All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
द्व्यक्षरकाण्डः · स्त्रीलिङ्गाध्यायः (1/2)
इत्येकाक्षरकाण्डे नानालिङ्गाध्यायः ।
एकाक्षरकाण्डः समाप्तः ।
अथ द्व्यक्षरकाण्डः ।
अथ स्त्रियां भवान्याः स्युः सर्वाः संज्ञाः क्षुमाह्वये ।धान्ये रात्रेर्हरिद्रायां भूमेर्मृत्स्नाख्यभेषजे ॥ १ ॥
2.1.1 · p. 10
अनुष्टुप्
मातुस्तु गवि पेषण्यां पार्वत्यां चाथ योषितः ।प्रियङ्गुवृक्षेऽथाम्बा स्याज्ज्येष्ठस्वसरि मातरि ॥ २ ॥
2.1.2 · p. 10
अनुष्टुप्
वाचां मध्यमिकानां स्यात् सप्तानामेकवाचि च ।अर्चा पूजाप्रतिमयोरत्ताश्वश्र्वां च मातरि ॥ ३ ॥
2.1.3 · p. 10
अनुष्टुप्
नाट्योक्तविषये ज्येष्ठभगिन्यामिति केचन ।नाट्योक्तावेव वृद्धायां वेश्यायामिति सज्जनः ॥ ४ ॥
2.1.4 · p. 10
अनुष्टुप्
अप्वा नद्यां भये रागेऽप्यभ्वा तु व्योमतोययोः ।अश्रिस्तु कोट्यां धारायामष्ठी तु स्यात् फलास्थनि ॥ ५ ॥
2.1.5 · p. 10
अनुष्टुप्
जानुकूर्परयोरस्थ्नोरन्दूस्तु गजशृङ्खले ।पादभूषणभेदे च स्यादास्था त्ववलम्बने ॥ ६ ॥
2.1.6 · p. 10
अनुष्टुप्
प्रतिज्ञायत्नतात्पर्यगोष्ठीषु स्यादथापरे ।आह्वा कण्ठे कथायां चेत्याहुराह्वा तु नामनि ॥ ७ ॥
2.1.7 · p. 10
अनुष्टुप्
कण्ठे चेत्यपरेऽथाजिरुत्कृष्टा लिङ्गभेदतः ।आप्तिः प्रत्ययितत्वे स्याल्लाभसम्बन्धयोरपि ॥ ८ ॥
2.1.8 · p. 10
अनुष्टुप्
आलिमर्थत्रये विद्यात् सेतौ सख्यां तथैव च ।आवलावप्यथालूः स्याद् योनिव्याधौ वनस्पतौ ॥ ९ ॥
2.1.9 · p. 10
अनुष्टुप्
टिट्टिभाख्यखगे चावृत् पुनर्यागादिकर्मणाम् ।कल्पे च परिपाट्यां च साम्नो गायत्त्रसंज्ञिनः ॥ १० ॥
2.1.10 · p. 10
अनुष्टुप्
द्वितीयपादगीत्यां च तृतीयार्चिकपर्वणोः ।आवृत्तावपि चाथाशीर्हिताशंसाहिदंष्ट्रयोः ॥ ११ ॥
2.1.11 · p. 10
अनुष्टुप्
अपीच्छायामिरा तु स्यात् सुरायां सलिले दिवि ।दैत्यान्ने न क्षितौ वाचि स्यादिला तु गवि क्षितौ ॥ १२ ॥
2.1.12 · p. 11
अनुष्टुप्
दिवि वाच्यार्घ्यनाड्योश्च देवताबुधभार्ययोः ।इज्या तु यागे पूजायां जनन्यामपि सज्जनः ॥ १३ ॥
2.1.13 · p. 11
अनुष्टुप्
इष्टिर्यागेच्छयोरीषा रथसीरादिदण्डके ।प्रमाणभेदे भगवानष्टाशीतिशताङ्गुले ॥ १४ ॥
