कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

पञ्चाक्षरकाण्डः (1/2)

इति चतुरक्षरकाण्डे नानालिङ्गाध्यायः ।

चतुरक्षरकाण्डः समाप्तः ।

अथ पञ्चाक्षरकाण्डः ।

स्त्रीलिङ्गाध्यायः ।

अथ पञ्चाक्षरे स्त्रीणामध्यायो वर्ण्यतेऽधुना ।अङ्गारवल्ली भाङ्गीति प्रसिद्धे भेषजान्तरे ॥ १ ॥
7.1 · p. 87
अनुष्टुप्
करञ्जानां च भेदेषु क्वचिद्भेदेऽर्धजाह्नवी ।कावेर्यामर्धगङ्गायामथ स्यादुपकुश्चिका ॥ २ ॥
7.2 · p. 87
अनुष्टुप्
सूक्ष्मैलायां च कृष्णे च जीरकेऽथोपजिह्विका ।जिह्वारोगान्तरे वम्र्यामप्यथो काचमालिका ॥ ३ ॥
7.3 · p. 87
अनुष्टुप्
मद्ये च काचशब्दार्थमालिकायां च वर्ण्यते ।गोरक्षजम्बूर्गोधूमधान्ये गोरक्षतण्डुले ॥ ४ ॥
7.4 · p. 87
अनुष्टुप्
गोरक्षतण्डुलो नागबलासंज्ञं हि भेषजम् ।चिलीमलिका त(डन ? डिति) खद्योते कण्ठभूषणे ॥ ५ ॥
7.5 · p. 87
अनुष्टुप्metre not read in every line
अथ नक्षत्रमाला स्याद्धस्तिमस्तकभूषणे ।स्थासकाख्ये तथा सप्तविंशत्या मौक्तिकैः कृते ॥ ६ ॥
7.6 · p. 87
अनुष्टुप्
एकयष्टौ हारभेदे नक्षत्राणां तथावलौ ।अथ स्यान्मालिकायां च नवायां नवमालिका ॥ ७ ॥
7.7 · p. 87
अनुष्टुप्
पुष्पवल्लीविशेषे च सप्तलानाम्न्यथो भुवि ।नरेन्द्रपत्नी पत्न्यां च राज्ञोऽथ प्रावृषायणी ॥ ८ ॥
7.8 · p. 87
अनुष्टुप्
शोफघ्न्यामात्मगुप्तायां शोफघ्नी स्यात् पुनर्नवा ।अत्र स्यात् पुरुषगतिः सेतुषानाम्नि सामनि ॥ ९ ॥
7.9 · p. 87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पु (wrong syllable)
अहमस्मीत्यृगुत्पन्ने पुरुषस्य गतावपि ।अथ योजनगन्धा स्याज्जानक्यां व्यासमातरि ॥ १० ॥
7.10 · p. 88
अनुष्टुप्
कस्तूर्यां चाथ कथिता कविभिर्वरवर्णिनी ।वरस्त्रियां हरिद्रायामथ स्याच्छकुलादनी ॥ ११ ॥
7.11 · p. 88
अनुष्टुप्
रोहिण्यां तोयपिप्पल्यां रोहिणी कटुरोहिणी ।इति प्रसिद्धं भैषज्यं स्याच्छ्वेत्सुरसा त्वियम् ॥ १२ ॥
7.12 · p. 88
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सि (syllables merged)
(भवेत् सु)गन्धौ तुलसीसंज्ञके च कठिञ्जरे ।सितशेफालिकायामप्यथो दूत्यां शिरःस्रजि ॥ १३ ॥
7.13 · p. 88
अनुष्टुप्metre not read in every line
भवेत् सुरततालीति शब्दोऽध्यायोऽप्यपूर्ययम् ॥ १३-१/२ ॥
7.14 · p. 88

