कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

पातालकाण्डः · भूताध्यायः (1/2)

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां पातालकाण्डे पुराध्यायः

भूतानि प्राणिनो जीवा जन्तवो जन्यवोऽङ्गिनः ।पुंसः प्राक् त्रिषु गुल्माद्यमुद्भिदुद्भिज्जमुद्भिदम् ॥ १ ॥
4.4.1 · p. 173
अनुष्टुप्
स्वेदजा दंशयूकाद्या नृपश्वाद्या जरायुजाः ।अण्डजाः पक्षिसर्पाद्याः पुमांस्तु पुरुषो वृषः ॥ २ ॥
4.4.2 · p. 173
अनुष्टुप्
पूरुषो नाप्यथ क्लीबः पण्डः षण्डो नपुंसकम् ।तृतीयाप्रकृतिश्चाथ पोटा स्त्रीपुंसलक्षणा ॥ ३ ॥
4.4.3 · p. 173
अनुष्टुप्
स्त्री योषिल्ललना योषा वशा सीमन्तिनी वधूः ।वनिता महिला नारी तद्भेदास्तु नितंबिनी ॥ ४ ॥
4.4.4 · p. 173
अनुष्टुप्
सुन्दरी रमणी रामा वेणिनी चान्वितार्थकाः ।कुमारी कन्यका कन्या किंचित्प्रौढा महोदया ॥ ६ ॥
4.4.6 · p. 173
अनुष्टुप्
अचिरव्यूढा तु वधूः पतिंवरा तु स्वयं वरा वर्या ।कुलपालिका कुलस्त्री कुल्याथ सती पतिव्रता साध्वी ॥ ७ ॥
4.4.7 · p. 173
गीतिः
स्त्रीव्यञ्जनकृता श्यामा चीरिणी तु सुवासिनी ।प्राप्तर्तुर्दिक्करी राका युवतिस्तलुनी चरी ॥ ८ ॥
4.4.8 · p. 173
अनुष्टुप्
वधूटी च चिरंटी च द्वितीयवयसि स्त्रियाम् ।स्वैरिणी धर्षिणी पुंश्चल्यसती कुलटेत्वरी ॥ ९ ॥
4.4.9 · p. 173
अनुष्टुप्
बन्धकी पांसुला चर्चा चला नग्ना तु कोट्टवी ।भिक्षुकी श्रमणी मुण्डा तीव्रकोपा तु भामिनी ॥ १० ॥
4.4.10 · p. 173
अनुष्टुप्
विप्रश्निका त्वीक्षणिका दैवज्ञा प्रश्नवादिनी ।कामुकेच्छुः कामुकी तु वृषस्यन्ती रतार्थिनी ॥ ११ ॥
4.4.11 · p. 173
अनुष्टुप्
वरारोहोत्तमा नारी सैव स्यान्मत्तकाशिनी ।कामात् कान्तं याति यासावविनीताभिसारिका ॥ १२ ॥
4.4.12 · p. 174
अनुष्टुप्
अध्यूढा चाधिविन्ना च कृता यस्याः सपत्निका ।वीरपत्नी वीरभार्या वीरमाता तु वीरसूः ॥ १३ ॥
4.4.13 · p. 174
अनुष्टुप्
पतिवत्नी जीवपतिर्विश्वस्ता विधवाथ सा ।कात्यायनी द्वितीयं चेद्वयः काषायमंबरम् ॥ १४ ॥
4.4.14 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जी (wrong syllable)
उदक्या मलवद्वासा आत्रेयी पुष्पवत्यापि ।रजस्वला च मलिना स्त्रीधर्मिण्यृतुमत्यपि ॥ १५ ॥
