All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · वनौषधिप्रकाण्डः (2/6)
वृष्या शान्ता क्षुद्रधात्री क्षुद्रजात्यथ चुक्रिका ।चिञ्च्वाम्लिका शाकचुक्रा चुक्राम्ला तिन्तिडी च सा ॥ १२१ ॥
1.11.121 · p. 262
अनुष्टुप्
चुक्रं षण् चुक्रिका चुक्रा शुक्ला च शुक्लिका स्त्रियः ।अम्लाऽम्लीका तिन्तिडी च तेंतिली तिन्तिलीति सा ॥ १२२ ॥
1.11.122 · p. 262
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
आम्रातकः पीतनकः कपिचूडः कपिप्रियः ।शृङ्गीफलो रसाढ्यश्च तनुक्षीरोऽथ गोक्षुरः ॥ १२३ ॥
1.11.123 · p. 262
अनुष्टुप्
नारङ्गो नागरङ्गोऽपि गन्धाढ्यो गन्धपत्रकः ।योगारङ्गो योगरङ्गो वरिष्ठश्च सुरङ्गकः ॥ १२४ ॥
1.11.124 · p. 262
अनुष्टुप्
ऐरावतः सुगन्धोऽथ वह्निदीप्तश्च रोचनः ।निन्दकश्चाम्लजम्बीरो वह्निबीजश्च शोधनः ॥ १२५ ॥
1.11.125 · p. 262
अनुष्टुप्
अम्लसारो दन्तघातो जन्तुमार्यथ तत्र तु ।अतिसूक्ष्मत्वचिफले महानिम्बूर्महाफला ॥ १२६ ॥
1.11.126 · p. 262
अनुष्टुप्
जम्बीरो जम्भलो जम्भी जम्भो दन्तशठो जतुः ।स्याद्गम्भीरोऽपि जम्भीरस्तद्वज्जम्बीर इत्यपि ॥ १२७ ॥
1.11.127 · p. 262
अनुष्टुप्
मुखशोधी रोचनको जाड्यारिर्मधुरोऽपरः ।मधुजम्भो रसद्रावी पित्तद्रावी विराभिधः ॥ १२८ ॥
1.11.128 · p. 262
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रो (wrong syllable)
चिरपाकी तु मालूरः कपित्थोऽपि दधित्थकः ।ग्राहिग्रन्थिगन्धकुचवृत्तेभ्यः कठिनादपि ॥ १२९ ॥
1.11.129 · p. 262
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्थि (wrong syllable)
फलार्थः स्याद्दन्तशठः कपीष्टः करभप्रियः ।मङ्गल्योऽपि स्त्रियां नीलमल्लिकाप्यथ तुम्बुरुः ॥ १३० ॥
1.11.130 · p. 263
अनुष्टुप्
वनजः सौरजः सौरः सानुजस्तीक्ष्णवल्कलः ।द्विजक्षीणफलस्तीक्ष्णपत्रोऽपि च महामुनिः ॥ १३१ ॥
1.11.131 · p. 263
अनुष्टुप्
सुगन्धिः स्यात्स्फुटफलो रुद्राक्षस्तु शिवप्रियः ।पावनोक्षश्च सर्पाक्षो नमेरुर्भूतनाशनः ॥ १३२ ॥
1.11.132 · p. 263
अनुष्टुप्
विल्वो द्वयोर्हृद्यगन्धः शाण्डिल्यः श्रीफलः पुनः ।शल्वः शलाटुः शैलूषः शैवपत्रः शिवेष्टकः ॥ १३३ ॥
1.11.133 · p. 263
अनुष्टुप्
कर्कटाह्वो गन्धपत्रः पत्रश्रेष्ठस्त्रिपत्रकः ।दुरारोहो गन्धफलस्त्रिशिखश्च शिवद्रुमः ॥ १३४ ॥