इति पञ्चाक्षरकाण्डे स्त्रीलिङ्गाध्यायः ।

अथ पञ्चाक्षरकाण्डे पुल्लिँङ्गाध्यायः ।

अथ पञ्चाक्षरनरा अभिनिष्टान इत्यमुम् ।विद्याद्विसर्जनीये च वर्णमात्रेऽप्यथोभयोः ॥ १ ॥
7.1 · p. 88
अनुष्टुप्
उत्साहेऽध्यवसायः स्या+++++++रः ।सव्वँत्सर इति ह्येके तद्भेद इति चापरे ॥ २ ॥
7.2 · p. 88
अनुष्टुप्metre not read in every line
अस्थिसङ्घात इत्येष समृहेऽस्थ्नां लतान्तरे ।अस्थिमानिति विख्यातेऽप्यथ स्यादाशुशुक्षणिः ॥ ३ ॥
7.3 · p. 88
अनुष्टुप्
पावके भास्करे च स्यादथोपवसथध्वनिः ।ग्रामोपवासयोः कव्यवाहनस्त्वग्निमात्रके ॥ ४ ॥
7.4 · p. 88
अनुष्टुप्
पितृणामपि वह्नौ स्यादथ स्यात् करपल्लवः ।बाहौ किसलयाकारपाणौ चाथ महेश्वरे ॥ ५ ॥
7.5 · p. 89
अनुष्टुप्
खण्डे च परशौ खण्डपरशुः स्यात् तु केतके ।आम्रे चामरपुष्पः स्यात् काशे च ज्योतिषांपतिः ॥ ६ ॥
7.6 · p. 89
अनुष्टुप्
अर्के चन्द्रेऽप्यथ तुलापुरुषः स्याद्व्रतान्तरे ।पिण्याकाचामतक्राम्बुसक्तूनां भोजनात् क्रमात् ॥ ७ ॥
7.7 · p. 89
अनुष्टुप्
एकैकस्य त्र्यहं यत् स्यात् तुलायाः पुरुषे तथा ।दशनोच्छिष्ट उच्छ्वासे चुम्बने दशनच्छदे ॥ ८ ॥
7.8 · p. 89
अनुष्टुप्
भ्रातुर्मृतस्य जायायां संसक्ते दिधिषूपतिः ।पुनर्भ्वश्च धवेऽथ स्याद् वरुणस्य फले तथा ॥ ९ ॥
7.9 · p. 89
अनुष्टुप्
धूलीकदम्बोऽपि तरुविशेषे नीपसंज्ञके ।स्यान्नागवारिकस्त्वेष गणस्थे हस्तिपालके ॥ १० ॥
7.10 · p. 89
अनुष्टुप्
परिवत्सरशब्दस्तु कैश्चित् सव्वँत्सरे मतः ।अन्यैस्तु तद्विशेषेऽथ तक्रेऽपि परमे रसे ॥ ११ ॥
7.11 · p. 89
अनुष्टुप्
विज्ञेयः परमरसः स्यात् तु पर्यनुयोगवाक् ।अनुयोगेऽप्युपालम्भेऽप्यथ वह्नौ पुरन्दरे ॥ १२ ॥
7.12 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
प्राचीनबर्हिः शम्भौ तु शक्रे स्यान्मेघवाहनः ।यक्षकर्दम इत्येष यक्षाणामपि कर्दमे ॥ १३ ॥
7.13 · p. 89
अनुष्टुप्
कर्पूरागरुकस्तूरीतक्कोलैः साधितेऽपि च ।गन्धयुक्तिविशेषेऽन्ये कुङ्कुमं चात्र युञ्जते ॥ १४ ॥
7.14 · p. 89
अनुष्टुप्
उत्कण्ठे रणरणको वियोगे त्वाह सज्जनः ।मदनेऽमरदत्तोऽमुमाचष्टे शब्दवित्तमः ॥ १५ ॥
7.15 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
शीतचम्पकशब्दोऽयं दीपदर्पणयोर्मतः ।अथ स्यात् सर्वसन्नाहः सन्नद्धौ सर्ववर्मिणाम् ॥ १६ ॥
7.16 · p. 89
अनुष्टुप्
सर्वात्मन्यप्यथ स्वादुकण्टकः स्याद्विकङ्कते ।कोल्यां च गोक्षुरे चापि स्यादथो हव्यवाहनः ॥ १७ ॥
7.17 · p. 90
अनुष्टुप्
भवेदाहवनीयाग्नौ देवाग्नाबग्निमात्रके ।हिङ्गुनिर्यासशब्दोऽयं निम्बे हिङ्गुरसेऽपि च ॥ १८ ॥
7.18 · p. 90
अनुष्टुप्
हिरण्यबाहुः शोणाख्यनदे विषमलोचने ॥ १८-१/२ ॥
7.33 · p. 90