2.1.14 · p. 11
अनुष्टुप्
इहा तु वाञ्छोद्यमयोरीतिर्डिम्बप्रवासयोः ।उमा कीर्त्यामतस्यां च गिरिजायां श्रियामपि ॥ १५ ॥
2.1.15 · p. 11
अनुष्टुप्
ऊतिस्तु रक्षणे स्यूतौ चेत्येके तत्तु नो तथा ।वयं तु ब्रूम ऊशब्दकथितैकोनविंशतौ ॥ १६ ॥
2.1.16 · p. 11
अनुष्टुप्
अर्थेषु स्यात् तथा स्यूतौ चेत्यथो ऋद्धिरोषधौ ।ऋद्धिरित्येव विख्याता या वृद्धिरिति चापरा ॥ १७ ॥
2.1.17 · p. 11
अनुष्टुप्
तस्यामपि विभूतौ च कक्ष्या साम्यवरत्रयोः ।कच्छाख्यगुह्यवस्त्रे च काञ्च्यां गेहप्रकोष्ठके ॥ १८ ॥
2.1.18 · p. 11
अनुष्टुप्
पार्श्वाद्यङ्गसमुद्भूतरोगभेदेऽङ्गुलावपि ।कथाख्यानाह्वयग्रन्थविशेषे कथनेऽपि च ॥ १९ ॥
2.1.19 · p. 11
अनुष्टुप्
कन्था ग्रामे च भित्तौ च बहुचीरकृताम्बरे ।कन्या तु षष्ठराशौ स्यात् प्रियङ्ग्वाख्यमहीरुहे ॥ २० ॥
2.1.20 · p. 11
अनुष्टुप्
कुमार्यां शारिबायां च तरणीसंज्ञगुल्मके ।कर्मी हाटकपुत्र्यां स्यादपि शालापलालयोः ॥ २१ ॥
2.1.21 · p. 11
अनुष्टुप्
कम्बूस्तु कुरुविन्दे स्याद् भूषणे च त्सरावपि ।ककुबुष्णिग्विशेषे स्याद् भूभृतः शिखरे दिशि ॥ २२ ॥
2.1.22 · p. 11
अनुष्टुप्
वाचि चैकान्नपञ्चाशद्रात्रे सत्रे तु भूमनि ।कान्तिः शोभेच्छयोः काञ्ची मेखलापुरभेदयोः ॥ २३ ॥
2.1.23 · p. 11
अनुष्टुप्
क्षिया क्षये तथाचारातिक्रमेऽथ क्षितिर्भुवि ।मनुष्ये क्षयणे गेहे वासकर्मण्यथो किखिः ॥ २४ ॥
2.1.24 · p. 12
अनुष्टुप्
कालगोत्रविशेषेऽपि क्रोष्टुजात्यन्तरेऽल्पके ।क्रीडा नर्मणि लीलायामपि क्रेणिस्तु विक्रये ॥ २५ ॥
2.1.25 · p. 12
अनुष्टुप्
परिग्रहे च क्षेत्रादेः फलभोगाय तन्वते ।दत्त्वा किञ्चित् कियन्तञ्चित् कालं कोटिस्तु वक्ष्यते ॥ २६ ॥
2.1.26 · p. 12
अनुष्टुप्
चापाग्रे चाग्रमात्रेऽश्रौ प्रकर्षे शकले तथा ।सङ्ख्याविशेषे लक्षाणां शते क्षोणी पुनर्भुवि ॥ २७ ॥
2.1.27 · p. 12
अनुष्टुप्
मौञ्ज्यां च मेखलायां स्यात् क्षोणी इति तु रोदसोः ।खट्वा पर्यङ्क आचार्यासने त्वन्ये वदन्ति ताम् ॥ २८ ॥
2.1.28 · p. 12
अनुष्टुप्
आयुर्वेदप्रसिद्धे च व्रणबन्धनयन्त्रके ।खर्जूर्विद्युति कण्ड्वां च गतिर्नाडीव्रणे पथि ॥ २९ ॥
2.1.29 · p. 12