1.11.134 · p. 263
अनुष्टुप्
त्रिशाखपत्रोऽपि सदाफलः सत्यफलश्च सः ।तूदस्तूलो ब्रह्मकाष्ठं ब्राह्मणेष्टश्च यापकः ॥ १३५ ॥
1.11.135 · p. 263
अनुष्टुप्
सोः पुष्परूपो नीलद्रुरथ सिञ्चन्तिका स्त्रियाम् ।सल्लकी शल्लकी सल्ली सुगन्धा सुरभिस्रवा ॥ १३६ ॥
1.11.136 · p. 263
अनुष्टुप्
शल्लकी ह्रादिनी ह्रादा ह्लादिनी सुरभी रसा ।गजभक्षा मुखामोदा सुश्रीका जलतिक्तिका ॥ १३७ ॥
1.11.137 · p. 263
अनुष्टुप्
ह्रस्वादङ्कुरका चस्रफला छिन्नरुहा च सा ।अपि गन्धफला चाथ कतकोम्बुप्रसादनः ॥ १३८ ॥
1.11.138 · p. 263
अनुष्टुप्
रुच्यस्तिक्तफलो गुच्छाफलः कतफलश्च सः ।छेदनीयोऽथ कर्काह्वा क्षुद्रधात्री च कर्कटः ॥ १३९ ॥
1.11.139 · p. 264
अनुष्टुप्
मृगलण्डो गणेरुः स्यात्तोदनः क्रुन्दनोऽप्यथ ।श्लेष्मातको बाहुवारः पिच्छिलो द्विजकूपितः ॥ १४० ॥
1.11.140 · p. 264
अनुष्टुप्
शेलुः शीतफलः सेतुरुद्दालः कर्वुदारुकः ।भूतद्रुमो गन्धपुष्पः क्षुद्रश्लेष्मातकोऽपरः ॥ १४१ ॥
1.11.141 · p. 264
अनुष्टुप्
लघुशेलुः सूत्सफलो भूकर्चूरपि दारकः ।सुप्युको मोक्षकः सारवृक्षोऽपि च विषापहः ॥ १४२ ॥
1.11.142 · p. 264
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सू (wrong syllable)
पाटली वनवासी च जटालोऽपि सुतीक्ष्णकः ।मेहनो गोलिकोऽथ स्यात्करमर्दस्तु चीकलः ॥ १४३ ॥
1.11.143 · p. 264
अनुष्टुप्
कृष्णोऽविघ्नः कराम्लः स्यात्सुषेणो मुनिरित्यपि ।फलस्तीक्ष्णादि संयुक्तः फलान्तस्तबकादिकः ॥ १४४ ॥
1.11.144 · p. 264
अनुष्टुप्
कायस्था श्रेयसी दिव्या जीवन्यपि हरीतकी ।त्रिषु नामस्थानजातिभेदाद्गुणभिदः क्रमात् ॥ १४५ ॥
1.11.145 · p. 264
अनुष्टुप्
जीवन्ती विजया रोहिण्यमृता पूतनाऽभया ।रसा तद्वच्छेतकिनीत्येषा सप्तविधा मता ॥ १४६ ॥
1.11.146 · p. 264
अनुष्टुप्
जीवन्ती स्वर्णवर्णा सा सर्वदेशसमुद्भवा ।गुणे सार्वपथीनाथ विजया लघुवृत्तका ॥ १४७ ॥
1.11.147 · p. 265
अनुष्टुप्
सा विन्ध्याद्रिसमुद्भूता सर्वदोषविनाशिनी ।तृतीया रोहिणी वृत्ता प्रातिष्ठानी क्षते हिता ॥ १४८ ॥
1.11.148 · p. 265
अनुष्टुप्
अमृता मांसला स्थूला चम्पोत्था सा विरेचनी ।पञ्चमी पूतना स्वल्पत्वचा सिन्धुसमुद्भवा ॥ १४९ ॥
1.11.149 · p. 265
अनुष्टुप्
