All kośas › Gaṇitanāmamālā
गणितनाममाला Gaṇitanāmamālā
143 verses · 948 words tagged · 206 marked doubtful (dashed)
नवप्रकारकसञ्ज्ञा
॥ इति नृचतुष्पदजलकीटसरीसृपसंज्ञा ॥
वृषाजचापिमिथुननक्रकर्कानिशावला ।तथापि मिथुनाजश्च पृष्ठोदयाश्च राशयः ॥ ११६ ॥
31.116 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
पक्षांतरे ॥
पृष्ठोदया कर्किधन्वी नक्राजवृषभं स्मृतम् ।अन्ये शीर्षोदया ज्ञेया मीनः स्यादुभयोदयः ॥ ११७ ॥
31.117 · p. 7
अनुष्टुप्
उक्तः स्वोच्चस्थितो दीप्तस्वस्थश्च स्वगृहो ग्रहः ।उदितो मित्रगेहस्थो शांतश्च शुभवर्गगः ॥ ११८ ॥
31.118 · p. 7
अनुष्टुप्
शक्तस्फुटमयूखश्च विकलोऽस्तगतो ग्रहः ।पीडितः पापसंयुक्तः खलः पापगणे स्थितः ॥ ११९ ॥
31.119 · p. 7
अनुष्टुप्