कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Padamañjarī

पदमञ्जरी Padamañjarī

152 verses · text only, tagging comes next

गकारप्रासाः

इति खकारप्रासाः ।

अगो नगः खगश्चेति भृगुर्लिगुरगुर्मृगः ।मृगी युगी सुगश्वापि भगो भाग इतीर्यते ॥ ९ ॥
3.9 · p. 46
अनुष्टुप्
स्तगस्स्यगो युगोऽपि स्याद्युगं चाथ छगोऽपि च ।भागो भोगस्तथा रागो रागोऽपि स्याच्च रोगवत् ॥ १० ॥
3.10 · p. 47
अनुष्टुप्
पूगो नागस्तथोद्योगः छागश्श्रीगश्च कथ्यते ।भोगी योगी तथा त्यागी रोगी भागी निगद्यते ॥ ११ ॥
3.11 · p. 47
अनुष्टुप्
नागं भागं च … कीर्तितः ।त्यागो यागोऽथ रागी च मार्गो भर्गो निगद्यते ॥ १२ ॥
3.12 · p. 47
अनुष्टुप्metre not read in every line
स्वर्गो वर्गश्च सर्गश्च दुर्गो निर्गश्च कथ्यते ।दुर्गा दुर्गमिति प्रोक्तं भङ्गा भङ्गश्च कथ्यते ॥ १३ ॥
3.13 · p. 47
अनुष्टुप्
शृङ्गं लिङ्ग तथा रङ्गं मङ्गं वङ्गं च भङ्गवत् ।तुङ्गो वङ्गोऽथ भृङ्गश्च भृङ्गं तङ्गं निगद्यते ॥ १४ ॥
3.14 · p. 47
अनुष्टुप्
खङ्गोऽप्यर्थान्तरे ग्राह्यो मद्गुद्भः(?) परिकीर्तितः ।
3.7 · p. 47