लेपे हिताथाभया तु नेत्ररोगविनाशिनी ।सौराष्ट्री पञ्चकोणाथ पुनः श्वेतकिनी च सा ॥ १५० ॥
1.11.150 · p. 265
अनुष्टुप्
अम्ला हिमाद्रिसंभूता सर्वरोगविनाशिनी ।यावद्धस्ते कृता तावद्विरेचनकरी नृणाम् ॥ १५१ ॥
1.11.151 · p. 265
अनुष्टुप्
विभीतकस्तैलफलो भूतावासः कलिद्रुमः ।संवर्तकश्च वासन्ती विषघ्नोऽपि विभीदकः ॥ १५२ ॥
1.11.152 · p. 265
अनुष्टुप्
वहेडुको हार्यफलः पुनः कर्षफलश्च सः ।निम्बः प्रभद्रः कीरेष्टोऽरिष्टोऽरिष्टफलोऽपि च ॥ १५३ ॥
1.11.153 · p. 265
अनुष्टुप्
पिचुमन्दः पारिभद्रो नेता काकफलश्च सः ।यवनेष्टः पीतसारः सर्वतोभद्र इत्यपि ॥ १५४ ॥
1.11.154 · p. 265
अनुष्टुप्
वरतिक्तः पिचुमर्दः शीतो ज्येष्ठामलः पुनः ।छर्दनो हिङ्गुनिर्यासो महानिम्बस्तु कार्मुकः ॥ १५५ ॥
1.11.155 · p. 265
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 चु (wrong syllable)
मदोद्रेकः केशमुष्टिः काकाण्डोऽपि यमद्रुमः ।अपि स्याद्रम्यकक्षीरो महातिक्तोऽथ रामणः ॥ १५६ ॥
1.11.156 · p. 266
अनुष्टुप्
रमणो वकपर्यायनिम्बः कैडर्य इत्यपि ।गिरिनिम्बः शुक्रसारो भूनिम्बस्तु किरातकः ॥ १५७ ॥
1.11.157 · p. 266
अनुष्टुप्
कैरातोऽनार्यतिक्तः स्यात्तिक्तको रामसेनकः ।अकाण्डतिक्तो हैमः स्यादथ नेपालनिम्बकः ॥ १५८ ॥
1.11.158 · p. 266
अनुष्टुप्
तृणनिम्बो ज्वरान्तः स्यान्नाडीतिक्तोऽर्धतिक्तकः ।निद्रारिः संनिपातारिः कृष्णगर्भस्तु कट्फलः ॥ १५९ ॥
1.11.159 · p. 266
अनुष्टुप्
सोमवल्को रञ्जनकः स्त्री कुम्भी लघुकाश्मरी ।भद्रावती महाकुम्भी श्रीपर्णी कुमुदा च सा ॥ १६० ॥
1.11.160 · p. 266
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
भद्रोग्रगन्धा सैवान्याऽप्यग्निमन्थः पुमानयम् ।अरण्यकेतुस्तर्कारी कर्णिका विजया जया ॥ १६१ ॥
1.11.161 · p. 266
अनुष्टुप्
नादेय्यनन्तापि च सा वैजयन्त्यथ तत्र तु ।क्षुद्राग्निमन्थस्तपनस्त्र्यरणिर्गणिकारिका ॥ १६२ ॥
1.11.162 · p. 266
अनुष्टुप्
तेजोबृक्षस्तनुत्वक् स्यात् स्योनाकस्तु कटंभरः ।मयूरजङ्गः कट्वङ्गः शुकनासः कुटंनटः ॥ १६३ ॥
1.11.163 · p. 266
अनुष्टुप्
प्रियजीवोऽपि रलुकः कुनटस्तु विरोचनः ।भ्रमरेष्टो बर्हिजङ्घो वातारिः स्यान्मुनिद्रुमः ॥ १६४ ॥
1.11.164 · p. 266
अनुष्टुप्
मण्डूकः फल्गुवृन्ताको निःसारः पूतिपत्रकः ।पीतवृक्षो भूतिसारः टेटू वासन्तशोणकौ ॥ १६५ ॥
