All kośas › Padamañjarī
पदमञ्जरी Padamañjarī
152 verses · text only, tagging comes next
धकारप्रासाः
इति दकारप्रासाः ।
बुधो विधिर्विधुश्च स्याद्विधामधुसुधाव्यधाः ।वधूर्वधः पृथुश्चेति कथाऽपि स्यान्निधिस्तथा ॥ ७० ॥
18.70 · p. 53
अनुष्टुप्
आधिर्भोधिस्तथा गोधिर्गोधा राधा च राधवत् ।साधुस्सिधुस्तथा बाधा गाधा मेधा च कथ्यते ॥ ७१ ॥
18.71 · p. 53
अनुष्टुप्
गाधः पाधस्तथा मेधी बन्धुरन्धुरितीर्यते ।गन्धः स्कन्धश्च सन्धा च सिन्धुरन्धश्च कथ्यते ॥ ७२ ॥
18.72 · p. 53
अनुष्टुप्
श्राद्धमिद्धं च सिद्धश्च बुद्धिर्बुद्धं च कथ्यते ।विद्धं वृद्धश्व शुद्धश्व वृद्धिर्बद्धमितीरितम् ॥ ७३ ॥
18.73 · p. 53
अनुष्टुप्
मूर्धा वार्धिस्तथाप्यर्धं लुब्धोऽप्यब्धिः प्रधीयते ।
18.5 · p. 53