कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अष्ठी

aṣṭhīस्त्री · fem.

In 2 kośas: 1 synonym verse, 3 as a nānārtha head word.

वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.116 · p. 182
शाखास्थि नलकञ्जानोरष्ठी स्यात्कूर्परस्य च ।धमनी त्वीलिका नाली सिरा दोषप्रणालिका ॥ ११६ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.5 · p. 10
अप्वा नद्यां भये रागेऽप्यभ्वा तु व्योमतोययोः ।अश्रिस्तु कोट्यां धारायामष्ठी तु स्यात् फलास्थनि ॥ ५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.6 · p. 10
जानुकूर्परयोरस्थ्नोरन्दूस्तु गजशृङ्खले ।पादभूषणभेदे च स्यादास्था त्ववलम्बने ॥ ६ ॥
अनुष्टुप्
doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.1 · p. 220
अर्चा पूजाप्रतिमयोरर्तिश्चापाग्रपीडयोः ।अन्दूस्तु शृंखला पादभूषाप्यष्ठी फलास्थ्यपि ॥ १ ॥
अनुष्टुप्