4.4.15 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
ऋतुः पुंस्यार्तवं रक्तं पुष्पं चाथानृतुर्वधूः ।निष्कलापन्नसत्त्वा तु स्त्र्यन्तर्वत्नी च गर्भिणी ॥ १६ ॥
4.4.16 · p. 174
अनुष्टुप्
अद्यश्वीना तु सा या स्यादद्य श्वः प्रसवोन्मुखी ।विजाता तु प्रजाता च प्रसूता च प्रसूतिका ॥ १७ ॥
4.4.17 · p. 174
अनुष्टुप्
जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः ।गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम् ॥ १८ ॥
4.4.18 · p. 174
अनुष्टुप्
बालस्य नाभिनालायाममरा कालिनीति च ।सूतिमासो वैजननो जीवतोका तु जीवसूः ॥ १९ ॥
4.4.19 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
बिन्दुर्नश्यत्प्रसूतिः स्यादशिश्वी शिशुवर्जिता ।अवीरा निष्पतिसुता किमिला बहुसूतिका ॥ २० ॥
4.4.20 · p. 174
अनुष्टुप्
कुडुम्बिनी तु गृहिणी पुरन्ध्री मातृकेति च ।वृद्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती ॥ २१ ॥
4.4.21 · p. 174
अनुष्टुप्
उपाध्यायान्युपाध्यायी शूद्र्यर्यी क्षत्रियीति च ।आचार्यानी च पुंयोगादार्यार्याण्यौ तु जातितः ॥ २२ ॥
4.4.22 · p. 174
अनुष्टुप्
क्षत्रिया क्षत्रियाणी च शूद्रा चेत्यपि जातितः ।स्यादुपाध्याय्युपाध्यायाप्याचार्या च स्वयंकृता ॥ २३ ॥
4.4.23 · p. 174
अनुष्टुप्
पण्यस्त्री गणिका वेश्या वारस्त्री रूपजीवना ।वारमुख्या सत्कृतासौ दूती संचारिणी समे ॥ २४ ॥
4.4.24 · p. 175
अनुष्टुप्
कुट्टिनी शंफली चुन्दी वयस्याली सखी सुहृत् ।सैरन्ध्री परवेश्मस्था स्वतन्त्रा शिल्पकारिणी ॥ २५ ॥
4.4.25 · p. 175
अनुष्टुप्
सा ज्येष्ठांबाप्यवन्ती च कनिष्ठा कन्यसांबिका ।ननान्दा तु स्वसा पत्युः ननन्दा नन्दिनीति च ॥ २७ ॥
4.4.27 · p. 175
अनुष्टुप्
पत्न्यास्तु भगिनी ज्येष्ठा ज्येष्ठश्वश्रूः कुलीति च ।कनिष्ठा स्यालिका हाली पत्रिणी केलिकुंचिका ॥ २८ ॥
4.4.28 · p. 175
अनुष्टुप्
बीजी तु जनको वप्ता तातो जनयिता पिता ।पितामहः पितृपिता तत्पिता प्रपितामहः ॥ २९ ॥
4.4.29 · p. 175
अनुष्टुप्
मातुर्मातामहाद्येवं तदूर्ध्वं वृद्धपूर्वकाः ।दंपत्योर्व्यत्ययान्माता श्वश्रूः स्यात् श्वशुरः पिता ॥ ३० ॥
