ओषधिभिद्
oṣadhibhidIn 1 kośa: 0 synonym verses, 6 as a meaning of another word.
ओषधिभिद् as a meaning in nānārtha verses
- शब्दरत्नावली कञ्चुकीनिर्मोके कवचे चोले कञ्चुकी त्वोषधिभिदि । कारिका स्यात्तु नर्तक्यां यातनाशिल्पयोरपि ॥ Śabdaratnāvalī 7.1.46
- शब्दरत्नावली जनीजनो लोकान्तरे लोके महर्लोके च पामरे । जनी वधे(?) तथोत्पत्तौ कान्तायामोषधिभिदि ॥ Śabdaratnāvalī 7.20.7
- शब्दरत्नावली स्यानासूनापुत्र्यां वधस्थानगलशुण्डिकयोः स्त्रियाम् । स्योनन्तु किरणे सूर्ये स्याना स्यादोषधिभिदि ॥ Śabdaratnāvalī 7.20.24
- शब्दरत्नावली शिल्पिनीशकुनिः स्यात्करणभिद् विहङ्गदैत्यभित्सु च । शिल्पी कारौ वाच्यलिङ्गः शिल्पिन्योषधिभिद्यपि ॥ Śabdaratnāvalī 7.20.81
- शब्दरत्नावली सुदर्शनसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
- शब्दरत्नावली मांसीमांसं स्यादामिषे क्लीबं मांसी स्यादोषधिभिदि । मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः ॥ Śabdaratnāvalī 7.32.7