कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जानु

jānuक्ली · neut.

In 16 kośas: 18 synonym verses, 1 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.353 · p. 26
ऊरुसंधिर्वङ्क्षणः स्यात्सक्थ्यूरुस्तस्य पर्व तु ॥ ६१३ ॥जानुर्नलकीलोऽष्ठीवान्पश्चाद्भागोऽस्य मन्दिरः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 की (wrong syllable)
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.515 · p. 59
जानुः स्यादष्ठीवान् प्रसृता जङ्घा च घुण्टको गुल्फः ।ऊरुः सक्थि पिचण्डं जठरोदरतुन्दकुक्षिगर्भाः स्युः ॥ ५१५ ॥
गीतिः
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.153 · p. 213
टङ्के नलकिनी टङ्गो अष्ठीवज्जानु चास्त्रियौ ।नलकीलश्चोरुपर्व पश्चाद्भागोऽस्य मन्दिरः ॥ १५३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.49 · p. 258
किणौ कक्षाधरेऽथाधोमन्दिरे समुदीरिते ।पृष्ठभागे मन्दिरयोरुक्ते जानु-कपालिके ॥ ४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.50 · p. 113
श्राद्धो[232b]त्सेध-कबन्ध-सौध-मधु चान्धं चायुधं चौषधंमौनं मानविमानयानपुलिनापीनोदपानासनम् ।उद्यानं नलिनं खलीनखलिनस्थानाभिधानौदन-ब्रह्मप्रेमसमानजानुनिधनप्रस्फोटनं पक्ष्म च ॥ ५० ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंक्लीm. n.
एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः ।एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥
metre not recognised
genderक्लीneut.
पुंसो योगः पुंयोगः तस्मिन् कर्णहनू भवतः । यथा अयं कर्णः श्रोत्रं कुन्तीपुत्रश्च । हनुः कपोलप्रदेशः । श्मश्रुजानुगुदशब्दाः नपुंसके भवन्ति । इदं श्मश्रु मुखैकदेशरोमराजिः । इदं जानु जङ्घामध्यस्थानम् । इदं गुदमपानम् । अभिधीयतेऽनेनेत्यभिधानं एकं च तदभिधानं च तस्य भावः एकाभिधानता स्यात् भवेदित्यर्थः । अस्राश्रुणोर्नित्यं नपुंसकता भवति । इदमस्त्रम् । इदमश्रु । नयनजलमिति । एक एवार्थः नित्यवचनं पूर्ववत् ।घुसकिरुपसर्गपूर्वः पुंस्यन्योपपदे वेषुपूर्वः स्त्री ।येभ्यो नञ्तान्पुंस्युक्तान्याञ्चा विना विद्धि ॥ २२ ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 103 · p. 51
कटिर्नितम्बं श्रोणी च जघनं जानु जह्नु च ।चलनं चरणं पादं क्रमोऽंह्रिश्च पदं विदुः ॥ १०३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.271 · p. 134
वङ्क्षणस्तूरुसन्धिः स्यात्सक्थ्यूरुस्तस्य पर्वणि ।नलकीलस्तथा जानु पश्चाद्भागोऽस्य मन्दिरः ॥ २७१ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.164 · p. 231
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.141 · p. 43
जङ्घा च गुल्फोपरिभागे स्यादिति समीरिता ।जङ्घोरुसन्धिभागे स्यादूरुपर्व च जानु च ॥ १४१ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.95 · p. 7
नीविकावसनं ग्रन्थिर्जङ्घा जानुः प्रसारिणी ।घुटिका चरणग्रन्थिः गुल्फः प्रार्ष्णिः प्रपार्श्विका ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.43 · p. 24
जानूरुपर्व चाष्ठीवत्प्रतिजङ्घा तु पिण्डिका ।पादः पदोंऽह्रिश्चरणश्चलनः क्रमणः क्रमः ॥ ४३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.990 · p. 152
अष्ठीवान्नलकीलश्च जानुर्नाम त्रयं भवेत् ।पश्चाद्भागोऽस्य मन्दिरः कपोली त्वग्रिमः पुनः ॥ ९९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न्दि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.269 · p. 100
टङ्का टङ्कञ्च प्रसृता स्याज्जङ्घा टङ्किकापि च ।द्वेऽष्ठीवान् अस्त्रियामेव क्लीबे जानूरुपर्वणि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1062 · p. 132
अग्रे स्यात् प्रपदं गुल्फौ तद्ग्रन्थी घुटिके तयोः ।अधः पार्ष्णिः पुमान् जङ्घा प्रसृता जानु न द्वयोः ॥ १०६२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.7 · p. 272
यकृत्कुहकसिध्मानि तीरं कशिपु जानु च ।धामार्द्धसारमित्राण्यङ्गदलन्यायबन्धुषु ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.59 · p. 177
नलतीरं तूरुपर्व जानुरष्ठीवदस्त्रियौ ।सक्थि क्लीबं पुमान्वोरुरूरुमूलानि वंक्षणाः ॥ ५९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.477 · p. 83
आलस्ये चेतसो जानुस्त्वस्त्री द्वात्रिंशदङ्गुले ।मानभेदेऽप्यूरुजङ्घासन्धौ चाप्यथ जालिवाक् ॥ ४७७ ॥
अनुष्टुप्

जानु as a meaning in nānārtha verses

  • धरणिकोश कूर्परकूर्परौ जानुकफणी तित्तिरौ मुनिपक्षिणौ । जम्बीरौ जन्तुपर्णासौ महेन्द्राविन्द्रपर्वतौ ॥ Dharaṇikośa 26.1.17
  • कोषकल्पतरु कूर्परस्यात्कूर्परो जानुनि वा कफोणौ स्यात्खर्परस्तस्करधूर्तवाची । कपालके भैक्षकभाजने च मीनान्तरे गर्गरमामनन्ति ॥ २० ॥ Koṣakalpataru 6.27.20
  • नानार्थार्णवसंक्षेप अष्ठीजानुकूर्परयोरस्थ्नोरन्दूस्तु गजशृङ्खले । पादभूषणभेदे च स्यादास्था त्ववलम्बने ॥ ६ ॥ Nānārthārṇavasaṃkṣepa 2.1.6
  • शब्दरत्नावली कूर्परकान्तारी नेक्षुभेदेऽस्त्री बिलदुर्गाधकानने । किशोरोऽश्वशावके स्यात्तरुणावस्थसूर्ययोः ॥ किर्मीरः कर्वुरे नागरङ्गे च कौणपान्तरे । किंशारुः शस्यशूके ना कङ्कपक्षिणि सायके ॥ कुहरः सर्पभेदेनो क्लीबं गह्वररन्ध्रयोः । कुक्कुरं ग्रन्थिपर्णे स्यात्सारमेये भवेत्पुमान् ॥ कर्पूरः कफोणौ पुंसि जानुन्यपि निगद्यते । कुञ्जरो ना कटे नागे धातक्यां पाटले स्त्रियाम् ॥ Śabdaratnāvalī 7.27.63