अनुष्टुप्
उपाये च दशायां च यिशब्दे सामगीतिगे ।गन्तव्ये पुण्यपापाभ्यां प्रस्थाने शरणेऽपि च ॥ ३० ॥
2.1.30 · p. 12
अनुष्टुप्
प्राद्यूर्यादिप्रभृतिषु क्रियायुक्तेषु चेष्यते ।गाथा तु वाण्यामार्यायां पिङ्गलानुक्तनामसु ॥ ३१ ॥
2.1.31 · p. 12
अनुष्टुप्
वृत्तेष्वनुष्टुबाद्येषु यानि वृत्तानि पञ्चसु ।पादैश्चतुर्भिः षड्भिर्वा तेष्वप्यृषिकृतेष्वसौ ॥ ३२ ॥
2.1.32 · p. 12
अनुष्टुप्
गुप्तिः क्षितिव्युदासे स्यात् कारायां गोपनेऽपि च ।गृष्टिः सकृत्प्रसूतायां गवि काष्मर्यपादपे ॥ ३३ ॥
2.1.33 · p. 12
अनुष्टुप्
विष्वक्सेनप्रियासंज्ञस्थावरे चाप्यथो घृणा ।जुगुप्सायां दयायां च चारिस्तु मुखसंभवे ॥ ३४ ॥
2.1.34 · p. 12
अनुष्टुप्
रोगभेदे पशूनां च लक्षणीयेऽथ मूर्धनि ।चूडा शिखावलभ्योश्च चूलिस्तु धनुषोऽटनौ ॥ ३५ ॥
2.1.35 · p. 12
अनुष्टुप्
पिटके चेति विद्वांसः केचिदाचक्षतेतमाम् ।छविश्चर्मणि शोभायां दीप्तौ यज्वद्विजन्मनाम् ॥ ३६ ॥
2.1.36 · p. 13
अनुष्टुप्
वेद्यामास्तरणे चाथच्छायानातपशोभयोः ।सूर्यपत्न्यन्तरे गेहे स्यात् पङ्क्तिप्रतिबिम्बयोः ॥ ३७ ॥
2.1.37 · p. 13
अनुष्टुप्
जातिः समूहे मालत्यां सामान्ये जन्मगोत्रयोः ।ब्राह्मणादिषु वर्णेषु वेदार्थे सर्वजन्तुषु ॥ ३८ ॥
2.1.38 · p. 13
अनुष्टुप्
स्वभावे प्रभवे छन्दोभेदेष्वार्यादिकेष्वपि ।ज्यानिस्तु हानौ बुद्धौ च रोगे जिह्वा तु वाचि च ॥ ३९ ॥
2.1.39 · p. 13
अनुष्टुप्
ज्वालायां रसने चाथ मञ्जिष्ठासंज्ञभेषजे ।जिङ्गी दीर्घफलायां च कोशातक्यामथो जुहूः ॥ ४० ॥
2.1.40 · p. 13
अनुष्टुप्
स्रुग्विशेषे पुरोडाशेऽप्यथ ज्योत्स्ना शशिद्युतौ ।ज्योतिष्मद्रजनौ चाथ झिल्ली चीर्याख्यकीटके ॥ ४१ ॥
2.1.41 · p. 13
अनुष्टुप्
अपि दग्धौदनेऽथ स्यात् तन्द्रा निद्राप्रमीलयोः ।तन्द्रिस्तु सुप्तावालस्ये तन्त्रीर्वीणादिनो गुणे ॥ ४२ ॥
2.1.42 · p. 13
अनुष्टुप्
रज्जौ सिरायामालस्ये गुडूच्यामिति पञ्चसु ।तण्डूर्द्रोणिप्लवे दर्व्यां ताडिराभरणान्तरे ॥ ४३ ॥
2.1.43 · p. 13
अनुष्टुप्
तरुभेदेऽप्यथ तुला सादृश्योन्मानदण्डयोः ।स्तम्भपीठे पलशते तथा राशौ च सप्तमे ॥ ४४ ॥
2.1.44 · p. 13
अनुष्टुप्