इति पञ्चाक्षरकाण्डे पुल्लिँङ्गाध्यायः ।

अथ पञ्चाक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।

अथ पञ्चाक्षरनपामध्यायो रचयिष्यते ।अनुनाथनशब्दोऽयं याच्ञादिषु चतुर्ष्वपि ॥ १ ॥
7.1 · p. 90
अनुष्टुप्
अथातिसर्जनं दाने (वधे) चाथापवर्जनम् ।परित्यागे च दाने चाप्यथावहननध्वनिः ॥ २ ॥
7.2 · p. 90
अनुष्टुप्metre not read in every line
मुसले चावघाते चाप्यथावतरणध्वनिः ।अवतीर्णौ च भूतादिग्रहे निवसनाञ्चले ॥ ३ ॥
7.3 · p. 90
अनुष्टुप्
अभिसन्धानशब्दोऽयं शरव्येऽप्यमिसन्धिके ।उपसर्जनमित्येतद् यत् स्यात् प्रथमयोदितम् ॥ ४ ॥
7.4 · p. 90
अनुष्टुप्
समासशास्त्रे तत्र स्यादप्रधानेऽपि तत् तथा ।उपसृष्टौ तथाह्याह निदाने षोडशिस्तवे ॥ ५ ॥
7.5 · p. 90
अनुष्टुप्
स्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि ।उपवर्तनमित्येतदश्वानां लुठने क्षितौ ॥ ६ ॥
7.6 · p. 90
अनुष्टुप्
राष्ट्रेऽप्यथोपयमनं विवाहे स्वीकृतावपि ।कालानुसार्यं शैलेये जावकाख्ये विलेपने ॥ ७ ॥
7.7 · p. 91
अनुष्टुप्
केशवायुधमित्येतत् केशवस्यायुधे तथा ।रथचक्रेऽप्यथ ज्ञेयं ग्रामणीकुलमित्यदः ॥ ८ ॥
7.8 · p. 91
अनुष्टुप्
क्षुद्रद्वीपा हि बहवः सगरैः सागरीकृते ।भागे भारतवर्षस्य तेषामन्यतमे तथा ॥ ९ ॥
7.9 · p. 91
अनुष्टुप्
ग्रामण्यां च कुलेऽथ स्याद् गुणसामान्यमित्यदः ।साङ्ख्यतत्त्वे प्रधानाख्ये गुणशब्दार्थवस्तुनः ॥ १० ॥
7.10 · p. 91
अनुष्टुप्
समानत्वेऽप्यथो पत्त्रे तमालाख्यमहीरुहः ।तमालपत्रं भस्मादिरचिते च विशेषके ॥ ११ ॥
7.11 · p. 91
अनुष्टुप्
दुग्धाम्रे दुग्धतालीयं स्यात् फेनेऽपि च दुग्धजे ।धनधारणमित्येतत् स्वापतेयस्य धारणे ॥ १२ ॥
7.12 · p. 91
अनुष्टुप्
व्यवहारप्रवृत्तानां लेख्यभेदेऽप्यथो भवेत् ।नगभूषणमित्येतन्नगानां भूषणेऽपि च ॥ १३ ॥
7.13 · p. 91
अनुष्टुप्
हरितालेऽप्यथ ज्ञेयं नियमे परिभाषणम् ।निन्दात्मकेऽप्युपालम्भे स्यादालापेऽप्यथो भवेत् ॥ १४ ॥
7.14 · p. 91
अनुष्टुप्
परिवेषणशब्दोऽयं भोजनायां च वेष्टने ।पादबन्धनशब्दस्तु बन्धने पादवस्तुनः ॥ १५ ॥
7.15 · p. 91
अनुष्टुप्
स्याच्च जीवधनाभिख्ये गोमहिष्यादिवस्तुनि ।मणिसोपानशब्दोऽयं सोपाने मणिनिर्मिते ॥ १६ ॥
7.16 · p. 91
अनुष्टुप्
चाटुकार इति ख्यातेऽप्येकवल्ल्या समे कृते ।सौवर्णैर्गुडकैर्विद्यादलङ्कारान्तरेऽ(थ?पि) तत् ॥ १७ ॥
7.17 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मुखभूषणमित्येतत् स्याल्लोहे वङ्गसंज्ञके ।मुखस्य भूषणे चाथ रसकेसरमित्यदः ॥ १८ ॥
7.18 · p. 92
अनुष्टुप्
वेधके वकुले नागपुष्पेऽथ वरचन्दनम् ।देवदारुणि कालेयेऽप्यथो (या)तिभयप्रदा ॥ १९ ॥
7.19 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
+ + + + + + + स्याद्वीराशंसनमित्यदः ।आशंसने च वीरस्य समुद्धरणवाक् पुनः ॥ २० ॥
7.20 · p. 92
अनुष्टुप्metre not read in every line
वान्तान्नेऽप्युन्नये चेत्थमध्यायो गतवानयम् ॥ २०-१/२ ॥
7.54 · p. 92

