All kośas › Padamañjarī
पदमञ्जरी Padamañjarī
152 verses · text only, tagging comes next
रेफान्तप्रासाः
इति यकारप्रासाः ।
करो नरो भरश्चेति क्षुरश्चापि स्वरः खरः ॥ १०२ ॥
26.102 · p. 56
खुरस्त्सरुश्च क्षरवत् मरुन्मरुरितीर्यते ।चरुः परिरिरा तु स्यात्सुरातरिसुरास्सरित् ॥ १०३ ॥
26.103 · p. 56
अनुष्टुप्
तरश्शिरश्शरश्वापि शरन्मरुदुरोदरः ।सरः परः परन्तु स्यात्परं शरमितीरितम् ॥ १०४ ॥
26.104 · p. 56
अनुष्टुप्
दरी करी तुरी चापि पुरस्स्मरहराधराः ।पुराऽव्ययं परं तु स्यात् हरिर्गिरिगुरुक्षराः ॥ १०५ ॥
26.105 · p. 56
अनुष्टुप्
तरुः पुरुः त्सरुश्च स्याद्गरुर्गुरुरितीर्यते ।सारो वारश्च भारश्च क्षारश्चारश्च हीरवत् ॥ १०६ ॥
26.106 · p. 56
अनुष्टुप्
कारुर्मेरुस्तथा चारुर्द्वारं क्षीरं तु तीरवत् ।तारा तारश्च तारं च मारो हारश्च घोरवत् ॥ १०७ ॥
26.107 · p. 57
अनुष्टुप्
क्रूरश्शूरस्तथा धीरः पौरो गौरश्च कथ्यते ।गौरी भूरिच भूरिच स्वैरस्सिर इतीर्यते ॥ १०८ ॥
26.108 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 रि (wrong syllable)
शक्रश्चक्री च चक्रं च चक्रः शुक्रश्च शुक्रवत् ।वक्रो वक्रं तथा वक्रा तक्रं नक्रश्च कथ्यते ॥ १०९ ॥
26.109 · p. 57
अनुष्टुप्
मन्त्रस्तन्त्रं च तन्त्री च मन्त्री यन्त्र इतीर्यते ।अद्रिः छिद्रं च निद्रा च मुद्रा भद्रा च भद्रवत् ॥ ११० ॥
26.110 · p. 57
अनुष्टुप्
क्षुद्रः क्षुद्रा च रौद्री च कद्रू कद्रुश्च कद्रुवत् ।चित्रा चित्रं च धात्री च छत्रा छत्रं च कथ्यते ॥ १११ ॥
26.111 · p. 57
अनुष्टुप्
पोत्री यात्रा च गात्रं च सत्रं सूत्रं च नेत्रवत् ।पोत्रं पात्रं क्षत्रगोत्रे क्षेत्रं मित्रं च वेत्रवत् ॥ ११२ ॥
26.112 · p. 57
अनुष्टुप्
तोत्रं मात्रा च मात्रं च गोत्रा पुत्रश्च कथ्यते ।वस्त्रं शस्त्रं च शास्त्रं च भस्त्री चास्त्रं निगद्यते ॥ ११३ ॥
26.113 · p. 57
अनुष्टुप्
अग्रं व्यग्रश्च शिग्रुश्च पुण्ड्रं पुण्ड्रः प्रगीयते ।ऐन्द्रिरिन्द्रश्च तन्द्री च तन्द्रश्चन्द्रश्च सान्द्रवत् ॥ ११४ ॥
26.114 · p. 57
अनुष्टुप्
दंष्ट्री दंष्ट्रश्च राष्ट्रं च तीव्रं वक्रं च कृछ्रवत् ।वज्रमस्रं तथाप्यश्रुर्व्याघ्रश्शीघ्रमितीर्यते ॥ ११५ ॥
26.115 · p. 57
अनुष्टुप्
वप्रो विप्रस्तथा क्षिप्रमङ्घ्रिस्सङ्घ्रा निगद्यते ।अभ्रं शुभ्रस्तथा बभ्रुरार्द्रा रन्ध्रमितीर्यते ॥ ११६ ॥
26.116 · p. 57
अनुष्टुप्