मांसी
māṃsīस्त्री · fem.In 9 kośas: 7 synonym verses, 5 as a nānārtha head word, 31 as a meaning of another word.
वोधना बन्ध्यकर्कोटी देवी कण्टफलाप्यथ ।व्याघ्री कण्टलता व्याली मांसी चाखुनखी मृगी ॥ १५० ॥
अनुष्टुप्
genderस्त्रीfem.
मांसीहरिद्रालूदूर्वावलाकाकृष्णलागिराम् ।यत्तु प्राण्यङ्गवाचि स्यादीदूदेकस्वरं कृतः ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
मांसी तपस्विनी मत्तो जटी च जटिला मिसी ।;l[3865}क्रव्यादा पिशिनी पेशी लोमशा नलदं न ना ॥ ९८ ॥
अनुष्टुप्Latin letters: l
genderस्त्रीfem.
निशी तपस्विनी मांसी लोमशा च किरातिनी ॥
genderस्त्रीfem.
सम्मार्जनी सोमराजीफञ्जिका कटकाजटा ।जीवन्ती खदिरी मांसी चण्डा तुम्बी यमानिका ॥
अनुष्टुप्
genderस्त्रीfem.
पाण्डुपत्रा विशाला च कोलपिप्पलिका च सा ।जटी तपस्विनी मांसी रोमशा जटिलामिषी ॥ ५७२ ॥
अनुष्टुप्
genderस्त्रीfem.
सुषिरा विद्रुमलता कपोतांघ्रिर्नटी नली ।जटिला लोमशी मांसी तपस्विन्यामिषी जटा ॥ १०० ॥
अनुष्टुप्
genderस्त्रीfem.
मांसं पिशि[104]तमुद्दिष्टं मांसी तु मांसिकौषधिः ।मिसिर्मधुरिकायां स्याच्छतपुष्पा मिसिः स्मृता ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
meaningsमांसिकौषधि
स्त्रियां तु मांसी कटुरोहिणीषुशूरे तरस्वी त्रिषु वेगभाजि ।प्रलम्बशत्रावपि नालिकेरेस्याल्लाङ्गली केकिभुजंगयोस्तु ॥ ४३ ॥
उपजातिः
meaningsकटुरोहिणी
मांसी तु स्त्र्यामिषीसंज्ञगन्धद्रव्येऽथ माषवाक् ।ना क्लीबं चापरे वृष्यसंज्ञधान्यान्तरे तथा ॥ ९९२ ॥
अनुष्टुप्
मांसं स्यादामिषे क्लीबं मांसी स्यादोषधिभिदि ।मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 धि (wrong syllable)
meaningsओषधिभिद्
मांसी as a meaning in nānārtha verses
- धरणिकोश जटाजटा लग्नकचे मूले मांसी च कर्करी जटा । वटी कपर्दके शुम्बे रक्तिकायां तरौ वटः ॥ Dharaṇikośa 10.2.7
- धरणिकोश नलदजलदौ मुस्तकाम्भोदौ दारदौ विषहिङ्गुलौ । नलदमुशीरमांस्योः प्रह्लादो दैत्यशब्दयोः ॥ Dharaṇikośa 17.1.5
- धरणिकोश तपस्विनीतपस्वी चानुकम्पार्हस्तपस्वी स्यात्तपोधने । तपस्विनी च मांसी स्यात्कुनखा च तपस्विनी ॥ Dharaṇikośa 19.3.25
- धरणिकोश जटिलाजम्बुलौ केतकीजम्बू जम्बालौ पङ्कशैवलौ । जटिला पिप्पलीमांस्योः पिच्छिलौ विजिलझावुकौ ॥ Dharaṇikośa 27.1.8
- कोषकल्पतरु कालिकागौरीनवाम्बुदघनावलिधूमरीषु स्याद्योगिनीभिदि नृवत्सर( ? )कार्ष्ण्ययोश्च । मांसीपटोलघनरोमलतासु शाखा- काक्योश्च वृश्चिकदलेऽपि च कालिका स्यात् ॥ १५ ॥ Koṣakalpataru 6.1.15
