कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

द्व्यक्षरकाण्डः · स्त्रीलिङ्गाध्यायः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां द्व्यक्षरकाण्डे पुंलिङ्गाध्यायः

अर्चा पूजाप्रतिमयोरर्तिश्चापाग्रपीडयोः ।अन्दूस्तु शृंखला पादभूषाप्यष्ठी फलास्थ्यपि ॥ १ ॥
6.2.1 · p. 220
अनुष्टुप्
आस्था गोष्ठ्यां प्रतिज्ञायां तत्परत्वेऽवलंबने ।आशीरुरगदंष्ट्रायां शुभवाक्याभिलाषयोः ॥ २ ॥
6.2.2 · p. 220
अनुष्टुप्
आलिः सेतौ सखीपङ्क्त्योराशा दिगतितृष्णयोः ।आजिः समेऽपि भूभागे गोनाडीभूद्युवाक्ष्विडा ॥ ३ ॥
6.2.3 · p. 220
अनुष्टुप्
इलाप्येतासु चार्घे च स्यादिज्या यागपूजयोः ।इष्टिः स्पृहायजनयोरिरा भूवाक्सुरांबुषु ॥ ४ ॥
6.2.4 · p. 220
अनुष्टुप्
अन्ने च स्यादथो ईतिरुपसर्गप्रवासयोः ।ईहा तु लिप्सोद्यमयोरूतिः सूत्यभिरक्षयोः ॥ ५ ॥
6.2.5 · p. 220
अनुष्टुप्
ऊर्णा भ्रूमध्यगावर्ते तन्तौ मेषादिलोमसु ।हिंसाविक्षेपयोः कीर्णिः कीर्तिः पंके यशस्यपि ॥ ६ ॥
6.2.6 · p. 220
अनुष्टुप्
कक्ष्या कच्छे वरत्रायां कांच्यां गेहप्रकोष्ठके ।कर्मी हाटकपुत्र्यां स्यादपि शालापलालयोः ॥ ७ ॥
6.2.7 · p. 220
अनुष्टुप्
कासूर्बुद्धौ कुवाच्यस्त्रे कान्तिः शोभाभिकामयोः ।काष्ठोत्कर्षे सीम्नि दिशि क्षोण्यां वासे क्षये क्षितिः ॥ ८ ॥
6.2.8 · p. 220
अनुष्टुप्
क्रिया तु निष्कृतौ शिक्षाचिकित्सोपायकर्मसु ।करणारंभपूजासु चेष्टायां संप्रधारणे ॥ ९ ॥
6.2.9 · p. 220
अनुष्टुप्
काले शिल्पे वित्तवृद्धौ चन्द्रांशे कलने कला ।महाभूतेष्विन्द्रियेषु ज्ञानावयवयोरपि ॥ १० ॥
6.2.10 · p. 220
अनुष्टुप्
कोटिस्त्वश्रौ प्रकर्षेऽग्रे दशोपायगमे गतिः ।गुप्तिः क्षितिव्युदासेऽपि गुञ्जा भाण्डेऽपि वादने ॥ ११ ॥
6.2.11 · p. 220
अनुष्टुप्
घृणा जुगुप्साकृपयोर्घोणापि रथकर्णिका ।चिन्ताचर्चिक्ययोश्चर्चा चूर्णिर्ग्रन्थे कपर्दके ॥ १२ ॥
6.2.12 · p. 221
अनुष्टुप्
चापाग्रे पिष्टके चूलिश्छर्दिरुद्वान्तिरेतसोः ।छाया त्वनातपे कान्तौ प्रतिबिंबार्कजाययोः ॥ १३ ॥
6.2.13 · p. 221
अनुष्टुप्
जनिर्वरस्त्रीपत्योश्च जामिः स्वसृकुलस्त्रियोः ।जातिश्छन्दसि मालत्यां सामान्ये जन्मगोत्रयोः ॥ १४ ॥
6.2.14 · p. 221
अनुष्टुप्
अलक्ष्म्यग्रजयोर्ज्येष्ठा गृहगोल्यृक्षभेदयोः ।जिह्वा वाग्रसनार्चिःषु तन्द्रा निद्राप्रमीलयोः ॥ १५ ॥