4.4.30 · p. 175
अनुष्टुप्
सहजः स्वसरो भ्राता कनिष्ठोऽवरजोऽनुजः ।पूर्वजस्त्वग्रजो ज्येष्ठः पितृव्याः सहजाः पितुः ॥ ३१ ॥
4.4.31 · p. 175
अनुष्टुप्
ज्येष्ठतातः पितृज्येष्ठः क्षुल्लतातोऽनुजः पितुः ।स्यालः स्यादनुजः पत्न्याः तस्याः स्यादबलोऽग्रजः ॥ ३२ ॥
4.4.32 · p. 175
अनुष्टुप्
देवरो देवृदेवानौ मातुर्भ्राता तु मातुलः ।दंपत्योरार्जिकोऽन्योन्यो वैमात्रेयो विमातृजः ॥ ३३ ॥
4.4.33 · p. 175
अनुष्टुप्
समानोदर्यसोदर्यौ सगर्भः सोदरः समाः ।भार्या जाया सहचरी द्वितीया सहधर्मिणी ॥ ३४ ॥
4.4.34 · p. 175
अनुष्टुप्
सधर्मचारिणी पाणिगृहीती पालुषी वधूः ।पत्नी क्षेत्रं कलत्रं च गृहाः पुंभूम्नि दारवत् ॥ ३५ ॥
4.4.35 · p. 175
अनुष्टुप्
जाया प्रजावती भ्रातुर्ज्येष्ठभ्रातुः प्रिया वधूः ।स्नुषा वधूर्जनी सूनोर्मातुलानी तु मातुली ॥ ३६ ॥
4.4.36 · p. 176
अनुष्टुप्
भ्रातृवर्गस्य या भार्या यातरस्ताः परस्परम् ।रुच्यः प्रियः पतिर्भर्ता सेक्ता वरयिता धवः ॥ ३७ ॥
4.4.37 · p. 176
अनुष्टुप्
पतिर्ननान्दुः कौतूलो नशिको भगिनीपतिः ।जारस्तु स्यादुपपतिर्जामाता दुहितुः पतिः ॥ ३८ ॥
4.4.38 · p. 176
अनुष्टुप्
वेश्यापतौ षिद्गकुंभभुजङ्गविटपल्लवाः ।पुत्रस्तु तनयः सूनुरात्मजो नन्दनोंऽगजः ॥ ३९ ॥
4.4.39 · p. 176
अनुष्टुप्
सुतः पोतश्च पुंगर्भे नरो दुहितरि स्त्रियः ।द्वयोश्च गर्भसन्तानौ प्रसवश्च नरः सदा ॥ ४० ॥
4.4.40 · p. 176
अनुष्टुप्
तोकापत्ये नपुं स्त्री तु प्रसूतिः सन्ततिः प्रजा ।जामेयभागिनेयौ तु स्वस्रीयोऽथ पितृष्वुसुः ॥ ४१ ॥
4.4.41 · p. 176
अनुष्टुप्
पुत्रे पैतृष्वसेयश्च पितृष्वस्रीय इत्यपि ।एवं मातृष्वसुश्च द्वौ भ्रात्रीयो भ्रातुरात्मजः ॥ ४२ ॥
4.4.42 · p. 176
अनुष्टुप्
सौभागिनेयकानीनौ सुभगाकन्ययोः सुतौ ।दास्या दासेयदासेरौ पौंश्चलेयोऽसतीसुते ॥ ४३ ॥
4.4.43 · p. 176
अनुष्टुप्
बन्धुलबान्धकिनेयौ च कौलटेयश्च कौलटेरश्च ।साध्वी तु भिक्षुकी चेत् कौलटिनेयश्च कौलटेयश्च ॥ ४४ ॥
4.4.44 · p. 176
गीतिः
पौनर्भवः पुनर्भूज उरस्यस्त्वौरसः स्वजः ।नप्तारौ पौत्रदौहित्रौ प्रतिनप्ता प्रपौत्रकः ॥ ४५ ॥
4.4.45 · p. 176
अनुष्टुप्