1.11.165 · p. 267
अनुष्टुप्
मण्डूकपर्णी पीताङ्गोऽप्यजशृङ्गी तु वार्त्तिका ।मेषशृङ्गी सर्पदंष्ट्रा कृष्णवृन्ता तु काश्मरी ॥ १६६ ॥
1.11.166 · p. 267
अनुष्टुप्
श्रीपर्णी सर्वतोभद्रा हीरा भद्रा च कट्फला ।भद्रपर्णी सीधुपर्णी कम्भारी कुमुदा पुनः ॥ १६७ ॥
1.11.167 · p. 267
अनुष्टुप्
काश्मरी कश्मरी च स्त्री कश्मर्यं पुंनपुंसकम् ।विदारिणी गोपभद्रा गम्भारी मधुपर्ण्यपि ॥ १६८ ॥
1.11.168 · p. 267
अनुष्टुप्
रोहिणी क्षीरिणी श्वेता बहुभद्रा च मेदिनी ।कृष्णस्थूलत्वचा गृष्टिः सुफला मधुमत्यपि ॥ १६९ ॥
1.11.169 · p. 267
अनुष्टुप्
स्यान्महाकुमुदा चाथ कुद्दालो युगपत्रकः ।श्लक्ष्णत्वक् मालुपत्रः स्यादम्बुराश्मान्तकेन्द्रकौ ॥ १७० ॥
1.11.170 · p. 267
अनुष्टुप्
कृतमालो राजतरुः प्रग्रहः कर्णिकारकः ।परिव्याधो व्याधिरिपुः सुफलोऽथ ज्वरान्तकः ॥ १७१ ॥
1.11.171 · p. 267
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
आरेचनो दीर्घफलः स्वर्णदः स्वर्णपुष्पकः ।आरग्वधो व्याधिघातो दद्रूकुष्ठहरश्च सः ॥ १७२ ॥
1.11.172 · p. 267
अनुष्टुप्
स्यादारगवधश्चापि शंपाकश्चतुरङ्गुलः ।संपाकोऽपि च शम्याका सुवर्णांशुः पुमान्स्त्रियाम् ॥ १७३ ॥
1.11.173 · p. 267
अनुष्टुप्
विषघ्नी नेत्ररोगघ्नी वृश्चिकाली विषाणिनी ।अलिपर्णी भूरिदुग्धा कलिका देवलाङ्गली ॥ १७४ ॥
1.11.174 · p. 268
अनुष्टुप्
सुरपुष्पा गमावर्त्ता दक्षिणावर्त्तकी पुनः ।सुवर्णदा युग्मफला करभी कर्कशा मशा ॥ १७५ ॥
1.11.175 · p. 268
अनुष्टुप्
क्षीरशृङ्ग्यथ कोटी स्त्री सैवोक्ता गिरिमल्लिका ।कुटजः कौटजो वत्सः कलिङ्गः शक्रपादपः ॥ १७६ ॥
1.11.176 · p. 268
अनुष्टुप्
अपि कोटी यवफलः संग्राही पाण्डुरद्रुमः ।प्रावृष्यो मल्लिकापुष्पो महागन्धः फलेऽस्य तु ॥ १७७ ॥
1.11.177 · p. 268
अनुष्टुप्
स्यात्स्त्रियामिन्द्रयवमस्त्री भद्रयवं पुनः ।कलिङ्गं च स्त्रियां क्लीबे कौटजं कुटजं च षण् ॥ १७८ ॥
1.11.178 · p. 268
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इन्द्राह्वः स्यादिन्द्रफलो वत्सकोऽथ शिरीषकः ।सुलोमशो बहुमृदुमधुवृत्तार्थतः सुमः ॥ १७९ ॥
1.11.179 · p. 268
अनुष्टुप्
भण्डिरश्चापि भण्ण्डीरो भण्डिलोऽपि च कथ्यते ।शुकेष्टो भण्डिकोऽपि स्याद्विषघ्नश्च कपीतनः ॥ १८० ॥
