कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Padamañjarī

पदमञ्जरी Padamañjarī

152 verses · text only, tagging comes next

णकारप्रासाः

इति ढकारप्रासाः ।

गुणः पणः क्षणश्वेति गणो घृणिरितीर्यते ॥ ४३ ॥
14.43 · p. 50
मणिः फणिः फणा चाणु रणस्तृणमितीरितम् ।घृणा कणा रणे चापि ऋणं व्रणमितीरितम् ॥ ४४ ॥
14.44 · p. 50
अनुष्टुप्
चणोऽथ वीणा कोणश्च काणो जूणिर्निगद्यते ।शाणश्शोणस्तथा श्रेणी श्रोणी वाणी प्रकीर्तिता ॥ ४५ ॥
14.45 · p. 50
अनुष्टुप्
पाणी पाणिस्तथा प्राणी शोणी तूणाऽप्यघाणिषत् ।प्राणस्तूणश्च वेणुश्च भ्रूणो घ्राणश्च ताणवत् ॥ ४६ ॥
14.46 · p. 50
अनुष्टुप्
श्राणस्त … द्रोणं द्रोणश्च कथ्यते ।जूर्णाऽप्यूर्णा तथा पूर्णा स्वर्णं पर्णं च वर्णवत् ॥ ४७ ॥
14.47 · p. 50
अनुष्टुप्metre not read in every line
कर्णश्चार्णं तथा चूर्णं तूर्णं कर्णं प्रगीयते ।तीक्ष्णं श्लक्ष्णं च कृष्णश्च विष्णुर्जिष्णुः प्रकीर्तितः ॥ ४८ ॥
14.48 · p. 51
अनुष्टुप्
उष्णं कोष्णं च तृष्णा च कृष्णं च प्रणिगद्यते ।
14.7 · p. 51