परंपरस्तु तत्पुत्रस्तत्पुत्रोऽपि परंपरः ।अयं पल्ययनोऽपि स्यात् कल्पनस्तु तदात्मजः ॥ ४६ ॥
4.4.46 · p. 176
अनुष्टुप्
सहप्रवाच्यौ भगिनीभ्रातरौ भ्रातराविति ।मातापितरौ पितरौ मातरपितराविति प्रसूतातौ ॥ ४७ ॥
4.4.47 · p. 176
अनुष्टुप्metre not read in every line
श्वश्रूश्वशुरौ श्वशुराविति पुत्राविति सुतापुत्रौ ।जायापती तु मिथुने जंपती दंपती इति ॥ ४८ ॥
4.4.48 · p. 177
अनुष्टुप्metre not read in every line
पितरस्तु पितुर्वंश्या मातुर्मातामहाः कुले ।अन्ववायोऽन्वयो वंशः सन्तानो जननं कुलम् ॥ ४९ ॥
4.4.49 · p. 177
अनुष्टुप्
राजबीजी राजवंश्यो बीज्यो वंश्यश्च वंशजः ।स्युर्ज्ञातयः सगोत्राश्च सपिण्डास्तु सनाभयः ॥ ५० ॥
4.4.50 · p. 177
अनुष्टुप्
स्वजनो बांधवो बन्धुः कुटुंबन्तु सुतादिकम् ।परिवारः परिजनः परिस्पन्दः परिग्रहः ॥ ५१ ॥
4.4.51 · p. 177
अनुष्टुप्
देहोऽस्त्री स्त्री तनुर्गात्रं क्षेत्रमङ्गं कलेबरम् ।चतुश्शाखं संहननं शरीरं करणं सिनम् ॥ ५२ ॥
4.4.52 · p. 177
अनुष्टुप्
बन्धः प्रजानुकः कायो भूघनः संचरोऽपि च ।प्राया वयांस्यस्य दशास्तारुण्यं यौवनं वयः ॥ ५३ ॥
4.4.53 · p. 177
अनुष्टुप्
ज्यानिर्जीर्णिः स्थाविरं तु पात् स्त्री विस्रंसजा जरा ।शिशुत्वं शैशवं बाल्यं सामुद्रं देहलक्षणम् ॥ ५४ ॥
4.4.54 · p. 177
अनुष्टुप्
गात्राण्यङ्गानि चास्यांशाः प्रतीकापघनावपि ।अंशस्त्ववयवो भाग एकदेशः कलेति च ॥ ५५ ॥
4.4.55 · p. 177
अनुष्टुप्
भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके ।अस्त्री चरणमंघ्रिर्ना पत् पादः क्रमणं पदम् ॥ ५६ ॥
4.4.56 · p. 177
अनुष्टुप्
तद्ग्रन्थी घुटिकौ गुल्फौ प्रपदं चरणाग्रकम् ।गुल्फशीर्षस्त्विन्द्रवस्तिः कूर्चस्त्वंगुष्ठकान्तरम् ॥ ५७ ॥
4.4.57 · p. 177
अनुष्टुप्
पादांगुष्ठांगुलीमध्ये क्षिप्रं क्षेपणमस्त्रियाम् ।प्रसृता जाघनी जंघा पिण्डिका स्यात् पिचिण्डिका ॥ ५८ ॥
4.4.58 · p. 177
अनुष्टुप्
नलतीरं तूरुपर्व जानुरष्ठीवदस्त्रियौ ।सक्थि क्लीबं पुमान्वोरुरूरुमूलानि वंक्षणाः ॥ ५९ ॥
4.4.59 · p. 177
अनुष्टुप्
अंकस्तूपस्थ उत्संगः पीठीवं त्वण्डमूलकम् ।पायुस्तु ना गुदापाने त्रिवलीकं बुलिश्च्युतिः ॥ ६० ॥
4.4.60 · p. 178