1.11.180 · p. 268
अनुष्टुप्
उद्दालकः श्यामलः स्यात्कलिङ्गः शङ्खिनीफलः ।रक्तमूलस्तु वदरः स्यादक्षो देवसर्षपः ॥ १८१ ॥
1.11.181 · p. 268
अनुष्टुप्
कुरराङ्घ्रिः सूक्ष्मदलः करञ्जस्तु करञ्जकः ।चिरबिल्वो नक्तमालः पूतीकः पूतिकश्च सः ॥ १८२ ॥
1.11.182 · p. 268
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 सू (wrong syllable)
पूतीकरञ्जः कलिकृत् पूतीकरज इत्यपि ।तथैव पूतिकरजोऽथान्यो घृतकरञ्जकः ॥ १८३ ॥
1.11.183 · p. 269
अनुष्टुप्
घृतपर्णः स्निग्धपर्णस्तपस्वी विषनाशनः ।महाकरञ्जः षड्ग्रन्थो हस्तिरोहण इत्यपि ॥ १८४ ॥
1.11.184 · p. 269
अनुष्टुप्
हस्ती करञ्जः शार्ङ्गेष्ठा विषघ्नी मदहस्तिनी ।अङ्गारवल्ली काकघ्नी मधुमत्ता वसादिनी ॥ १८५ ॥
1.11.185 · p. 269
अनुष्टुप्
कलाण्ड्यप्यथ गुच्छार्थात्करञ्जः पुष्प इत्यपि ।स्निग्धपत्रो नदी गुच्छी सा नन्दी दन्तधावनः ॥ १८६ ॥
1.11.186 · p. 269
अनुष्टुप्
अङ्कोल्लोऽङ्कोठको रेची गूढपत्रो निकोचकः ।गुप्तस्वेदः पीतसारो मदनो गूढमल्लिका ॥ १८७ ॥
1.11.187 · p. 269
अनुष्टुप्
पीतस्ताम्रफलो दीर्घकालः स्याल्लम्बकर्णकः ।गुणाढ्यः कोलको गन्धपुष्पो रावत इत्यथ ॥ १८८ ॥
1.11.188 · p. 269
अनुष्टुप्
नखवृक्षो नखालुः स्यान्नराह्वः शोकनाशनः ।अथ सर्जरसः सर्जः कलः कलयजोद्भवः ॥ १८९ ॥
1.11.189 · p. 269
अनुष्टुप्
वल्लीवृक्षो वीरपर्णः शालः स्यादजकर्णकः ।कषायो ललनो गन्धवृक्षो रालोऽथ वंशकः ॥ १९० ॥
1.11.190 · p. 269
अनुष्टुप्
सिद्धिदः सालनिर्यासो यक्षधूपोऽग्निवल्लभः ।दिव्यसारः सुरेष्टः स्याच्छूरोऽथ जरणद्रुमः ॥ १९१ ॥
1.11.191 · p. 269
अनुष्टुप्
दीर्घपर्णः कौशिकोऽपि वन्यः स्यादश्वकर्णकः ।सस्यसंवरणस्तार्क्ष्यप्रसवोऽप्यतलः पुनः ॥ १९२ ॥
1.11.192 · p. 270
अनुष्टुप्
तालो ध्वजद्रुमः पत्री दीर्घस्कन्धो दृढच्छदः ।तृणराजो मधुरसो मदाढ्यो दीर्घपादपः ॥ १९३ ॥
1.11.193 · p. 270
अनुष्टुप्
तरुराजो दीर्घपत्रो गुच्छपत्रश्चिरायुकः ।गजभक्षश्चासवदः श्रीतालस्तु मृदुच्छदः ॥ १९४ ॥
1.11.194 · p. 270
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 श्चा (wrong syllable)
मृदुतालो लेखदलो लेखार्हो याम्यसम्भवः ।स्याच्छिरालविशालाभ्यां पत्रोऽप्यथ बृहच्छदः ॥ १९५ ॥