इति पञ्चाक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।

अथ पञ्चाक्षरकाण्डे वाच्यलिङ्गाध्यायः ।

अथाभिधेयलिङ्गा ये शब्दाः पञ्चाक्षराः स्मृताः ।तेषां समेषामध्यायः स्पष्टं प्रस्तूयतेऽधुना ॥ १ ॥
7.1 · p. 92
अनुष्टुप्
अनेलमूकः स्यादन्धे वक्तुं श्रोतुमशिक्षिते ।श्रुतिवर्जित इत्येके शठे चाथौदनादिषु ॥ २ ॥
7.2 · p. 92
अनुष्टुप्
सुसंस्कृतेषु पर्याप्ते प्रमितप्राप्तयोरपि ।उपसम्पन्नशब्दोऽयं तथाथोदयनीयवाक् ॥ ३ ॥
7.3 · p. 92
अनुष्टुप्
योगान्तकर्मभेदेऽपि तद्योगादहरादिषु ।कथाप्रसङ्गस्तु विषवैद्ये वाताधिकेऽपि च ॥ ४ ॥
7.4 · p. 92
अनुष्टुप्
अथ प्रवचनीयं स्यात् प्रवक्तव्ये प्रवक्तरि ।स्यात् पर्यवसितं लब्धे विरतिं प्राप्तवत्यपि ॥ ५ ॥
7.5 · p. 92
अनुष्टुप्
बहुलीकृतमित्येतन्नीते बहुलतामपि ।पूतधान्येऽप्यथो शौन्याद(सि?नि)कस्तस्करे तथा ॥ ६ ॥
7.6 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
औत्थिताशनिके चायमित्यध्यायः समाप्तवान् ॥ ६-१/२ ॥
7.61 · p. 93

