कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जनी

janīस्त्री · fem.

In 17 kośas: 30 synonym verses, 5 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.513 · p. 23
सुवासिनी वधूटी स्याच्चिरिण्ट्यथ सधर्मिणी ।पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः ॥ ५१२ ॥दारा क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः ।द्वितीयोढा कलत्रं च पुरंध्री तु कुटुम्बिनी ॥ ५१३ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.219 · p. 23
प्रजावती भ्रातुर्जाया सूनोः स्नुषा जनी वधूः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्नु (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.225
जनी जतूका रजनी जतुकृच्चक्रवर्तिनी ॥ १५३ ॥संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि ।कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः ॥ १५४ ॥सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.10
समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.504 · p. 58
अम्बा सवित्री जननी च माता,वप्ता च तातो जनकः पिता च ।स्नुषा जनी पुत्रवधूर्वधूः स्यात्,प्रजावती भ्रातृवधूः स्मृता च ॥ ५०४ ॥
उपजातिः
genderस्त्रीfem.
जनिर्जनी च कथिता घर्षिणी घर्षणी अपि ।कोट्टवी कोटवी च स्यात् प्रसूता च प्रसूतिका ॥ १६१ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.98 · p. 416
जनी जनू जनुश्चास्त्री जीवो जन्यश्च पुंस्ययम् ।करणं खं पदं पुंसि हर्षि वैकारिकेन्द्रिये ॥ ९८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.22 · p. 3
जनितासंभवौ जन्यौ तस्योत्पत्तिः जनिर्जनी ।आजन्ममव्ययं क्लीबे जन्माभिव्यापिनीह तु ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.38 · p. 170
चक्राङ्गी च द्विजाङ्गी स्यादरिष्टा जननी जनी ।अशोकरोहिणी तिक्ता कटुरोहिण्यपि स्मृता ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.82 · p. 174
जतु क्लीबेऽथ जतुका जतूका जतुकृज्जनी ।जननी रञ्जनी चक्रवर्तिनी पर्पटी च सा ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.24 · p. 177
विमला सातला सारी सप्तला वर्त्तकी जनी ।बहुफेना चर्मकषा चर्मसाह्वा सरालिका ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.13 · p. 203
भार्या जाया च गृहिणी द्वितीयोढा जनी वधूः ।क्षेत्रं परिग्रहो भूम्नि दाराः पुंसि गृहा गृहम् ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.19 · p. 203
राकाथ तरुणी तल्ली तरुणी युवतीश्वरी ।दिक्करी काहली चाथ वधूटी वर्वटी जनी ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.285 · p. 155
जन्तुका जतुकारी च संस्पर्शा जननी जनी ।मांसरोहायां विकसा वृन्ता चर्मकशा रुहा ॥ २८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यां (wrong syllable)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.179 · p. 123
भार्या सहचरी जाया वधूः क्षेत्रं परिग्रहः ।सधर्मिणी जनी जानिः गृहिणी च तथोच्यते ॥ १७९ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.180 · p. 124
द्वितीयोढा कलत्रं स्यात्कुटुम्बिन्यां पुरन्ध्र्यपि ।भ्रातृजाया प्रजावत्यां पुत्रभार्या जनी स्नुषा ॥ १८० ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.80 · p. 35
सुवासिनी चिरण्टी स्यात्कमलाकरकारिका ।स्यात्पुत्रभार्यायां नीला जननी जरिका जनी ॥ ८० ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.8 · p. 20
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.803 · p. 116
सधर्मचारिणी भार्या द्वितीया सहधर्मिणी ।ऊढा क्षेत्रं कलत्रं च करात्ती गृहिणी जनी ॥ ८०३ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.448 · p. 116
पुरन्ध्री स्यात् कुटुम्बिनी सा कुटुम्बवती जनी ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 म्बि (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.450 · p. 116
सूनोः स्नुषा वधूटी च जनी वधूश्च मन्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.283 · p. 78
रजनी स्यात्तु यतुका जतूका जननी जनी ।संस्पर्शा जननिश्चैव जतुका चक्रवर्तिनी ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.113 · p. 91
जनो जनपदो जानपदश्चैते समार्थकाः ।स्त्री वधूरवला नारी प्रिया रामा जनिर्जनी ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.130 · p. 92
दिक्करी वनिका चेति धनीकापि च कुत्रचित् ।स्नुषा वधुर्वधूटी स्याद् जनी च जनिरित्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.131 · p. 92
पञ्चैते पूत्रवध्वाञ्च सामान्येऽपि वधूर्जनी ।चिरिण्टी च चिरण्टी स्यात् सुवासिनी स्ववासिनी ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.173 · p. 94
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.119 · p. 198
जनिर्जनी कुटुम्बिन्यां स्यात् पुरन्ध्रिः पुरन्ध्र्यपि ।स्नुषायां तु वधूयुक्ता वधूटी च जनिर्जनी ॥ ११९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.232 · p. 237
मांसिगन्धद्रव्येषु मिषी मिसिश्च जटिला जटा ।जनातिगन्धद्रव्येषु स्याज्जनी जननी जनिः ॥ २३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.128 · p. 55
वाट्यालोऽतिबलायां तु पुष्पवीर्या जनी सहा ।अश्वकन्दस्त्वश्वगन्धी तिक्ते तु कटुपर्पटौ ॥ १२८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.36 · p. 176
जाया प्रजावती भ्रातुर्ज्येष्ठभ्रातुः प्रिया वधूः ।स्नुषा वधूर्जनी सूनोर्मातुलानी तु मातुली ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास नश्लोकः Dharaṇikośa 19.3.4 · p. 126
जनो लोके जनी वध्वामुत्पत्तौ च जनी स्मृता ।महल्लोकात्परो लोको जन इत्यभिशब्दितः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.84 · p. 244
परे महर्लोकत ईरितोऽपिलोकेऽत्र लोकेऽपि जनश्च नीचे ।जनी स्नुषायां स्याज्जनने घनस्तुमेघे दृढे विस्तृतिसान्द्रयोश्च ।दृढेऽप्ययोमुद्गरके * गात्रेवाद्ये पुनर्मध्यमनृत्यकेऽन्त्ये ॥ ८४ ॥
उपजातिःmetre not read in every linenearly उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.465 · p. 82
जतुकृत्संज्ञवल्ल्यां च स्नुषातिबलयोरपि ।जनिस्तु पत्न्यामुत्पत्तौ वरयोषिति च स्त्रियाम् ॥ ४६५ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास जकारादयः Paramānandīyanāmamālā 5.13.195 · p. 187
जडस्त्वज्ञे हिमग्रस्ते जनी वध्वां जगच्चरे ।जङ्गमेऽप्यथ जिष्णुः स्याज्जयशीले रवौ हरौ ॥ १९५ ॥
अनुष्टुप्
meaningsवधू
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.7 · p. 234
जनो लोकान्तरे लोके महर्लोके च पामरे ।जनी वधे(?) तथोत्पत्तौ कान्तायामोषधिभिदि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 धि (wrong syllable)

जनी as a meaning in nānārtha verses