निशीथ
niśīthaपुं · masc.In 15 kośas: 14 synonym verses, 4 as a nānārtha head word.
यामः प्रहरो निशीथस्त्वर्धरात्रो महानिशा ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable); pāda 3, syllable 6 र (wrong syllable)
genderपुंmasc.
genderपुंmasc.
सायं दिवावसानं स्यात्प्रदोषो रजनीमुखम् ।निशीथो मध्यमा रात्रिः प्रोक्ता सा च महानिशा ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
निशीथो मध्यरात्रिश्च रात्रिशेषस्ततः परं ।तथैव रात्रेः पूर्वार्द्धं सूर्यास्ताच्च गता निशा ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
अर्द्धरात्रो निशीथश्च शिवावसर इत्यपि ।निःसंपातो महानिट् चाथोच्चन्द्रापररात्रकौ ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
रात्रकं पञ्चरात्रं स्यात्त्रिरात्रं रजनीत्रयम् ।हिडिः स्त्रियां रजन्यां यत्क्रियते रक्षणं शिशोः ॥प्रदोषो रजनीवक्त्रं निशीथस्त्वर्धरात्रकः ।स्यात्सर्वावसरः पुंसि स्त्रियामत्र महानिशा ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderपुंmasc.
एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः ।एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥
metre not recognised
genderपुंmasc.
प्रदोषः शर्वरीचक्रमर्धरात्रो महानिशा ।निशीथोऽप्यथ यामः स्यत्प्रहरोऽपि निशम्यते ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
दिनात्ययः प्रदोषश्च यामस्तु प्रहरस्तथा ।निशीथस्त्वर्धरात्रश्च निःसंपातो महानिशा ॥ १३५ ॥
अनुष्टुप्
genderपुंmasc.
गणरात्रं निशाबृन्दे प्रदोषो रजनीमुखे ।अर्धरात्रौ निसम्पातो निशीथोऽवसरालयः ॥
अनुष्टुप्
genderपुंmasc.
विभावरी निशा निट् च निशीथश्च निशीथिनी ।निशीथ्या वासुरा मध्यदन्त्य-तालव्ययुक्, तमिः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
निशीथः स्यादर्धरात्रो मध्यरात्रो महानिशा ।समौ यामप्रहरकौ प्रतिपत्पक्षती समे ॥ २४० ॥
अनुष्टुप्
genderपुंmasc.
सांबाधिकः परस्तस्मान्निशीथस्त्वर्धरात्रकः ।मध्यरात्रो महारत्र उच्चन्द्रोऽपररात्रकः ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
दमथुर्ना दमे दन्ते निशीथो रात्रितद्भिदोः ।निर्ग्रन्थो नग्नके निःस्वे मूर्खेऽपि निःसहायके ॥प्रमथा स्त्री तु पथ्यायां तुरङ्गे पार्षदे पुमान् ।वरूथो रथगुप्तौ ना क्लीबन्तु गेहचर्मणोः ॥मन्मथः कामदेवे स्यात्कामचिन्ताकपित्थयोः ।भवेद्वयस्था सूक्ष्मैलाकाकल्यामलकीषु च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)