तुण्डीरास्ये शूननाभौ त्रुटिः संशयलेशयोः ।सूक्ष्मैलायामर्धमात्राकालेऽपीत्यपरेऽपठन् ॥ ४५ ॥
2.1.45 · p. 13
अनुष्टुप्
तूलिः शय्यान्तरे चित्रकूर्चिकायां च सा पुनः ।इच्छापिपासयोस्तृष्णा तृप्तिस्तु सुखतोययोः ॥ ४६ ॥
2.1.46 · p. 13
अनुष्टुप्
सौहित्ये चाप्यथ त्रेता गार्हपत्यादिकत्रये ।द्वितीये च युगेऽथ स्याद् दीक्षा यजनपूजयोः ॥ ४७ ॥
2.1.47 · p. 14
अनुष्टुप्
व्रतादेशे च नियमे मौण्ड्ये चोपनयेऽपि च ।दृष्टिशब्दोऽक्ष्णि बुद्धौ च ज्ञाने दर्शे दृषत् पुनः ॥ ४८ ॥
2.1.48 · p. 14
अनुष्टुप्
पेषण्यामश्ममात्रे च दृग्भूस्तु तरुसर्पयोः ।बिले च द्रोहकजनैः कृतेऽथो नीलिकाह्वये ॥ ४९ ॥
2.1.49 · p. 14
अनुष्टुप्
दोला स्यादोषधिस्तम्बे प्रेङ्खे चाथोत्तमस्त्रियाम् ।धनूर्धनुर्गुणे चान्ये धनुष्यपि पठन्ति ताम् ॥ ५० ॥
2.1.50 · p. 14
अनुष्टुप्
धारा प्रवाहे नद्यादेः सैन्याग्रे द्रवसन्ततौ ।वाचि शस्त्रमुखेऽश्वानां गतिष्वास्कन्दितादिषु ॥ ५१ ॥
2.1.51 · p. 14
अनुष्टुप्
धाना भ्रष्टयवे चापि फलवीजे च भूरुहाम् ।ध्राजिः पिटकजातौ स्याद् वात्यायामपि केचन ॥ ५२ ॥
2.1.52 · p. 14
अनुष्टुप्
धीता बुद्धौ सुतायां च कन्यायामिति कश्चन ।धीतिः स्यादङ्गुलौ पानेऽप्याधारे च व्यवस्थितौ ॥ ५३ ॥
2.1.53 · p. 14
अनुष्टुप्
धृतिर्धारणसन्तोषधैर्यशौर्येषु सौख्यके ।द्वासप्तत्यक्षरच्छन्दोविशेषे पिङ्गलोऽन्वशात् ॥ ५४ ॥
2.1.54 · p. 14
अनुष्टुप्
नानाशब्दस्तु भारत्यां जनन्यां दुहितर्यपि ।नासा तु नासिकायां स्याद् गृहद्वारोर्ध्वदारुणि ॥ ५५ ॥
2.1.55 · p. 14
अनुष्टुप्
नाडिस्त्वर्धमुहूर्ते स्यान्नालव्रणविशेषयोः ।सच्छिद्रदीर्घद्रव्ये च सिरायां चेति पञ्चसु ॥ ५६ ॥
2.1.56 · p. 14
अनुष्टुप्
नालिर्नाडीव्रणे नाले धमन्यर्धमुहूर्तयोः ।आयते सुषिरद्रव्ये तेष्वेवार्थेषु पञ्चसु ॥ ५७ ॥
2.1.57 · p. 14
अनुष्टुप्
नान्दिः कल्याणवृद्धौ स्यान्नाट्यारम्भार्चनान्तरे ।निष्ठोत्कर्षेऽप्यवस्थायां नाशेऽन्ते व्रतयाच्ञयोः ॥ ५८ ॥
2.1.58 · p. 14
अनुष्टुप्
स्यान्निर्वहणनिष्पत्त्योः परमायां गतौ तथा ।क्लेशे च क्तक्तवत्वोश्चेत्यर्थेषु द्वादशस्बसौ ॥ ५९ ॥
2.1.59 · p. 15
अनुष्टुप्
