All kośas › Amarakośa
नामलिङ्गानुशासनम् Amarakośa
2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)
द्वितीयं काण्डम् · वनौषधिवर्गः (2/3)
उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः ॥ ७७ ॥मातुलो मदनश्चास्य फले मातुलपुत्रकः ।
2.4.121
अनुष्टुप्
मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ ।
2.4.126
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता ॥ ८२ ॥जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि ।
2.4.129
अनुष्टुप्
मूर्वा देवी मधुरसा मोरटा तेजनी स्रवा ॥ ८३ ॥मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ।
2.4.130
अनुष्टुप्
पाटाम्बष्टा विद्धकर्णी स्थापनी श्रेयसी रसा ॥ ८४ ॥एकाष्ठीला पापचेली प्राचीना वनतिक्तिका ।
2.4.131
अनुष्टुप्
आत्मगुप्ताजहाव्यण्डा कण्डुरा प्रावृषायणी ॥ ८६ ॥ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी ।
2.4.133
अनुष्टुप्
चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा ॥ ८७ ॥प्रत्यक्श्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि ।
2.4.134
अनुष्टुप्
हञ्जिका ब्राम्हणी पद्मा भर्गी ब्राह्मणयष्टिका ॥ ८९ ॥अङ्गारवल्ली बालेयशाकबर्बरवर्धकाः ।
2.4.136
अनुष्टुप्म्ह (ह्म?): ब्राम्हणी
मञ्जिष्टा विकसा जिङ्गी समङ्गा कालमेषिका ॥ ९० ॥मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ।
2.4.137
अनुष्टुप्
यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः ॥ ९१ ॥रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा ।
2.4.138
अनुष्टुप्
पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिवल्लिका ॥ ९२ ॥क्रोष्टुविन्ना सिंहपुच्छी कलशिर्धावनिर्गुहा ।
2.4.139
अनुष्टुप्
निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका ॥ ९३ ॥प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि ।
2.4.140
अनुष्टुप्
नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ॥ ९४ ॥रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी ।
2.4.141
अनुष्टुप्
अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका ॥ ९५ ॥कालमेषी कृष्णफली बाकुची पूतिफल्यपि ।
2.4.142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कृ (wrong syllable)
कृष्णोपकुल्या वैदेही मागधी चपला कणा ॥ ९६ ॥उषणा पिप्पली शौण्डी कोलाथ करिपिप्पली ।कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान् ॥ ९७ ॥
2.4.97
अनुष्टुप्metre not read in every line
गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ।विश्वा विषा प्रतिविषातिविषोपविषारुणा ॥ ९९ ॥शृङ्गी महौषधं चाथ क्षीरावी दुग्धिका समे ।
2.4.146
अनुष्टुप्
शतमूली बहुसुताभीरूरिन्दीवरी वरी ॥ १०० ॥ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी ।अहेरुरथ पीतद्रुकालीयकहरिद्रवः ॥ १०१ ॥दार्वी पचम्पचा दारुहरिद्रा पर्जनीत्यपि ।
2.4.147
अनुष्टुप्
शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वाशिका ।वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः ॥ १०३ ॥
2.4.103
अनुष्टुप्
शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः ।मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा ॥ १०५ ॥समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला ।तण्डुलश्च कृमिघ्नश्च विडङ्गं पुन्नपुंसकम् ॥ १०६ ॥
2.4.106
अनुष्टुप्
सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् ।त्रिभण्डी रोचनी श्यामापालिन्द्यौ तु सुषेणिका ॥ १०८ ॥काला मसूरविदलार्धचन्द्रा कालमेषिका ।
2.4.155
अनुष्टुप्
कदली वारणबुसा रम्भा मोचांशुमत्फला ।काष्ठीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि ॥ ११३ ॥
2.4.113
अनुष्टुप्
नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली ॥ ११४ ॥नकुलेष्टा भुजङ्गाक्षी छत्राकी सुवहा च सा ।
2.4.165
अनुष्टुप्
ताम्बूलवल्ली तम्बूली नागवल्ल्यप्यथ द्विजा ।हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ १२० ॥
2.4.120
अनुष्टुप्
एलावालुकमैलेयं सुगन्धि हरिवालुकम् ।वालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू ॥ १२१ ॥
2.4.121
अनुष्टुप्
शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा ।गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा ॥ १२३ ॥महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च ।
2.4.179
अनुष्टुप्
शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः ॥ १२६ ॥झटामलाज्झटा ताली शिवा तामलकीति च ।
2.4.184
अनुष्टुप्
प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः ॥ १२७ ॥कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी ।चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः ॥ १२८ ॥
2.4.128
अनुष्टुप्
मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः ।समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ १३३ ॥
2.4.133
अनुष्टुप्
कर्चूरको द्राविडकः काल्पको वेधमुख्यकः ।ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ १३५ ॥
2.4.135
अनुष्टुप्
स्याद्दक्षगन्धा छगलान्त्र्यावेगी वृद्धदारकः ।जुङ्गो ब्रम्ही तु मत्स्याक्षी वयस्था सोमवल्लरी ॥ १३७ ॥
2.4.137
अनुष्टुप्म्ह (ह्म?): ब्रम्ही
पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती ।
2.4.200
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 है (wrong syllable)
तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि ।
2.4.202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
किराततिक्तो भूनिम्बोऽनार्यतिक्तोऽथ सप्तला ।विमला सातला भूरिफेना चर्मकषेत्यपि ॥ १४३ ॥
2.4.143
अनुष्टुप्
वायसोली स्वादुरसा वयस्थाथ मकूलकः ।निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि ॥ १४४ ॥
2.4.144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वा (wrong syllable)
प्रपुन्नाडस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः ।पद्माट उरणाख्यश्च पलाण्डुस्तु सुकन्दकः ॥ १४७ ॥
2.4.147
अनुष्टुप्
शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः ।अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी ॥ १५२ ॥तस्यां कटम्भरा राजबला भद्रबलेत्यपि ।
2.4.224
अनुष्टुप्
जनी जतूका रजनी जतुकृच्चक्रवर्तिनी ॥ १५३ ॥संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि ।कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः ॥ १५४ ॥सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः ।
2.4.225
अनुष्टुप्
कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका ॥ १५७ ॥वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका ।सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता ॥ १५८ ॥गोलोमी शतवीर्या च गण्डाली शकुलाक्षका ।
2.4.230
अनुष्टुप्
नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम् ॥ १६२ ॥इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः ।
2.4.236
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पो (wrong syllable)
स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् ।अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १६४ ॥लामज्जकं लघुलयमवदाहेष्टकापथे ।
2.4.238
अनुष्टुप्