इति पञ्चाक्षरकाण्डे वाच्यलिङ्गाध्यायः ।

अथ पञ्चाक्षरकाण्डे नानालिङ्गाध्यायः ।

अथ पञ्चाक्षराः शब्दा नानालिङ्गाश्च ये मताः ।तेषां समेषामध्यायः स्फुटः प्रस्तूयतेऽधुना ॥ १ ॥
7.1 · p. 93
अनुष्टुप्
अथापराजितः पुंसि हरे विष्णौ स्त्रियां पुनः ।ब्रह्मणो ब्रह्मलोकस्थपुरे छान्दोग्यकीर्तिते ॥ २ ॥
7.2 · p. 93
अनुष्टुप्
विद्यादसनपर्ण्याख्यक्षुद्रवृक्षे लतान्तरे ।गिरिकर्णीसमाख्ये स्यादीशानदिशि च त्रि तु ॥ ३ ॥
7.3 · p. 93
अनुष्टुप्
अजिते राजितं यस्मादपेतं तत्र यस्य च ।गर्हितं राजितं तत्र राजिते गर्हितेऽथ नप् ॥ ४ ॥
7.4 · p. 93
अनुष्टुप्
गर्हिते राजने स्यादित्यथ स्यादमृतोद्भवम् ।लशुने क्ली त्रिषु त्वेतत् सर्वस्मिन् स्यात् सुधोद्भवे ॥ ५ ॥
7.5 · p. 93
अनुष्टुप्
अष्टमङ्गलशब्दो द्वे घोटभेदेऽस्य लक्षणम् ।पुच्छोरःखुरकेशास्यैः सितैः स्यादष्टमङ्गलः ॥ ६ ॥
7.6 · p. 93
अनुष्टुप्
इति तक्षागमख्याते पूर्णकुम्भादिके नपुम् ।द्विगौ तु प्राप्तलिङ्गं स्यात् समासेऽथावरोहकः ॥ ७ ॥
7.7 · p. 93
अनुष्टुप्
कृष्णशालौ पुमांस्त्रिस्तु यत्राक्वाप्यवरोढरि ।अथाप्रतिरथो ज्ञेय ऋषिभेदे नृलिङ्गकः ॥ ८ ॥
7.8 · p. 94
अनुष्टुप्
'आशुः शिशान' इत्यादिसूक्ते तु स्यान्नपुंसकम् ।यस्य प्रतिरथो नास्ति तत्र त्रिष्वेष कीर्तितः ॥ ९ ॥
7.9 · p. 94
अनुष्टुप्
स्त्री त्ववक्षेपणी घोट(रु ? कु)शायां भर्त्सने पुनः ।क्लीबेऽवक्षेपणं क्लीबं त्ववदारणमित्यदः ॥ १० ॥
7.10 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
खनित्रे भेदने तु स्यात् स्त्री च नप् चावदारणा ।अथाधिकरणं द्रव्य आधारेऽधिकृतौ च नप् ॥ ११ ॥
7.11 · p. 94
अनुष्टुप्
अधिके तु रणे न स्त्री बहुव्रीहौ तु भेद्यवत् ।अधिरोहणमारोहे क्ली स्त्रियां त्वधिरोहणी ॥ १२ ॥
7.12 · p. 94
अनुष्टुप्
निःश्रेण्यामथ पाठाख्यलताजात्यन्तरे स्त्रियाम् ।अविद्धकर्णी त्रिषु तु यस्य विद्धौ न कर्णकौ ॥ १३ ॥
7.13 · p. 94
अनुष्टुप्
अपेतो वारणो यस्मात् तस्मिंस्त्रिष्वपवारणः ।न नापवारणान्तर्धौ स्त्रीलिङ्गे त्वभिसारिका ॥ १४ ॥
7.14 · p. 94
अनुष्टुप्