निशा रात्रौ हरिद्रायां निन्दा कुत्सापवादयोः ।निधा निधाने पाश्यायां पाश्या पाशकदम्बकम् ॥ ६० ॥
2.1.60 · p. 15
अनुष्टुप्
नीवी स्यात् कवचे वस्त्रे वणिङ्मूलधने तथा ।स्त्रीकटीवसनग्रन्थौ नृभुः प्रतिकृतौ प्लवे ॥ ६१ ॥
2.1.61 · p. 15
अनुष्टुप्
कश्चिद्दीर्घक्रिमावाह नेमिस्तु तिमिशद्रुमे ।चक्रप्रान्ते भित्तिमूले कूपे तन्मुखबन्धने ॥ ६२ ॥
2.1.62 · p. 15
अनुष्टुप्
पीनाहसंज्ञ इत्येके परिच्छेदेऽपि कश्चन ।वज्रेऽप्याह समाम्नायः प्रभा त्वर्चिषि भासि च ॥ ६३ ॥
2.1.63 · p. 15
अनुष्टुप्
सूर्यपत्नीविशेषेऽथ प्रजा सूनौ जनेऽप्यथ ।पल्लिः कुटीरेऽल्पग्राम आश्रमे व्याधमन्दिरे ॥ ६४ ॥
2.1.64 · p. 15
अनुष्टुप्
प्राणिभेदे च मुसलीसंज्ञेऽथो पङ्क्तिरावलौ ।चत्वारिंशत्स्वराद्येषु छन्दोभेदेषु सा तथा ॥ ६५ ॥
2.1.65 · p. 15
अनुष्टुप्
एकत्वे दशसङ्ख्यायां तत्सङ्ख्येषु च वस्तुषु ।दशकस्य यदा द्वित्वत्रित्वे तत्तद्वचस्तदा ॥ ६६ ॥
2.1.66 · p. 15
अनुष्टुप्
पक्तिस्तु गौरवे पाकेऽथाश्वायां मातरि प्रसूः ।पारिः सृणिगुणे घण्ट्यां पालिश्चिह्नाश्रिपङ्क्तिषु ॥ ६७ ॥
2.1.67 · p. 15
अनुष्टुप्
सेतौ कर्णलतायां च प्रदेशे च त्सरुच्छदे ।जातश्मश्रुस्त्रियां क्षेत्रे वप्रेऽथ प्राप्तिवागियम् ॥ ६८ ॥
2.1.68 · p. 15
अनुष्टुप्
उदयेऽधिगमे चाथ पादुं केचित् प्रचक्षते ।पादुकोपानहोः स्यादित्येवं शब्दविशारदाः ॥ ६९ ॥
2.1.69 · p. 15
अनुष्टुप्
पीडा कृपाशिरोमालाव्यथासु प्रीतिवाक् पुनः ।प्रेम्णि हर्षेऽप्यथ प्रेक्षा प्रज्ञायां नृत्तदर्शने ॥ ७० ॥
2.1.70 · p. 16
अनुष्टुप्
पोला तु परिखायां च कवाटस्य च बन्धने ।तालसंज्ञेऽथ पोटा स्यात् स्त्रीपुंसाङ्कनपुंसके ॥ ७१ ॥
2.1.71 · p. 16
अनुष्टुप्
स्त्रियां च राज्यपालिन्यां दास्यां चाथ बलिध्वनिः ।योनौ वायौ च भस्त्रा तु वह्निध्मानदृतावपि ॥ ७२ ॥
2.1.72 · p. 16
अनुष्टुप्
भेदे सप्तदशस्तोमविच्युतेरिषुधावपि ।भक्तिर्भागे सेव्यमाने लक्षणायां च सेवने ॥ ७३ ॥
2.1.73 · p. 16
अनुष्टुप्
भङ्गिर्भङ्गेऽप्याकृतौ च विच्छित्तौ चाथ भाषणे ।भाषा लौकिकवाक्ये चाभियोगवचने गिरि ॥ ७४ ॥
2.1.74 · p. 16
अनुष्टुप्