1.11.195 · p. 270
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ले (wrong syllable)
हिन्तालः स्थूलतालः स्याद्वल्कपत्रो विभीषणः ।गर्भषावी नीलतालो द्विधाङ्घ्रिर्बहुकण्टकः ॥ १९६ ॥
1.11.196 · p. 270
अनुष्टुप्
स्थिरपत्रो द्विधा लेख्यः सितपत्रोऽम्लसारकः ।बृहत्तालोऽथ माडः स्याद्दीर्घो मद्यद्रुमश्च सः ॥ १९७ ॥
1.11.197 · p. 270
अनुष्टुप्
वितानको मोहकरस्तलोऽपि च मदोत्तरः ।तापिच्छस्तु तमालः स्यात्कालस्कन्धो महाबलः ॥ १९८ ॥
1.11.198 · p. 270
अनुष्टुप्
नीलध्वजः कृष्णतालः कदम्बो ललनाप्रियः ।स्यात्सीधुवृत्तयोः पुष्पः सुरभिः कर्णपूरकः ॥ १९९ ॥
1.11.199 · p. 270
अनुष्टुप्
कादम्बर्यो मदाढ्योऽथ पुलकी मृगवल्लभः ।मेघाङ्गनाप्रियो नीपोऽपि च धाराकदम्बकः ॥ २०० ॥
1.11.200 · p. 270
अनुष्टुप्
प्रावृष्यः प्रावृषेण्यः स्यादथ धूलीकदम्बकः ।बलभद्राभिधो भृङ्गप्रियः क्रमुकपुष्पकः ॥ २०१ ॥
1.11.201 · p. 271
अनुष्टुप्
स्याद्वसन्तपरागाभ्यां पुष्पः स्यादथ भूमिजः ।भूवल्लभो भूकदम्बो लघुपुष्पो व्रणापहः ॥ २०२ ॥
1.11.202 · p. 271
अनुष्टुप्
वृत्तपुष्पो विषघ्नोऽथ वानीरो जलवेतसः ।शाखालश्चाथ कुम्भीरः पर्पटद्रुमरोमशौ ॥ २०३ ॥
1.11.203 · p. 271
अनुष्टुप्
समालविटपी चाथ दीर्घपत्रस्तु वञ्जुलः ।वेतसो मञ्जरीनम्रो निचुलो गन्धपुष्पकः ॥ २०४ ॥
1.11.204 · p. 271
अनुष्टुप्
सुशोणः कलनश्चाथ धवस्तु मधुरत्वचः ।शुकवृक्षो दृढतरुः कषायो गौर इत्यथ ॥ २०५ ॥
1.11.205 · p. 271
अनुष्टुप्
धन्वनो रक्तकुसुमो धनुर्वृक्षो महानलः ।रुजापहः पिच्छलको रूक्षः स्वादुफलोऽप्यथ ॥ २०६ ॥
1.11.206 · p. 271
अनुष्टुप्
भूर्जो वल्कद्रुमो भूतध्रुक् सुचर्मापि चित्रलः ।भूर्यरक्षाबिन्दुमृदुपर्यायेभ्यच्छरो भुजः ॥ २०७ ॥
1.11.207 · p. 271
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 बि (wrong syllable)
तिनिशः स्यन्दनश्चक्री रथाङ्गः स्यन्दनद्रुमः ।अपि स्त्रीपुंसयोर्नेमिर्नेमी चापि स्त्रियामिमे ॥ २०८ ॥
1.11.208 · p. 271
अनुष्टुप्
भस्मगर्भो जलधरः शम्बरस्तु शिवप्रियः ।अर्जुनाह्वो नदीसर्जो वीरद्रुः ककुभोऽप्यथ ॥ २०९ ॥
1.11.209 · p. 271
अनुष्टुप्
हरिद्रुः पीतदारुः स्यात्सुपुष्पश्च सुराह्वयः ।पीतकोऽथ स्त्रियां दग्धा दग्धिका कर्कशच्छदा ॥ २१० ॥
1.11.210 · p. 272