कान्तार्थिनी स्त्री या याति सङ्केतं तत्र सा त्रिषु ।अभिगन्तरि पुल्लिँङ्गे त्वङ्गनाप्रिय इत्ययम् ॥ १५ ॥
7.15 · p. 94
अनुष्टुप्
आम्रवृक्षेऽङ्गनानां तु प्रिये त्रिर्यस्य वाङ्गनाः ।प्रियास्तत्राब्धिमण्डूकी पुनः स्त्री शुक्तिसंज्ञके ॥ १६ ॥
7.16 · p. 94
अनुष्टुप्
सामुद्रजन्तौ सामुद्रदर्दुरे तु द्वयोरसौ ।स्त्री त्वधिश्रयणी चुल्ल्यां चुल्ल्यामारोपणे पुनः ॥ १७ ॥
7.17 · p. 94
अनुष्टुप्
क्लीबेऽधिश्रयणं पक्तुं स्थाल्यादेरथ नो पुमान् ।संस्कारे गन्धमाल्याद्यैः पटादेरधिवासना ॥ १८ ॥
7.18 · p. 94
अनुष्टुप्
निवासनेऽप्यथारिष्टनेमिर्विष्णौ पुमांस्त्रि तु ।अरिष्टा यस्य नेमिः स्यात् तत्राग्रेदिधिषूः पुनः ॥ १९ ॥
7.19 · p. 94
अनुष्टुप्
या ज्येष्ठायामनूढायामूढा तस्यां स्त्रियां स्त्रियाम् ।ना तु भ्रातुः प्रमीतस्य जायया रमतेऽनुजः ॥ २० ॥
7.20 · p. 95
अनुष्टुप्
यस्तस्मिन्नमुमेवास्मिन्नर्थे ह्रस्वान्तमप्यवक् ।अग्रेदिधिषुरित्येष पठितोऽर्थान्तरे परैः ॥ २१ ॥
7.21 · p. 95
अनुष्टुप्
यथा पुनर्भूर्द्विर्व्यूढा सैव यस्य कुटुम्बिनी ।स स्याद्द्विजोऽग्रेदिधिषुरित्यथान्तावसायिवाक् ॥ २२ ॥
7.22 · p. 95
अनुष्टुप्
द्वयोर्निषाद्यां चण्डालाज्जाते जात्यन्तरे नृणाम् ।सिंहस्तु नापिते प्राह चण्डाले प्राह शाश्वतः ॥ २३ ॥
7.23 · p. 95
अनुष्टुप्
अथासुतीवलः पुंसि विज्ञेयः सोमयाजिनि ।भेद्यलिङ्गस्तु विज्ञेयः कल्यापाले मनीषिभिः ॥ २४ ॥
7.24 · p. 95
अनुष्टुप्
अथाशितो येन भवेत् करणेनौदनादिना ।स्यादाशितम्भवं तत्र त्रिर्भावे त्वाशितस्य हि ॥ २५ ॥
7.25 · p. 95
अनुष्टुप्
अबाधितानां भावोक्तकृत + + + + + + (?) ।इदं चोदाहरच्छण्डं स्वशास्त्रे शाकटायनः ॥ २६ ॥
7.26 · p. 95
अनुष्टुप्metre not read in every line
वैजयन्त्यां तु पुंस्युक्तं तन्मूलं चिन्त्यतां बुधैः ।स्यादाग्रहायणी स्त्रीत्वे मृगशीर्षाख्यतारके ॥ २७ ॥
7.27 · p. 95
अनुष्टुप्
तद्युक्ते कालमात्रे च पौर्णमास्यामपि क्वचित् ।मार्गशीर्षीति यस्य स्यात् समाख्या भेद्यवत् पुनः ॥ २८ ॥
7.28 · p. 95
अनुष्टुप्
कालयोरेतयोर्जाते भवे चा + + + + + ।(आप)न्नसत्त्वा तु स्त्रीत्वे गर्भिण्यामथ स त्रिषु ॥ २९ ॥
