कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Padamañjarī

पदमञ्जरी Padamañjarī

152 verses · text only, tagging comes next

मकारप्रासाः

इति भकारप्रासाः ।

द्रुमो भ्रमश्शमिश्चेति क्रमः कृमियमौ समः ।सुमश्शमः स्तुमश्च स्यात्क्षमा हिम इतीर्यते ॥ ८६ ॥
24.86 · p. 54
अनुष्टुप्
उमा समा रुमा चापि रमाऽपि स्यात्तमेव हि ।श्रमश्चैव तमोऽपि स्यात्सोमो ग्रामोऽपि कथ्यते ॥ ८७ ॥
24.87 · p. 55
अनुष्टुप्
काममित्यव्ययं कामस्सीमा हेमापि सीमवत् ।दाम रामस्तथा रामा क्षेमं क्षौमं निगद्यते ॥ ८८ ॥
24.88 · p. 55
अनुष्टुप्
भीमः प्रेमा तथा नेमिः स्वामिस्सामिश्च भौमवत् ।भीष्मं ग्रीष्मस्तथा भीष्मः कर्म भर्म च शर्मवत् ॥ ८९ ॥
24.89 · p. 55
अनुष्टुप्
ऊर्मिरुर्मी तथा धर्मो वर्म चर्म च नर्म च ।रश्मिरश्म तथा वेश्म वर्म चात्मा प्रकीर्तितः ॥ ९० ॥
24.90 · p. 55
अनुष्टुप्
लक्ष्मीस्सूक्ष्मं च लक्ष्मं च रुक्मं तोक्मं निगद्यते ।जन्म सद्म च पद्मं च पद्मा चेत्यभिधीयते ॥ ९१ ॥
24.91 · p. 55
अनुष्टुप्