6.2.15 · p. 221
अनुष्टुप्
तन्त्रीर्गुडूचीसिरयो रज्वां वीणादिगे गुणे ।तन्दूर्द्रोणिप्लवे दर्व्यां वाद्ये काले लवे तुटिः ॥ १६ ॥
6.2.16 · p. 221
अनुष्टुप्
तुला साम्ये स्तंभपीठे लेशसंशययोस्त्रुटिः ।तूली शय्याकूर्चिकयोस्त्रेता त्वग्नित्रये युगे ॥ १७ ॥
6.2.17 · p. 221
अनुष्टुप्
दरदो भीतिहृद्गूढा दृष्टिर्धीदर्शनाक्षिषु ।द्रोणी स्यादम्बुवाहिन्यां द्रवभाण्डे गिरिप्लवे ॥ १८ ॥
6.2.18 · p. 221
अनुष्टुप्
दिष्टिः सुखे च दाने च धात्री भुव्युपमातरि ।धनुः सुस्त्रीधनुर्ज्यासु धाना बीजेऽपि भूरुहाम् ॥ १९ ॥
6.2.19 · p. 221
अनुष्टुप्
धारास्त्राग्रेंऽबुसंतत्यां सैन्याग्रेऽश्वगतिष्वपि ।धीता सुतायां बुद्धौ च धृतिः सौख्येऽपि धारणे ॥ २० ॥
6.2.20 · p. 221
अनुष्टुप्
निष्ठोत्कर्षे व्यवस्थायां नाशेऽन्ते व्रतयज्ञयोः ।भित्तिमूले प्रधौ नेमिर्निन्दा कुत्सापवादयोः ॥ २१ ॥
6.2.21 · p. 221
अनुष्टुप्
पालिरश्रिः प्रदेशोंऽकः सश्मश्रुः स्त्री त्सरुश्छदः ।छन्दः संख्यावली पङ्क्तिः पक्तिर्गौरवपाकयोः ॥ २२ ॥
6.2.22 · p. 221
अनुष्टुप्
क्षुद्रग्रामेऽपि पल्ली स्यात्प्रभार्चिषि च भासि च ।प्रज्ञा प्राज्ञस्त्रियां बुद्धौ प्रजा तु जनपुत्रयोः ॥ २३ ॥
6.2.23 · p. 221
अनुष्टुप्
प्रसूर्जनन्यामश्वायां पारिः सृणिगुणेऽपि च ।पादुकोपानहोः पादूः प्राप्ती अभिगमोदयौ ॥ २४ ॥
6.2.24 · p. 221
अनुष्टुप्
पीडावमर्दकृपयोः प्रीतिः प्रेमप्रमोदयोः ।प्रेक्षा नृत्तेक्षणे बुद्धौ बाधा दुःखनिषेधयोः ॥ २५ ॥
6.2.25 · p. 222
अनुष्टुप्
भसदौ गुह्यविट्कोष्ठौ भक्तिर्भागे निषेवणे ।मिक्षा तु भिक्षितान्नादौ याच्ञायां भृतिसेवयोः ॥ २६ ॥
6.2.26 · p. 222
अनुष्टुप्
भूमिः क्षितौ स्थानमात्रे भूतिः श्रीजन्मभस्मसु ।मतिः कांक्षा शेमुषी च मल्लिर्मृत्पात्रपीठयोः ॥ २७ ॥
6.2.27 · p. 222
अनुष्टुप्
माता तु गव्यकारादौ ब्राह्म्याद्यासु प्रसूमयोः ।मूर्तिर्देहप्रतिमयोः काककाठिन्ययोरपि ॥ २८ ॥
6.2.28 · p. 222
अनुष्टुप्
पुंश्चल्यां मौक्तिके मुक्ता कारासंयमयोर्यतिः ।गमने जीवने यात्रा रुजा रुग्भङ्गमृत्यवः ॥ २९ ॥
6.2.29 · p. 222
अनुष्टुप्
राजिः पङ्क्तौ राजसर्पे क्षेत्रेऽधो रसनस्य च ।रीतिर्दग्धसुवर्णादिमले स्थित्यारकूटयोः ॥ ३० ॥
6.2.30 · p. 222
अनुष्टुप्