7.29 · p. 95
metre not recognised
प्राप्तसत्त्वे विपन्नं च सत्त्वं यस्यास्ति तत्र च ।पुंस्याग्निमारुतोऽगस्त्यमुनौ त्रिषु तु देवता ॥ ३० ॥
7.30 · p. 95
अनुष्टुप्
यस्याग्नामरुतौ तत्र द्वे तु स्यादीश्वरप्रियः ।तित्तिर्याख्ये पक्षिभेदे त्रिषु त्वीश्वरवल्लभे ॥ ३१ ॥
7.31 · p. 96
अनुष्टुप्
अथोपकारिका स्त्रीत्वे राजावासेऽथ सा त्रिषु ।उपकारक इत्येष उपकर्तर्यथे द्रुमे ॥ ३२ ॥
7.32 · p. 96
अनुष्टुप्
उल्लेखनीयं कतकसंज्ञेऽथो भेद्यलिङ्गकम् ।उल्लेखितव्येऽथ ब्रह्मचारिभेदे नृलिङ्गकः ॥ ३३ ॥
7.33 · p. 96
अनुष्टुप्
उपकुर्वाण इत्येष त्रि तु स्यादुपकर्तरि ।स्यात् पुनर्हरिमन्थाख्यमुद्गजात्यन्तरे पुमान् ॥ ३४ ॥
7.34 · p. 96
अनुष्टुप्
ऊर्ध्वरूपक इत्येष यस्योर्ध्वं रूपमस्ति हि ।तत्र त्रिः परवल्लिङ्गं षष्ठीतत्पुरुषादिषु ॥ ३५ ॥
7.35 · p. 96
अनुष्टुप्
बलभद्रे कुबेरे चाप्येककुण्डल इत्ययम् ।पुंसि त्रिषु तु यस्यैकं कुण्डलं तत्र नप् पुनः ॥ ३६ ॥
7.36 · p. 96
अनुष्टुप्
औपरिष्टकमित्येतत् कामशास्त्रेषु विश्रुते ।क्रियाभेदे त्रिषु त्वेतदूर्ध्वजे प्राह सज्जनः ॥ ३७ ॥
7.37 · p. 96
अनुष्टुप्
कमलच्छदशब्दोऽयं कमलस्यच्छदे पुमान् ।द्वे कङ्काख्यखगेऽथो ना नारदे कलहप्रियः ॥ ३८ ॥
7.38 · p. 96
अनुष्टुप्
त्रिलिङ्गस्तु प्रियो यस्य कलहस्तत्र वस्तुनि ।स्यात् कण्टकिफलः पुंसि पनसे गोक्षुरेऽपि च ॥ ३९ ॥
7.39 · p. 96
अनुष्टुप्
त्रि तु स्यात् तत्र यस्यापि फलं कण्टकवद्भवेत् ।कलशोदक इत्येष पुमानम्लानसंज्ञिनः ॥ ४० ॥
7.40 · p. 96
अनुष्टुप्
स्तम्बस्य भेदे स्याच्छोणपुष्पे झाटाकृतावथ ।कलशस्थजले क्लीबमथ ना कर्णपूरणः ॥ ४१ ॥
7.41 · p. 96
अनुष्टुप्
मुस्तके क्ली तु कर्णस्य पूर्तौ पूरयतेः पुनः ।अर्थे न ना भवेत् कर्णपूरणाथो नृलिङ्गकः ॥ ४२ ॥
7.42 · p. 96
अनुष्टुप्
कृतवेधनशब्दोऽयं कोशातक्याह्वयस्य हि ।लताजातिप्रभेदस्य भेदे पृथुफले तथा ॥ ४३ ॥
7.43 · p. 97
अनुष्टुप्
अन्यस्मिन्नपि च स्वल्पफलभेदे त्रिषु त्वयम् ।कृतो यस्य व्यधग्तत्र येन वात्राप्यथ स्त्रियाम् ॥ ४४ ॥
7.44 · p. 97
अनुष्टुप्
