कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अङ्गारवल्ली

aṅgāravallīस्त्री · fem.

In 4 kośas: 2 synonym verses, 3 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.136
हञ्जिका ब्राम्हणी पद्मा भर्गी ब्राह्मणयष्टिका ॥ ८९ ॥अङ्गारवल्ली बालेयशाकबर्बरवर्धकाः ।
अनुष्टुप्म्ह (ह्म?): ब्राम्हणी
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.185 · p. 269
हस्ती करञ्जः शार्ङ्गेष्ठा विषघ्नी मदहस्तिनी ।अङ्गारवल्ली काकघ्नी मधुमत्ता वसादिनी ॥ १८५ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.1 · p. 87
अथ पञ्चाक्षरे स्त्रीणामध्यायो वर्ण्यतेऽधुना ।अङ्गारवल्ली भाङ्गीति प्रसिद्धे भेषजान्तरे ॥ १ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.2 · p. 87
करञ्जानां च भेदेषु क्वचिद्भेदेऽर्धजाह्नवी ।कावेर्यामर्धगङ्गायामथ स्यादुपकुश्चिका ॥ २ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र लपं Śivakoṣa 23.4.493 · p. 45
अङ्गारवल्ली शार्ङ्गष्टाभार्गीज्वालामुखीषु च ।जघनेफला मलय्वां पनसे जघनेफलः ॥ ४९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 फ (wrong syllable)