भिक्षा तु भिक्षितद्रव्ये देयान्ने ग्रासमात्रके ।भृतियाचनसेवासु भित्तिं त्वजय आमनत् ॥ ७५ ॥
2.1.75 · p. 16
अनुष्टुप्
कुड्यप्रदेशयोः स्यात् तु भूमिः क्ष्मास्थानमात्रयोः ।भूतिर्भस्मनि सम्पत्तावुत्पत्तौ भरुटेऽपि च ॥ ७६ ॥
2.1.76 · p. 16
अनुष्टुप्
भृतिस्तु धारणे पोषे भृतकादेश्च वेतने ।मतिर्बुद्धीच्छयोर्माठिस्तरुपत्रसिरास्वपि ॥ ७७ ॥
2.1.77 · p. 16
अनुष्टुप्
कवचे चाथ मारिः स्यान्मसूरीसंज्ञके गदे ।सर्वलोकतते मृत्यौ तथा स्याद्देवतान्तरे ॥ ७८ ॥
2.1.78 · p. 16
अनुष्टुप्
अथो मिसिः स्यान्मिश्रेयासमाख्ये भेषजान्तरे ।शतपुष्पासमाख्ये च वर्तते भेषजान्तरे ॥ ७९ ॥
2.1.79 · p. 16
अनुष्टुप्
मुक्तिः स्वर्गेऽपवर्गे च मूर्तिः काठिन्यकाययोः ।काकप्रतिमयोश्चाथ सङ्कल्पे वाचि मेनिवाक् ॥ ८० ॥
2.1.80 · p. 16
अनुष्टुप्
यात्रा तु वर्तने गत्यामथ याच्ञानुवर्तने ।प्रार्थनेऽप्यथ युक्तिः स्यादुपपत्तौ च योजने ॥ ८१ ॥
2.1.81 · p. 17
अनुष्टुप्
समाधावथ रक्षा स्याल्लाक्षारक्षणभस्मसु ।रतिः कन्दर्पभार्यायां सुरतोत्कण्ठयोरपि ॥ ८२ ॥
2.1.82 · p. 17
अनुष्टुप्
रागेऽपि परमप्रीतौ रज्जुस्तु स्याद्वराटके ।अष्टहस्तप्रमाणे च रास्ना तु सुवहाह्वये ॥ ८३ ॥
2.1.83 · p. 17
अनुष्टुप्
भेषजे चापि धेनौ च राठा सुह्मेषु नीवृति ।शोभायां चाथ राजिः स्यात् क्षेत्रेऽधो रसनस्य च ॥ ८४ ॥
2.1.84 · p. 17
अनुष्टुप्
पङ्क्तौ च राजसर्पे च लेखायां च करादिषु ।रीतिर्दग्धसुवर्णादिमले स्थित्यारकूटयोः ॥ ८५ ॥
2.1.85 · p. 17
अनुष्टुप्
प्रचारे स्रवणे पङ्क्तौ स्वभावेऽन्ये तु पित्तले ।रुजा भङ्गजरामृत्युरोगेष्वथ रुचिः श्रियाम् ॥ ८६ ॥
2.1.86 · p. 17
अनुष्टुप्
अभिष्वङ्गेऽभिलाषेंऽसौ दीप्तौ स्याद्देवतान्तरे ।शोभायां तिन्त्रिणीकायाः फले वृक्षाम्लसंज्ञके ॥ ८७ ॥
2.1.87 · p. 17
अनुष्टुप्
रेखा तु कृत्रिमे मार्गे हस्तपादतलादिषु ।निरन्तरालपङ्क्तौ च वदन्ति विदितागमाः ॥ ८८ ॥
2.1.88 · p. 17
अनुष्टुप्
रेटिर्वह्नेश्च रटिते संयतोत्कटवाचि च ।तिन्त्रिटीके स्पृहायां च तथा कान्त्यर्चिषोरपि ॥ ८९ ॥
2.1.89 · p. 17
अनुष्टुप्
लता तु वल्ल्यां शाखायां प्रियङ्गुस्पृक्कयोरपि ।लताबृहत्यामपि च ज्योतिष्मत्यतिमुक्तयोः ॥ ९० ॥