स्यात् केशवानुजा दुर्गादेव्यां त्रिषु तु केशवः ।यस्यानुजस्तत्र ये तु कनिष्ठाः केशवस्य हि ॥ ४५ ॥
7.45 · p. 97
अनुष्टुप्
तत्र द्वयोरथ पुमान् केशवप्रिय इत्ययम् ।वेङ्कटाख्यगिरौ त्रिस्तु केशवो यस्य वल्लभः ॥ ४६ ॥
7.46 · p. 97
अनुष्टुप्
वल्लभे केशवस्यापि स्यात् तु द्वे गद्गदस्वरः ।महिषे त्रि तु यस्यास्ति तत्र स्याद्गद्गदः स्वरः ॥ ४७ ॥
7.47 · p. 97
अनुष्टुप्
गन्धमादनशब्दस्तु नृनपोः पर्वतान्तरे ।रामायणप्रसिद्धे च क्वचित् स्यात् कपिकुञ्जरे ॥ ४८ ॥
7.48 · p. 97
अनुष्टुप्
द्वयोस्तु गात्रसङ्कोची जाहकाख्येषु जन्तुषु ।गात्रं सङ्कोचयेद्यश्च तच्छीलस्तत्र स त्रिषु ॥ ४९ ॥
7.49 · p. 97
अनुष्टुप्
द्वयोस्तु गृहवलिभुग् वायसे चटकेऽपि च ।चन्द्रिकाप्रिय इत्येष चकोराख्यखगे द्वयोः ॥ ५० ॥
7.50 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 गृ (wrong syllable)
यस्येष्टा चन्द्रिका तत्र त्रिरथो चतुरङ्गुलः ।पुमानारम्वधे मानविशेषे शरसंज्ञके ॥ ५१ ॥
7.51 · p. 97
अनुष्टुप्
त्रिस्तु तद्वत्यथ स्त्री स्यात् पादपे जघनेफला ।काकोदुम्बरिकासंज्ञे पनसे तु पुमानथ ॥ ५२ ॥
7.52 · p. 97
अनुष्टुप्
पुनर्नवायां स्त्री जीवबोधनी नप्स्त्रियोः पुनः ।जीवस्य ज्ञापने जीवबोधनावगतौ पुनः ॥ ५३ ॥
7.53 · p. 97
अनुष्टुप्
क्लीबे यवनिकायां तु स्यात् तिरस्करिणी स्त्रियाम् ।क्ली छादनेऽथ ना दन्तधावनः खदिरद्रुमे ॥ ५४ ॥
7.54 · p. 97
अनुष्टुप्
अरिभेदे करञ्जे च क्ली तु दन्तस्य शोधने ।दन्तकाष्ठेऽप्यथो हस्तिवातिङ्गिन इति श्रुते ॥ ५५ ॥
7.55 · p. 98
अनुष्टुप्
वातिङ्गिनप्रभेदे स्यात् स्त्रीलिङ्गा दद्रुनाशनी ।दद्र्वास्तु नाशने दद्रुनाशना स्त्रीनपोरथ ॥ ५६ ॥
7.56 · p. 98
अनुष्टुप्
ना देहमर्दनो व्याधौ क्ली तु देहस्य मर्दने ।देवदुन्दुभिशब्दोऽयं पुल्लिँङ्गः स्यात् पुरन्दरे ॥ ५७ ॥
7.57 · p. 98
अनुष्टुप्
स्त्री तु तीक्ष्णार्जके कृष्णवचायां चाथ ना हरे ।नन्दिवर्धनशब्दोऽयं सोमवंशसमुद्भवे ॥ ५८ ॥
7.58 · p. 98
अनुष्टुप्
नृपभेदे पञ्चदश्यां (त्रि) तु हर्षस्य वर्धके ।वृद्धौ नन्देः क्ली (पुमांस्तु) मयूरे नर्तनप्रियः ॥ ५९ ॥
7.59 · p. 98
metre not recognised