All kośas › Padamañjarī
पदमञ्जरी Padamañjarī
152 verses · text only, tagging comes next
क्षकारप्रासाः
इति हकारप्रासाः ।
पक्षः प्लक्षस्तथा मोक्षो यक्षो भिक्षा निगद्यते ।प्रोक्षा रक्षा च लक्षश्च लक्षं न्यक्षश्च कक्षवत् ॥ १३६ ॥
33.136 · p. 60
अनुष्टुप्
दक्षो रूक्षस्तथाप्यक्षं कुक्षिः पक्षि च वृक्षवत् ।ऋक्षं रक्षस्तथा द्राक्षा ध्वाङ्क्षं ध्वाङ्क्षश्च कथ्यते ॥ १३७ ॥
33.137 · p. 60
अनुष्टुप्