2.1.90 · p. 17
अनुष्टुप्
शारिबायामपि प्राह कश्चित् तन्न विरोचते ।लङ्का तु तरुशाखायां रावणस्य च पत्तने ॥ ९१ ॥
2.1.91 · p. 17
अनुष्टुप्
लक्ष्मीः श्रीभूतिशोभासु वृद्धिसंज्ञे च भेषजे ।ऋद्धिसंज्ञे च कस्याञ्चिद् विष्णोर्नवसु शक्तिषु ॥ ९२ ॥
2.1.92 · p. 17
अनुष्टुप्
लवङ्गे चाथ लीला स्याद् विलासक्रीडयोरपि ।लूता पिपीलिकायां स्यादूर्णनाभेऽप्यथो वपा ॥ ९३ ॥
2.1.93 · p. 18
अनुष्टुप्
रन्ध्रे मेदसि च व्रज्या वर्गे पर्यटने गतौ ।वलिर्जठररेखायां जराप्रशिथिलत्वचि ॥ ९४ ॥
2.1.94 · p. 18
अनुष्टुप्
ऊर्मौ च गृहदारौ च वधूः स्त्रीमात्रभार्ययोः ।नवोढयोषास्नुषयोः भार्यायां पूर्वजस्य च ॥ ९५ ॥
2.1.95 · p. 18
अनुष्टुप्
स्पृक्कानद्योश्च विद्या तु शास्त्रविज्ञानयोरपि ।शैवागमप्रसिद्धेषु तत्त्वभेदेषु केषुचित् ॥ ९६ ॥
2.1.96 · p. 18
अनुष्टुप्
मन्त्रेषु चाप्यथासत्यां विहगे च विहाध्वनिम् ।धनञ्जयो जगादाथ विद्युत् स्यात् क्षणरोचिषि ॥ ९७ ॥
2.1.97 · p. 18
अनुष्टुप्
मनः शिलायां वीथी तु गृहाङ्गे पङ्क्तिमार्गयोः ।रूपकाणां तथैकस्मिन् वीरुत् तु स्थावरान्तरे ॥ ९८ ॥
2.1.98 · p. 18
अनुष्टुप्
गुल्माख्येऽपि प्रतानिन्यां लतायां वृत्तिवाक् पुनः ।कृप्यादौ वर्तनेऽप्यारभट्यादिचतसृष्वपि ॥ ९९ ॥
2.1.99 · p. 18
अनुष्टुप्
शब्दोच्चारणधर्मेषु द्रुतमध्यादिषु त्रिषु ।ऋक्पादस्याप्युपान्तेऽप्यप्रतिबन्धप्रवर्तने ॥ १०० ॥
2.1.100 · p. 18
अनुष्टुप्
व्याख्याने ग्रन्थभेदे च सामगीतिगुणान्तरे ।सम्भक्तौ चापरे त्वाहुर्मरणेऽपि विचक्षणाः ॥ १०१ ॥
2.1.101 · p. 18
अनुष्टुप्
वृद्धिस्त्वादैक्षु वृद्धाख्यभेषजे वर्धने सुखे ।ऋणातिरिक्तदातव्ये प्रयोक्त्रे पुत्रजन्मनि ॥ १०२ ॥
2.1.102 · p. 18
अनुष्टुप्
मुष्कवृद्ध्यात्मके वध्मसंज्ञे रोगान्तरेऽपि च ।वेणिर्व्याधौ केशबन्धे जनन्यां च सरित्यपि ॥ १०३ ॥
2.1.103 · p. 18
अनुष्टुप्
शङ्का वितर्कभययोः शंसा तूक्तौ स्तुतावपि ।इच्छायां चाजयः प्राह तदसत् स्मर्यते यतः ॥ १०४ ॥
2.1.104 · p. 18
अनुष्टुप्
आङ्पूर्वस्यैव शब्दज्ञैः शंसेरिच्छार्थवाचिता ।श्रद्धा स्पृहायामास्तिक्ये मन्यन्ते तु विशेषतः ॥ १०५ ॥
2.1.105 · p. 19
