कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Padamañjarī

पदमञ्जरी Padamañjarī

152 verses · text only, tagging comes next

तकारप्रासाः

इति णकारप्रासाः ।

लता गतिस्सितं चापि कृतं मतमितीरितम् ॥ ४९ ॥
15.49 · p. 51
मतिः श्रुतिः स्तुतिश्व स्यान्नुतिः कृतिरुतीति च ।शतं मितं च गतिवत् सुतश्च स्यात्पिताऽपि च ॥ ५० ॥
15.50 · p. 51
अनुष्टुप्
रतिर्हतिः स्मृतिश्चेति भृतिश्चाथ धृतिस्तथा ।क्षितिश्चापि चितिश्च स्यात्सती रतमितीरितम् ॥ ५१ ॥
15.51 · p. 51
अनुष्टुप्
घृतं क्षुतं च्युतं चेति मृतं गतमिति क्रमात् ।धातुः केतुस्तथा सेतुर्हेतुर्गातुश्च तातवत् ॥ ५२ ॥
15.52 · p. 51
अनुष्टुप्
मृता च पोतः स्यूतिः स्यान्नीतिर्भूतिरितीरिता ।दूतिस्सूतश्च भीतिश्च हेतिस्त्रेता च कथ्यते ॥ ५३ ॥
15.53 · p. 51
अनुष्टुप्
पूतं भूतं च धूतं च शतं पीतं च वीतवत् ।ज्योतिस्सातिश्व रीतिश्च प्रीतिस्सातिश्च रातिवत् ॥ ५४ ॥
15.54 · p. 51
अनुष्टुप्
ईतिर्गीतिस्तथा धौतिः स्रोतो रेतश्च कथ्यते ।जातस्सितं च वीतिश्च माता धाता तथाऽपि च ॥ ५५ ॥
15.55 · p. 51
अनुष्टुप्
सितं श्वेतं च मन्तुश्च कन्तुर्यन्ता निगद्यते ।भ्रान्तिर्दान्तिस्तथा शान्तिः क्षान्तिः कान्तिश्च कान्तवत् ॥ ५६ ॥
15.56 · p. 51
अनुष्टुप्
वृन्तं कान्तं च कान्ता च वान्तमन्तं च कथ्यते ।क्षता कृत्तिर्वृत्तिरिति पतिर्वृत्तं च वीतवत् ॥ ५७ ॥
15.57 · p. 51
अनुष्टुप्
शास्ता वस्ता तथा बस्तिर्गस्तं शस्तं च कथ्यते ।हस्तो वास्तुश्च शस्तं च मस्तुः स्यान्नवनीतके ॥ ५८ ॥
15.58 · p. 51
अनुष्टुप्
पक्तिश्व कथ्यते शक्तिर्युक्तिर्भुक्तिश्च शक्तिवत् ।शुक्तिर्मुक्तिस्तथा वक्ता युक्तं त्यक्तं च सक्तवत् ॥ ५९ ॥
15.59 · p. 52
अनुष्टुप्
उक्तं प्रोक्तं तथा व्यक्तं रक्तश्शिक्तश्च तिक्तवत् ।मूर्तिः स्फूर्तिस्तथा कीर्तिरार्तिः पूर्तिश्च वार्तवत् ॥ ६० ॥
15.60 · p. 52
अनुष्टुप्
धृर्तं पूर्तं तथा वार्तं वर्तो वार्ता च कथ्यते ।कर्ता भर्ता तथा धर्ता स्मर्ता चेति निगद्यते ॥ ६१ ॥
15.61 · p. 52
अनुष्टुप्
आप्तिर्गुप्तिः प्राप्तिरिति गुप्तं लिप्तं च क्लृप्तवत् ।क्षिप्तं लुप्तं च क्लृप्तिश्च प्राप्तश्चाप्तश्च कथ्यते ॥ ६२ ॥
15.62 · p. 52
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable); pāda 3, syllable 5 च (wrong syllable)