अनुष्टुप्
शंकुर्मेढ्रः शेफकोशौ शिश्नं मेहनशेफसी ।पुषो भगं कामपदमक्ली योनिश्च्युतिर्बुलिः ॥ ६१ ॥
4.4.61 · p. 178
अनुष्टुप्
उक्तद्वयमुपस्थोऽस्त्री गुह्यप्रजनने नपुम् ।सीवन्यस्मादधः सूत्रं गुह्यमध्यं गुडो मणिः ॥ ६२ ॥
4.4.62 · p. 178
अनुष्टुप्
धारका गुह्यधारायां पुंफिका गुह्यजे मले ।अस्त्रियो मुष्ककोशाण्डाः फेलुको वृषणोऽण्डुकः ॥ ६३ ॥
4.4.63 · p. 178
अनुष्टुप्
कांचीपदं कलत्रं च कटिः श्रोणिः ककुद्मती ।पुरोभागोऽस्य जघनो नितंबोऽपरभागकः ॥ ६४ ॥
4.4.64 · p. 178
अनुष्टुप्
ऊखौ पुंसि कटिप्रोथौ पूलकौ च स्फिचौ स्त्रियौ ।कुकुंदरे कटीकूपौ कटौ तु कटिशीर्षकौ ॥ ६५ ॥
4.4.65 · p. 178
अनुष्टुप्
वंशस्तु पृष्ठमध्यास्थि(मूलभागोऽस्य तु त्रिकम् ) ।मूत्राशयो वस्तिरक्ली नाभिर्नाभी प्रतारिका ॥ ६६ ॥
4.4.66 · p. 178
अनुष्टुप्
कुक्षिको मलुकस्तुन्दं जठरं चोदरं न ना ।अवलग्नवलग्नौ तु मध्यमो मध्यमस्त्रियाम् ॥ ६७ ॥
4.4.67 · p. 178
अनुष्टुप्
हृदयं हृदुरो वक्षः स्तनो वक्षसिजः कुचः ।स्तनाग्रे पिप्पलं वृन्तं चूचुकं मेचकं शिखा ॥ ६८ ॥
4.4.68 · p. 178
अनुष्टुप्
न क्ली कक्षा बाहुमूलं पार्श्वमस्त्री तयोरधः ।पश्चिमांगं तनोः पृष्ठमंससन्धी तु जत्रुणी ॥ ६९ ॥
4.4.69 · p. 178
अनुष्टुप्
उलूखलं तु सन्धिः स्यात् कक्षाया वंक्षणस्य च ।कण्ठेगुडः कण्ठमणिरंसान्तौ पीठबन्धनौ ॥ ७० ॥
4.4.70 · p. 178
अनुष्टुप्
स्कन्धो दोः शिखरोंऽसोऽस्त्री बाहा बाहुभुजौ न षण् ।दोर्न स्त्री करपोणिर्ना हरणः करणः प्लवः ॥ ७१ ॥
4.4.71 · p. 178
अनुष्टुप्
प्रवेष्टश्च कफोण्यां तु कूर्परः कफणिर्न षण् ।प्रगण्डः कूर्परादूर्ध्वं प्रकोष्ठः कूर्परादवाक् ॥ ७२ ॥
4.4.72 · p. 179
अनुष्टुप्
मणिबन्धो मणिः पाणिमूले पाणौ करः शयः ।पंचशाखस्तलो हस्तस्तर्जनी तु प्रदेशिनी ॥ ७३ ॥
4.4.73 · p. 179
अनुष्टुप्
अनामिका तु सावित्री कनिष्ठा तु कनीनिका ।ज्येष्ठा तु मध्यमांगुष्ठस्त्वंगुलोऽथांगुलिः स्त्रियाम् ॥ ७४ ॥
4.4.74 · p. 179
अनुष्टुप्
करशाखाथ करभो मध्यं मणिकनिष्ठयोः ।तीर्थानि हस्तावयवा नखरस्तु नखोऽस्त्रियाम् ॥ ७५ ॥
4.4.75 · p. 179
अनुष्टुप्
पुनर्भवः पाणिरुहो महाराजः पुनर्नवः ।खरूलः करजश्चाथ स प्रवृद्धः स्मरांकुशः ॥ ७६ ॥