अनुष्टुप्
स्थलेरुहा दग्धरुहा रोमशा भस्मरोहिणी ।सुदग्धिकाऽथ शाखोटः खरपत्रो गृहद्रुमः ॥ २११ ॥
1.11.211 · p. 272
अनुष्टुप्
घूकावासो भूतवृक्षः स्थिरसारोऽतिपत्रकः ।श्रेष्ठकाष्ठशाखपत्रो दीर्घपत्रोऽथ शिंशपा ॥ २१२ ॥
1.11.212 · p. 272
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ष्ठ (wrong syllable)
महाश्यामा कृष्णसारा तीक्ष्णसाराऽपि धूम्रिका ।कपिलाऽथ श्वेतपत्रा सितपर्यायशिंशपा ॥ २१३ ॥
1.11.213 · p. 272
अनुष्टुप्
स्मरिणी कपिलाक्षी च भस्मगर्भा कुशिंशपा ।अरुणस्तु महासर्जोऽशन आसनसौरिणौ ॥ २१४ ॥
1.11.214 · p. 272
अनुष्टुप्
प्रियको वृक्षबीजः स्यात्प्रियसालश्च नीलकः ।श्वेतवृक्षस्तु वरुणस्तिक्तशाकः कुमारकः ॥ २१५ ॥
1.11.215 · p. 272
अनुष्टुप्
साधुवृक्षः पवित्रस्तु गर्भदः सिद्धिदः पुनः ।कुठजीवश्चाथ पुनः करहाटः क्षुरः शरः ॥ २१६ ॥
1.11.216 · p. 272
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चा (wrong syllable)
स्यान्महाश्वेतयोः पिण्डीतकश्चाथ विषद्रुमः ।कारस्करश्च किंपाको विषतिन्दुः कुपाककः ॥ २१७ ॥
1.11.217 · p. 272
अनुष्टुप्
कालकूटो रम्यफलोऽथ स्त्रियां स्याद्विषान्तिका ।कटभी नालिका शौण्डी पाटली गिरिकर्णिका ॥ २१८ ॥
1.11.218 · p. 272
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
शिरीषपत्रा किणीही कालिन्दी विषपादिका ।महाश्वेताऽथ क्षवकः क्षतकः क्रूर इत्यपि ॥ २१९ ॥
1.11.219 · p. 273
अनुष्टुप्
तीक्ष्णो भूताङ्कुशो राजोद्वेजनो भूतनाशनः ।लकुचो लिकुचः सालः काषायी दृढवल्कलः ॥ २२० ॥
1.11.220 · p. 273
अनुष्टुप्
स्थूलस्कन्धो डहुडुहू लकुचोऽथ विकङ्कतः ।स्याद्व्याघ्रकण्टयोः पादो ग्रन्थिलः स्वादुकण्टकः ॥ २२१ ॥
1.11.221 · p. 273
अनुष्टुप्
गोपघण्टो बहुफलः स्रुचावृक्षः स्रुवद्रुमः ।वैकङ्कतः कण्टकारी वैकतो ग्रन्थिलः समाः ॥ २२२ ॥
1.11.222 · p. 273
अनुष्टुप्
स्यात् पिण्डरोहणः पूतः किंकिणीरवकस्तु सः ।हयपर्यायवैर्यर्थः कटवीरो हरप्रियः ॥ २२३ ॥
1.11.223 · p. 273
अनुष्टुप्
प्रतिहासः श्वेतकुन्दगौरीभ्यः पुष्प इत्यपि ।स्यात्स्निग्धदिव्ययोस्तद्वद्रोधकस्तत्र रक्तके ॥ २२४ ॥
1.11.224 · p. 273
अनुष्टुप्
गणेशचण्डीकुसुमो भूतमारी रविप्रियः ।क्रूरोऽथ पीतप्रसवो गन्धपुष्पोऽथ कृष्णके ॥ २२५ ॥
