कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मध्याह्न

madhyāhnaपुं · masc.

In 9 kośas: 12 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.139 · p. 9
त्रिंशता तैरहोरात्रस्तत्राहर्दिवसो दिनम् ।दिवं द्युर्वासरो घस्रः प्रभातं स्यादहर्मुखम् ॥ १३८ ॥व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उषः ।काल्यं मध्याह्णस्तु दिवामध्यं मध्यंदिनं च सः ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.4
प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी ॥ ३ ॥निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ।विभावरीतमस्विन्यौ रजनी यामिनी तमी ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त पूर्वाह्नपराह्नसंज्ञा Gaṇitanāmamālā 20.84 · p. 5
दिनार्द्धाद्गतमध्याह्नं रात्र्यर्द्धाच्च महानिशा ॥ ८४ ॥
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.16 · p. 407
व्युष्टं विभातं प्रत्यूषः स्त्रियां प्रत्युषमित्यपि ।गोसर्गश्चाथ मध्याह्नो दिनार्थान्मध्यमित्यपि ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.27 · p. 408
स्यादेवं पञ्चदशधा दिवसः पञ्चधा पुनः ।प्रातः संगवमध्याह्नाः पराह्णाः सायमित्यथ ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.28 · p. 408
पूर्वाह्णः प्रहरः सार्द्धो मध्याह्नस्तु तदुत्तरः ।प्रहरोऽथापराह्णस्तु घटिकानां चतुष्टयम् ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.29 · p. 408
सायाह्नः प्रहरश्चैवं चतुर्द्धाऽथ त्रिधा पुनः ।पूर्वाह्णश्चापि मध्याह्नोऽपराह्णश्चेत्यथ द्विधा ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.27 · p. 42
माध्यंदिनावर्तने च मध्याह्नो अपराह्नकः ।सायो विकालः सायाह्नमुत्सूरः सबलिस्तथा ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.130 · p. 21
मध्याह्नस्तु दिवामध्यं मध्यन्दिनमपीष्यते ।सन्ध्या सायं च पितृसूर्विकालः सबलिस्तथा ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.67 · p. 19
दिवामध्यं तु मध्याह्नं मध्यन्दिनं तथैव च ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्दि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.234 · p. 32
समानौ प्राह्णपूर्वाह्णौ समौ संगतसंगवौ ।मध्यंदिनं तु मध्याह्नोऽथांशोऽह्नः कुतपोऽष्टमः ॥ २३४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.65 · p. 22
मध्यन्दिनन्तु मध्याह्न उच्छूरस्तु विकालकः ।सायाह्नोऽप्यपराह्णोऽस्त्री प्रदोषो मैथिलः समौ ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.