ।दिनस्य रात्रेस्तूर्यांशौ सो यामः प्रहरोच्यते ॥ ८२ ॥
17.82 · p. 5
अनुष्टुप्