प्रचारे श्रवणे पड्क्तौ रंडा स्यात् विधवापि च ।रुचिः कान्त्यर्चिषोर्भासि तिंत्रिडीके स्पृहाश्रियोः ॥ ३१ ॥
6.2.31 · p. 222
अनुष्टुप्
रेटिर्वह्नेश्च रटितं वाणी चासंयतोत्कटा ।रेखायामावलौ रेखा लङ्का पूर्भेदशाखयोः ॥ ३२ ॥
6.2.32 · p. 222
अनुष्टुप्
लीला क्रिया विलासश्च वपा गोण्डो विलं तथा ।वलिर्मध्यगरेखोर्मिजीर्णत्वग्गृहदारु च ॥ ३३ ॥
6.2.33 · p. 222
अनुष्टुप्
वर्ध्री स्नायुनि नध्र्यां च व्रज्या पर्यटने गतौ ।विधा विधाने हस्त्यन्ने भृत्यामृद्धिप्रकारयोः ॥ ३४ ॥
6.2.34 · p. 222
अनुष्टुप्
वीरुधौ गुल्मगुल्मिन्यौ वीथी पंक्त्यध्वनोरपि ।वीचिः पंक्त्यूर्मिलेशेषु व्युष्टी फलसमृद्धते ॥ ३५ ॥
6.2.35 · p. 222
अनुष्टुप्
वृत्तिर्ग्रन्थाजीवयोश्च वेलाब्धिजलवर्धने ।काले सीम्नि च वेणी तु केशबन्धे जलस्रुतौ ॥ ३६ ॥
6.2.36 · p. 222
अनुष्टुप्
वृद्धिः सुखेऽपि जंघापि वारुः शुक्तिस्तु दृग्रुजि ।अश्वावर्ते च शाला तु गृहांगस्कन्धशाखयोः ॥ ३७ ॥
6.2.37 · p. 223
अनुष्टुप्
शक्तिः कासूर्बलं लक्ष्मीः शरदावृतुवत्सरौ ।शंका वितर्कभययोः श्रद्धास्तिक्याभिलाषयोः ॥ ३८ ॥
6.2.38 · p. 223
अनुष्टुप्
शाखा वेदप्रभेदेषु बाहौ पादद्रुमांगयोः ।श्यामा कन्या निशा चाथ शान्तिः प्रशममंगले ॥ ३९ ॥
6.2.39 · p. 223
अनुष्टुप्
शिखा ज्वालाकेकिमौल्योः शिफा शाखाग्रमौलिषु ।शुण्डा करिकरे मद्ये श्रुतिर्वेदे श्रवस्यपि ॥ ४० ॥
6.2.40 · p. 223
अनुष्टुप्
शय्या तल्पे ग्रन्थगुंफे शंसा तु स्तववाक्ययोः ।संविद्युद्धे प्रतिज्ञायां संकेताचारनामसु ॥ ४१ ॥
6.2.41 · p. 223
अनुष्टुप्
संभाषणे क्रियाकारे विज्ञाने तोषणेऽपि च ।सभा तु संसदि द्यूते गृहे सामाजिकेषु च ॥ ४२ ॥
6.2.42 · p. 223
अनुष्टुप्
संज्ञार्कभार्या चैतन्यं हस्ताद्यैः सूचनाभिधा ।संस्था व्यवस्थाप्रणिधिसमाप्त्याकारमृत्युषु ॥ ४३ ॥
6.2.43 · p. 223
अनुष्टुप्
सन्धावधौ प्रतिज्ञायां सातिर्दानावसानयोः ।सीमसीमे तु कूलेऽपि स्थानमर्यादयोः स्थितिः ॥ ४४ ॥
6.2.44 · p. 223
अनुष्टुप्
गंगेष्टिमूर्वयोः स्नुह्यां लेपभेदेऽमृते सुधा ।रश्मिमेखलयोः स्यूना सीता सस्ये हलाध्वनि ॥ ४५ ॥
6.2.45 · p. 223
अनुष्टुप्
स्थूणा सूर्म्यां गृहस्तंभे हिंसा चौर्यादिके वधे ।हेलावज्ञाभावचारौ हेतिर्ज्वालांशुरायुधम् ॥ ४६ ॥
6.2.46 · p. 223
अनुष्टुप्