- कोषकल्पतरु पिशितसूतायां तु भवेत्स्त्रियां च विकृतेऽन्याभं विजातं कृते खण्डे रुग्भिदि वालुकासु सिकता देशेऽस्त्रियां शार्करे । ध्वाने चाङ्गविलेपनेऽथ परवत्त्वामोदिते वासितं स्त्रीभ्योः स्त्री पिशितं पुनश्च पलले मांस्यां स्त्रियां सम्मतम् ॥ २८ ॥ Koṣakalpataru 6.16.28
- कोषकल्पतरु नलदश्रीदे पुमान्स्याद्धनदो वदान्ये । स्यान्मुस्तकेऽब्दे जलदोऽथ पुष्प- रसे च मांस्यां नलदं च सेव्ये ॥ २९ ॥ Koṣakalpataru 6.19.29
- कोषकल्पतरु कटुकीघोराकृतौ विघातिनि मांस्यां त्वङ्कत्थपिप्पल्याम् ( ? ) । कटुकी गण्डूपदयोर्विबुधैः शकुलादनी प्रोक्ता ॥ ७१ ॥ Koṣakalpataru 6.21.71
- कोषकल्पतरु जटिलजटायुक्ते तु जटिलोऽन्य[70a]वन्मांस्यां तु स स्त्रियाम् । पाताले भुवने च स्तः सुतलप्रतलाविमौ ॥ १० ॥ Koṣakalpataru 6.28.10
- कोषकल्पतरु नकुलपाण्डवभेदे बभ्रौ नकुलः स्त्री कर्कटीमांस्योः । नेपाली नवमाल्यां मनःशिलायां च रास्नायाम् ॥ ६४ ॥ Koṣakalpataru 6.28.64
- कोषकल्पतरु यवफलवेणौ भवेद्यवफलः कुटजे च मांस्यां हालाहलस्तुरगलालसमाह्वसर्पे । ज्येष्ठ्यां न योषिति विषेऽथ कुतूहलं स्या- च्छस्तेऽपि कौतुक उदीरितमेवमेव ॥ ७२ ॥ Koṣakalpataru 6.28.72
- कोषकल्पतरु पेशीनिशा हरिद्राह्वययामिनीगा- नीह्वा(?)तितृष्णाककुभोस्तु चाशा । राशिस्तु मेषादिषु पुंसि पुञ्जे पेशी स्त्रियां खड्गपिधानमांस्योः[81b] ॥ १३ ॥ Koṣakalpataru 6.30.13
- कोषकल्पतरु मिसिमृत्सा शुभायां मृदि वासिकायां हिंसा वधे चौर्यविधौ प्रदिष्टा । शंसा तु वाञ्छावचसोर्मिसिस्तु मांस्यां तु दीप्ये शतपुष्पिकायाम् ॥ ८४ ॥ Koṣakalpataru 6.31.84
- नानार्थार्णवसंक्षेप जटाविदारणे तु वक्त्रस्य जम्भा स्त्री स्त्री पुनर्जटा । केशसन्दर्भभेदे च मांसीसंज्ञौषधान्तरे ॥ ४५८ ॥ Nānārthārṇavasaṃkṣepa 2.5.458
- नानार्थार्णवसंक्षेप आमिषीआमिषं त्वस्त्रियां मासे तथा स्याद्भोग्यवस्तुनि । उत्कोचे च स्त्रियां तु स्यान्मासीत्याख्ये तथामिषी ॥ १८५ ॥ Nānārthārṇavasaṃkṣepa 4.185
- नानार्थार्णवसंक्षेप रोमशामेषे स्याल्लोमशे तु त्रि स्त्रियां तु रभसोदिता । काकजङ्घासहामेदामांसीषु पुनरप्ययम् ॥ १५३९ ॥ Nānārthārṇavasaṃkṣepa 4.1539
- नानार्थार्णवसंक्षेप लोमशालोहजं भेद्यवत् तु स्याल्लोहसम्भूतवस्तुनि । लोमशा तु स्त्रियां मांस्यां लोमशस्तु त्रि रोमशे ॥ १५८३ ॥ Nānārthārṇavasaṃkṣepa 4.1583
- परमानन्दीयनाममाला जटाजम्भोंऽशेऽप्यशने दन्ते तरौ तूणेऽसुरान्तरे । जटा मांस्यां वृक्षमूले विकारे केशसंततेः ॥ १९७ ॥ Paramānandīyanāmamālā 5.13.197
- शिवकोष नलददरदः पारदे चूर्णपारदे विषभिद्यपि । नलदं स्यात्पुष्परसोशीरमांसीषु न द्वयोः ॥ २२४ ॥ Śivakoṣa 14.2.224