4.4.76 · p. 179
अनुष्टुप्
चपेटश्चर्पटस्तालः प्रहस्तः प्रतलस्तलः ।षट् ते ततांगुले हस्ते न्युब्जेऽस्मिन् प्रसृतः करे ॥ ७७ ॥
4.4.77 · p. 179
अनुष्टुप्
तौ संहतौ संहतलः सोंऽजलिः करभावपि ।प्रसृते तु द्रवाधारे गण्डूषश्चुलुकश्चुलः ॥ ७८ ॥
4.4.78 · p. 179
अनुष्टुप्
पताकः कुंचितांगुष्ठे संश्लिष्टप्रसृतांगुलौ ।अक्लीबौ मुष्टिमुस्तू द्वौ संग्राहो मुचुटिः स्त्रियाम् ॥ ७९ ॥
4.4.79 · p. 179
अनुष्टुप्
घण्टांगुष्ठेन भिन्ना सा खेटकस्त्वर्धमुष्टिकः ।प्रादेशतालगोकर्णा वितस्तिः स्त्री यथाक्रमम् ॥ ८० ॥
4.4.80 · p. 179
अनुष्टुप्
तर्जन्यादिभिरंगुष्ठे वितते विततैःसह ।अवटोमनहस्तः स्यात् सप्रकोष्ठं ततांगुलिः ॥ ८१ ॥
4.4.81 · p. 179
अनुष्टुप्
दघ्नद्वयसमात्रास्तु जान्वादेस्तत्तदुन्मिते ।व्यायामो न्यग्रोधो व्यामश्च भुजौ प्रसारितौ तिर्यक् ॥ ८२ ॥
4.4.82 · p. 179
अनुष्टुप्metre not read in every line
त्रिषु तु परे चत्वारः पौरुषमुद्बाहुपुंमाने ।गलो निगरणः कण्ठो गरो ग्रीवा तु कन्धरा ॥ ८३ ॥
4.4.83 · p. 179
अनुष्टुप्metre not read in every line
शिरोधरावसुषिरा शिरोधिर्व्यापलण्डिका ।कंबुग्रीवा त्रिरेखा सा शिरःपीठः कृकाटिका ॥ ८४ ॥
4.4.84 · p. 180
अनुष्टुप्
घाटाप्यवटुरक्लीब उत्तमांगं पुनः शिरः ।उष्णीषं शीर्षमक्षत्रं पुंसि मूर्धा च मस्तिकः ॥ ८५ ॥
4.4.85 · p. 180
अनुष्टुप्
मुण्डोऽस्त्री मस्तकाऽप्यस्त्री मुखन्तु वदनं घनम् ।तेरं तुण्डं वक्रमास्यमाननं च द्विजालयम् ॥ ८६ ॥
4.4.86 · p. 180
अनुष्टुप्
ओष्ठस्याधस्तु चिबुकं चुबुकं चबुकं च तत् ।अधरस्त्वधरोष्ठः स्यादोष्ठा दन्तच्छदोऽपि च ॥ ८७ ॥
4.4.87 · p. 180
अनुष्टुप्
दन्तवस्त्रं च तत्प्रान्तौ सृक्वणी दशनाः पुनः ।रदनाः खादना दन्ता दंशा मल्ला रदा द्विजाः ॥ ८८ ॥
4.4.88 · p. 180
अनुष्टुप्
मध्यदन्ता राजदन्ता दंष्ट्रा तत्पार्श्वयोर्द्वयोः ।तत्पार्श्वयोः स्थिता दन्ता जंभास्तालु तु काकुदम् ॥ ८९ ॥
4.4.89 · p. 180
अनुष्टुप्
रसज्ञा रसना जिह्वा राजिः सूनाऽप्यधः स्थिता ।गण्डो गल्लः कपोलश्च तत्परा तु हनुर्न षण् ॥ ९० ॥
4.4.90 · p. 180
अनुष्टुप्
