कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

Part 1

वन्दामहे भारति तं भवत्याः ।कृपाकटाक्षं करुणापरायाः ।यतो जगद्व्यस्तसमस्तवस्तु ।स्वहस्तविन्यस्तमिवावभाति ॥ १ ॥
1 · p. 1
उपजातिः
शब्दार्णवाजयामरवोपालितसिंहमेदिनीविश्वान् ।हारावलीहलायुधशाश्वतहैमत्रिकाण्डशेषांश्च ॥ २ ॥
2 · p. 1
गीतिः
प्रीत्यै विविच्य भिषजो विविधौषधनामसंदिहानस्य ।नानार्थौषधकोषो विरच्यते लिङ्गभेदेन ॥ ३ ॥
3 · p. 1
आर्या
त्रिष्विति पदं त्रिलिङ्ग्यां मिथुने तु पदं द्वयोरिदं बोध्यम् ।शेषे निषिद्धलिङ्गं त्वन्ताथादीनपूर्वकं भजतः ॥ ४ ॥
4 · p. 1
गीतिः
नानार्थः प्रथमान्तोऽत्र सर्वत्रादौ प्रकीर्तितः ।सप्तम्यन्ताभिधेयेषु वर्तमानः सुनिश्चितः ॥ ५ ॥
5 · p. 1
अनुष्टुप्
प्राङ् नानार्थान्न तल्लिङ्गं द्वयोर्द्विद्वेन चैकता ।शब्दावृत्तिर्न लिङ्गैक्ये सप्तमी न विशेषणे ॥ ६ ॥
6 · p. 1
अनुष्टुप्
लिङ्गं रूपादपि व्यक्तं लिपिभ्रान्तिछिदे क्वचित् ।स्त्रियां नपुंसके पुंसीत्याद्यैः पुनरिहोच्यते ॥ ७ ॥
7 · p. 1
अनुष्टुप्
एकद्वित्रिचतुःपञ्चषड्वर्णानुक्रमात्कृतः ।स्वरकाद्यादिकाद्यान्तवर्गैर्नानार्थसङ्ग्रहः ॥ ८ ॥
8 · p. 1
अनुष्टुप्