अनुष्टुप्
गर्भिण्या अपि वाञ्छायां श्वश्रूः श्वशुरयोषिति ।पितृष्वसारं त्वस्यार्थं व्याचष्टे शाकटायनः ॥ १०६ ॥
2.1.106 · p. 19
अनुष्टुप्
शरत् संवत्सरे मेघात्यये शान्तिस्तु मङ्गले ।चिकित्सायां शमे चाथ शिंबिर्निष्पावनामनि ॥ १०७ ॥
2.1.107 · p. 19
अनुष्टुप्
वल्ल्यां शम्यां तथा शीर्णिस्त्वङ्गे विशरणे रुजि ।शुण्डा सलीलहस्तिन्यां मदिराहस्तिहस्तयोः ॥ १०८ ॥
2.1.108 · p. 19
अनुष्टुप्
श्रुतिस्तु वेदे श्रवणक्रियायां श्रोत्र एव च ।गीतिधर्मविशेषे च शब्दे चाप्यभिधायके ॥ १०९ ॥
2.1.109 · p. 19
अनुष्टुप्
श्रोणिः कट्यामुपस्थेऽथ संस्था स्यादाकृतौ मृतौ ।व्यवस्थायां समाप्तौ च प्रणिधावपि केचन ॥ ११० ॥
2.1.110 · p. 19
अनुष्टुप्
संज्ञाभिधाने सङ्केते हस्ताद्यैरर्थसूचने ।सूर्यभार्यान्तरे बुद्धौ चेतनायां च तत्र च ॥ १११ ॥
2.1.111 · p. 19
अनुष्टुप्
उपांशु यच्च क्रियते स्वेष्वनीकेषु विग्रहे ।सन्धावधौ प्रतिज्ञायां सन्ध्यासन्धानकर्मणोः ॥ ११२ ॥
2.1.112 · p. 19
अनुष्टुप्
स्वसृशब्दः समाम्नातो भगिन्यामङ्गुलावपि ।सरिन्नद्यां तथा छन्दोभेदे द्वासप्ततिस्वरे ॥ ११३ ॥
2.1.113 · p. 19
अनुष्टुप्
संयद्युद्धेऽग्निचित्यायां द्वादशस्विष्टकासु च ।संसत् सदसि सत्राख्यक्रतूनां त्वपि भूमनि ॥ ११४ ॥
2.1.114 · p. 19
अनुष्टुप्
चतुर्विंशतिरात्रे द्वे तयोः पूर्वत्र संसदः ।संविद्युद्धे प्रतिज्ञायां सङ्केताचारनामसु ॥ ११५ ॥
2.1.115 · p. 19
अनुष्टुप्
संभाषणे क्रियाकारे ज्ञानतोषणयोरपि ।संपद्भूतौ गुणोत्कर्षे स्वाहाग्नेय्यां च वाचि च ॥ ११६ ॥
2.1.116 · p. 19
अनुष्टुप्
अव्ययं तु हविर्दाने सातिर्दानावसानयोः ।वेदनायां च तीव्रायामथ स्थितिरिति ध्वनिः ॥ ११७ ॥
2.1.117 · p. 20
अनुष्टुप्
व्यवस्थायामवस्थायां क्रियायामपि तिष्ठतेः ।सिद्धिस्त्वृद्ध्याख्यवृद्ध्याख्यभेषजद्वितये गतौ ॥ ११८ ॥
2.1.118 · p. 20
अनुष्टुप्
संराद्धावथ सीता स्यात् पृथिव्यां हलपद्धतौ ।सस्ये हरितसस्येऽन्ये सस्यभूमावितीतरः ॥ ११९ ॥
2.1.119 · p. 20
अनुष्टुप्
सुमेरुशिरसः प्राग्दिग्गतगङ्गान्तरेऽपि च ।जानक्यामथ सीमा स्यादवधौ भूमिकूलयोः ॥ १२० ॥
2.1.120 · p. 20
अनुष्टुप्