वक्रो नकुटकं घ्राणं घोणा नासा विघूणिका ।शिंघाणी नासिका चाथ धमनौ नासिकापुटौ ॥ ९१ ॥
4.4.91 · p. 180
अनुष्टुप्
नासाग्रे दृष्टिबन्धोऽथ शिंघाणो नासिकामलः ।पिण्डूषः कर्णजमलः कर्णः शब्दग्रहः श्रवः ॥ ९२ ॥
4.4.92 · p. 180
अनुष्टुप्
पैण्डूषोऽस्त्री श्रुतिः श्रोत्रं श्रोतश्च श्रवणं श्रवः ।पालिस्तु कर्णलतिका वेष्टनं कर्णशष्कुली ॥ ९३ ॥
4.4.93 · p. 180
अनुष्टुप्
ईक्षणं नयनं चक्षुरक्षि लोचनमंबकम् ।दृष्टिर्दृक् चाथ न पुमांस्तारकाक्ष्णः कनीनिका ॥ ९४ ॥
4.4.94 · p. 180
अनुष्टुप्
वल्गु पक्ष्म च दृग्लोम्नि दृक्छदो वर्त्मवर्त्मनी ।बिडालको नेत्रपिण्डो दूषिका त्वक्षिजं मलम् ॥ ९५ ॥
4.4.95 · p. 180
अनुष्टुप्
ललाटमलिकं गोधिः स्त्री तत्प्रान्तौ तु शंखकौ ।भ्रूर्झिल्लिकाथ शिरसः पृष्ठे नापितकोलिका ॥ ९६ ॥
4.4.96 · p. 181
अनुष्टुप्
जटुले कालकः पिप्लुस्तिलके तिलकालकः ।तनूरुहं रोम लोम केशाः शिरसिजाः कचाः ॥ ९७ ॥
4.4.97 · p. 181
अनुष्टुप्
वालाः कंजास्तीर्थवाहाः कुन्तलाश्च शिरोरुहाः ।कुंचितास्ते कर्कराला बर्बरा अलका अपि ॥ ९८ ॥
4.4.98 · p. 181
अनुष्टुप्
ते ललाटे भ्रमरकाः कुरुला भ्रमरालकाः ।पर्पर्यां स्याद्वल्लरीका झल्लर्यां झपटिः क्षुवः ॥ ९९ ॥
4.4.99 · p. 181
अनुष्टुप्
केशकूटस्तु धंमिल्लः कबरी कर्परी समे ।चोचुस्तु वालकूर्चालः सीमन्तः केशपद्धतिः ॥ १०० ॥
4.4.100 · p. 181
अनुष्टुप्
तद्ग्रन्थिः सन्धितोऽथ प्ता जालिनी गरुडा जटा ।प्रलोभ्यं तु शिरस्यं च शीर्षण्यं चामलाः कलाः ॥ १०१ ॥
4.4.101 · p. 181
अनुष्टुप्
चूडा केशी केशपाशी शिखण्डी कमुजा शिखा ।बालानां सा काकपक्षः शिखण्डश्च शिखण्डकः ॥ १०२ ॥
4.4.102 · p. 181
अनुष्टुप्
श्मश्रु तु व्यंजनं चोटः समे शिंघाणशिंगिनी ।त्वक् स्त्री छदिस्तनुः कृत्तिः संछादन्यप्यसृग्धरा ॥ १०३ ॥
4.4.103 · p. 181
अनुष्टुप्
रसस्तु घनधातुः स्यादात्रेयः षड्रसासवः ।मूलधातुर्वह्निसुतो महाधातुरसृक्करः ॥ १०४ ॥
4.4.104 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्व (wrong syllable)
रुधिरं लोहितं रक्तमस्रं क्षतजमासुरम् ।रोक्यं शोध्यं मांसकरं रसतेजो रसोद्भवम् ॥ १०५ ॥
4.4.105 · p. 181
अनुष्टुप्
