कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Padamañjarī

पदमञ्जरी Padamañjarī

152 verses · text only, tagging comes next

ककारप्रासाः

पदमञ्जरी

लक्ष्मीर्बुधनृपालेन यं प्राप्ता कविभल्लटम् ।तेन काव्यदृशा प्रोक्ता सप्रासा पदमञ्जरी ॥ १ ॥
1.1 · p. 46
अनुष्टुप्
शुकश्शुकं बकश्च स्याद्बकंटकमितीरितम् ।त्रिकं त्रिकस्त्रिका प्रोक्ता शकश्चाप्यकमित्यपि ॥ २ ॥
1.2 · p. 46
अनुष्टुप्
पिकः पिकी शुकीति स्यात्कृको वृक इतीरितः ।लोकः पाकः श्लोकनाकौ रेकः कोकश्च शोकवत् ॥ ३ ॥
1.3 · p. 46
अनुष्टुप्
ओकानोकौ शूकभेकौ स्तोकश्शाकश्च राकवत् ।भेकः काकस्तथा मूकशौकण्डूकं च ढौकवत् ॥ ४ ॥
1.4 · p. 46
अनुष्टुप्
नाकुर्वाकस्तथा नाका केका केकीति कथ्यते ।नौका चैकाऽपि कोकी च शूका चेत्यभिधीयते ॥ ५ ॥
1.5 · p. 46
अनुष्टुप्
अङ्कः कङ्कश्च लङ्का च शङ्का टङ्क उदाहृतः ।न्यङ्कुश्शङ्कुश्च पङ्कश्च वल्कं शल्कं च शुल्कवत् ॥ ६ ॥
1.6 · p. 46
अनुष्टुप्
कल्कः कल्कं च शुल्कश्च किष्कुर्मुष्कश्च निष्कवत् ।अर्को मर्कश्च कर्कश्थ तर्कः पर्कश्च कथ्यते ॥ ७ ॥
1.7 · p. 46
अनुष्टुप्impossible sibilant cluster: कर्कश्थ