- शिवकोष पूतनापूतना तु शिवामांस्योः फलिनी हलिनी स्त्रियोः । वाणिनी रजनीदार्वीमञ्जिष्टानीलिकासु च ॥ २५९ ॥ Śivakoṣa 16.1.259
- शिवकोष शकुलादनीशकुलादनी तु तिक्ता मांसीचिञ्चुलिकञ्चटे । शिरीषेऽथ श्वेतधामा घनसाराब्धिफेनयोः ॥ २८६ ॥ Śivakoṣa 16.3.286
- शिवकोष नकुलीनकुली कुक्कुटीमांस्योरथ स्यान्नकुली स्त्रियाम् । रास्नाभित्कुक्कुटीकन्दचव्यके चाक्षपीडके ॥ ४६१ ॥ Śivakoṣa 23.2.461
- शिवकोष मिसिमिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः । मृत्सा काक्षीश्रेष्ठमृदो रसो सूते विषे बले ॥ ५२६ ॥ Śivakoṣa 27.1.526
- शब्दरत्नावली कालिकाधूमरोमघनालीषु काकीमांसीशिवासु च । किम्पाकं स्यात् महाकालफले मूर्खजनेऽपि च ॥ Śabdaratnāvalī 7.1.51
- शब्दरत्नावली जटाजटामूले लग्नकचे मांस्यां प्लक्षे जटीत्यपि । जुष्टं तत्क्लीबमुच्छिष्टे वाच्यलिङ्गन्तु सेविते ॥ Śabdaratnāvalī 7.11.15
- शब्दरत्नावली प्रव्रजितापदप्राप्तौ प्रवृत्तौ च प्रागल्भ्ये स्यादपि स्त्रियाम् । अथ प्रव्रजिता मांसीमुण्डीरीतापसीषु च ॥ Śabdaratnāvalī 7.16.169
- शब्दरत्नावली नलदतरत्प्लवे स्त्रियामेव कारण्डविहायसि । दरत्प्रपाते भीतौ च रोगभेदे च पर्वते ॥ दारदः पारदे पुंसि विषभेदे च हिङ्गुले । दायादस्तनये पुंसि सपिण्डे च सगोत्रके ॥ नलदं स्यादूशीरे च मांस्यां पुष्परसेऽपि च ॥ Śabdaratnāvalī 7.18.15
- शब्दरत्नावली हिंस्राहिंस्रा त्वेलावलीमांस्योः स्त्रियां स्यात्त्रिषु घातुके । हीरो ना शङ्करे वज्रे हीरा लक्ष्मयम्बुतैलयोः ॥ होरा स्त्री शास्त्रभेदे स्याल्लग्ने राश्यर्द्धरेखयोः । Śabdaratnāvalī 7.27.51
- शब्दरत्नावली नकुलीनकुली कुक्कुटीमांस्योर्नकुलः पाण्डवे पणौ (?) । नाभीलो वङ्क्षणे नार्या कृच्छ गर्भाण्डयोरपि ॥ निष्कलस्तु कलाशून्ये नष्टवीर्ये भवेस्त्रिषु । नेपाली स्त्री तु कुनटी सुवहामल्लिकासु च ॥ पटलं नेत्ररोगे स्यापिटके गृहचालके ॥ Śabdaratnāvalī 7.28.71
- शब्दरत्नावली पेशीपांशुर्धूलिषु शय्यासु चिरसञ्चितगोमये । पशुर्मृगादौ प्रमथे देवे च प्राणिमात्रके ॥ पशुसन्दर्शनेऽपि स्यादव्ययं पश्वेति स्मृतम् । पशो ना बन्धने शस्त्रे छात्राद्यन्तश्च निन्दिते ॥ कर्णान्तः शोभनार्थे च केशान्तः संहतार्थके । पेशी स्त्री मांसपिण्ड्याञ्च मांसीखड्गपिधानयोः ॥ अण्डभेदे नदीभेदे पिशाचीराक्षसीभिदोः । वंशः कुले च पृष्ठांशे वर्गतेजनयोरपि ॥ Śabdaratnāvalī 7.30.9
- वैजयन्ती तपस्विनीश्रेष्ठे वृषांगे राजांके ककुदोऽस्त्री ककुन्न षण् । तपस्वी शिशिरे शोच्ये चन्द्रे मांसी तपस्विनी ॥ २८ ॥ Vaijayantī 8.5.28