आग्नेयं प्राणदं विस्रं वासिष्ठं शोणितासृजी ।मांसं तु काश्यपं क्रव्यं तरसं पललं पलम् ॥ १०६ ॥
4.4.106 · p. 181
अनुष्टुप्
रक्ततेजो रक्तभवं पिशितं कीनमामिषम् ।मेदस्करं च मेदस्तु पलतेजः पलोद्भवम् ॥ १०७ ॥
4.4.107 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
विस्रमस्थिकरं स्नेहवरं गौतममित्यपि ।अथास्थि कीकसं विड्डं कललं क्रूरमाढिकम् ॥ १०८ ॥
4.4.108 · p. 182
अनुष्टुप्
कुल्यं मेदोभवं मेदस्तेजो मज्जाकरं बलम् ।भारद्वाजं श्वदयितं सारसंघातकर्कराः ॥ १०९ ॥
4.4.109 · p. 182
अनुष्टुप्
मज्जा स्त्री कौशिकं सूक्ष्ममस्थितेजोऽस्थिसंभवम् ।अस्थिस्नेहो वीर्यकरो मज्जतेजस्विनौ बली ॥ ११० ॥
4.4.110 · p. 182
अनुष्टुप्
रेतो बीजं वरं वीर्यं हर्षजं स्नेहु पौरुषम् ।शुक्लं प्रधानधातुश्च धातवोऽमी नवाष्ट वा ॥ १११ ॥
4.4.111 · p. 182
अनुष्टुप्
तिलकं क्लोम गोर्दं तु मस्तिष्को मस्तुलुङ्गकः ।पेशिर्मांसलताथ द्वौ वृक्यौ पार्श्वगतौ गुडौ ॥ ११२ ॥
4.4.112 · p. 182
अनुष्टुप्
अस्त्री परीतदान्त्रं स्यात् कालखण्डं पुनर्यकृत् ।गुल्मः प्लीहा च डिंबः स्यादष्ठीला गर्भसंपुटः ॥ ११३ ॥
4.4.113 · p. 182
अनुष्टुप्
अग्रमांसं तु हृदयं हृद्वसा त्वामिषो रसः ।कङ्कालोऽस्त्री तनोरस्थि करङ्कोऽप्यस्थिपञ्जरम् ॥ ११४ ॥
4.4.114 · p. 182
अनुष्टुप्
पार्श्वस्य वंक्रिः पर्श्वस्त्री पृष्ठस्यास्थि कशेर्वना ।कर्परो ना करोटिः स्त्री कपालोऽस्त्री शिरोऽस्थनि ॥ ११५ ॥
4.4.115 · p. 182
अनुष्टुप्
शाखास्थि नलकञ्जानोरष्ठी स्यात्कूर्परस्य च ।धमनी त्वीलिका नाली सिरा दोषप्रणालिका ॥ ११६ ॥
4.4.116 · p. 182
अनुष्टुप्
ग्रीवायास्तु सिरा मन्या महास्नायुस्तु कन्धरा ।नखारुस्तु स्नसा स्नावः स्नाय्वना सन्धिबन्धनम् ॥ ११७ ॥
4.4.117 · p. 182
अनुष्टुप्
लसीका लसिका रक्तरसमांसविपाकजाः ।पूयं तु कुणपं दूष्यं पुरीषं शमलं शकृत् ॥ ११८ ॥
4.4.118 · p. 182
अनुष्टुप्
उच्चारो विण्न ना गूथो वर्चस्को मलमस्त्रियाम् ।विष्ठा चाप्यथ लण्डोऽस्त्री विष्ठा राजियुता दृढा ॥ ११९ ॥
4.4.119 · p. 182
अनुष्टुप्
प्रस्रावो देहवारि स्यान्मूत्रमेकाङ्गुलं च तत् ।सृणिका स्यन्दिनी लाला मलं किट्टं च न स्त्रियाम् ॥ १२० ॥
4.4.120 · p. 183
अनुष्टुप्