All kośas › Padamañjarī
पदमञ्जरी Padamañjarī
152 verses · text only, tagging comes next
लकारप्रासाः
इति रेफान्तप्रासाः ।
बलिः कलिर्वलिश्चेति नलो बिलफले पलम् ।जलुः कुलं दलं च स्याज्जलं तलमितीरितम् ॥ ११७ ॥
27.117 · p. 58
अनुष्टुप्
खलं शलं शलतलौ तला च स्यात्कलाकलम् ।वीलुस्सालश्च हेलिश्च हेला शाला च कूलवत् ॥ ११८ ॥
27.118 · p. 58
अनुष्टुप्
आलिः पालिश्व वेला च लीला मूलमितीर्यते ।नालस्तालं तथा मालं काली नीली च शालिवत् ॥ ११९ ॥
27.119 · p. 58
अनुष्टुप्
कालः काला तथा शीलं जालं पालं च सालवत् ।पाला माला तथा स्थाली स्यालं व्यालश्च चेलवत् ॥ १२० ॥
27.120 · p. 58
अनुष्टुप्
कोला शैली सीलनालौ कीलो बोलश्च बोलवत् ।मौलिः स्थूलस्तथा बालः कीलश्शीली च कथ्यते ॥ १२१ ॥
27.121 · p. 58
अनुष्टुप्
मल्ली वल्ली तथा भिल्ली पल्ली मल्लं च भल्लवत् ।भल्ली चुल्लश्चिल्लबल्लौ तिल्लः फुल्ल इतीर्यते ॥ १२२ ॥
27.122 · p. 58
अनुष्टुप्