1.11.225 · p. 273
अनुष्टुप्
कृष्णपुष्पोऽथ धत्तूर उन्मत्तः कितवः शठः ।धुस्तुरोऽपि च धूस्तूरो धुत्तुरो धूत्तुरश्च सः ॥ २२६ ॥
1.11.226 · p. 273
अनुष्टुप्
धूर्तः स्वर्णाभिधानोऽपि मादनः शिवशेखरः ।कृष्णपुष्पः शिवस्निग्धः सचिवो विषनाशनः ॥ २२७ ॥
1.11.227 · p. 274
अनुष्टुप्
खर्जूघ्नः कालहा पुष्पः खरकण्टफलोऽपि सः ।मोहनो मातुलः श्यामः शैवः कलभमत्तकौ ॥ २२८ ॥
1.11.228 · p. 274
अनुष्टुप्
क्रूरोऽथ राजधत्तूरो राजस्वर्णो महाशिवः ।भ्रान्तो निःश्रेणिकापुष्पस्तत्फले मातुलात्मजः ॥ २२९ ॥
1.11.229 · p. 274
अनुष्टुप्
स्यादस्त्रियामथ पुनः करकस्तु युगच्छदः ।स्यान्महापीतकान्तेभ्यः पुष्पोऽपि कनकान्तकः ॥ २३० ॥
1.11.230 · p. 274
अनुष्टुप्
कोविदारः काञ्चनारः कुद्दालोऽथार्कसंज्ञकः ।क्षीरच्छदः क्षीरकाण्डः खर्जूघ्नः शिवपुष्पकः ॥ २३१ ॥
1.11.231 · p. 274
अनुष्टुप्
जृम्भणो विष्टरः क्षीरी प्रतापोऽपि विकीरणः ।आस्फोटकः सदापुष्पः फलः स्याच्छुकतूलयोः ॥ २३२ ॥
1.11.232 · p. 274
अनुष्टुप्
तत्र शुक्ले शूकरार्कः प्रतापो वृत्तमल्लिकः ।राजार्कस्तु सदापुष्पो वसुकोऽत्यर्क इत्यपि ॥ २३३ ॥
1.11.233 · p. 274
अनुष्टुप्
काष्ठीलोऽपि च मन्दारः श्वेते पृथ्वीक इत्यपि ।रुचूको रुचुकोऽपि स्याद्दीर्घपुष्पार्थकोऽप्यथ ॥ २३४ ॥
1.11.234 · p. 274
अनुष्टुप्
नमेरुः सुरपुन्नागः सुरेष्टः सुरपर्णिका ।सुरतुङ्गः पलाशस्तु किंशुको वक्रपुष्पकः ॥ २३५ ॥
1.11.235 · p. 275
अनुष्टुप्
स्यात्पर्णोपज्ञको वातपोथः पीतद्रुमोऽपि सः ।ब्रह्मवृक्षोऽथ तद्भेदे हस्तिकर्णः सुकण्टकी ॥ २३६ ॥
1.11.236 · p. 275
अनुष्टुप्
श्वेतस्कन्धः पारिभद्रः सपलाशो भवेद्द्विधा ।वल्लीवृक्षविभेदेन स्त्रियां किंशुलकेति च ॥ २३७ ॥
1.11.237 · p. 275
अनुष्टुप्
तद्वनेऽप्यथ पुंनागः पाटलो रक्तपुष्पकः ।पुरुषाह्वोऽपि तुङ्गोऽथ तिलकाह्वस्तु रेचकः ॥ २३८ ॥
1.11.238 · p. 275
अनुष्टुप्
वसन्तसुन्दरोऽरिष्टो बालभूषणमित्यपि ।मृतजीवस्थिरपुष्पो रुहः स्याच्छिन्नदग्धयोः ॥ २३९ ॥
1.11.239 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
तरुणीकटाक्षकामोऽथाप्यगस्त्यस्तु मुनिद्रुमः ।व्रणारिः शीघ्रपुष्पः स्याद्वक्रपुष्पः सुरप्रियः ॥ २४० ॥
1.11.240 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्