कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · सान्ताः

इति षान्तवर्गः ॥

सकार ईश्वरे सर्पे गौरीलक्ष्म्योश्च सा स्त्रियाम् ।
7.32.1 · p. 294
अनुष्टुप्
कंसस्तु तैजसे द्रव्ये कांस्ये मानान्तरेऽसुरे ॥
7.32.2 · p. 294
अनुष्टुप्
कासूः शक्त्यायुधे दीप्तौ भाषा विकलवाक्ययोः ।गुत्सो हारभिदि स्तम्बे स्तबके ग्रन्थिपर्णयोः ॥गोसो वोले च प्रत्यूषे चास इक्षुविहङ्गयोः ।त्रासो भीतौ मणेर्दोषे दासी झिण्ठीभुजिष्ययोः ॥
7.32.3 · p. 294
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
दासो भृत्ये धीवरे च शूद्रे ज्ञातार्थयोरपि ।नासाद्वारोर्द्धकाष्ठे स्यान्नासिकायामपि स्त्रियाम् ॥
7.32.4 · p. 294
अनुष्टुप्
प्रसूर्मातरि कन्दल्यामश्वायां विरुधि स्त्रियाम् ।वसुरत्ने धने क्लीबं दीप्तौ वृद्ध्यौषधे स्त्रियाम् ।नाग्नौ देवे बके श्यामे योक्तभूपालसाधुषु ॥
7.32.5 · p. 294
अनुष्टुप्
भासः प्रभाते विहगे भाः प्रभावमयूखयोः ।माश्चन्द्रमासयोः पुंसि मासो ना कालमानयोः ॥
7.32.6 · p. 294
अनुष्टुप्
मांसं स्यादामिषे क्लीबं मांसी स्यादोषधिभिदि ।मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः ॥
7.32.7 · p. 294
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 धि (wrong syllable)
रसो गन्धरसे नीरे शृङ्गारादौ विषे द्रवे ।रागवीर्यदेहधातुप्रभेदास्वादपारदे ॥
7.32.8 · p. 294
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्य (wrong syllable)
तिक्तादौ च गुणे पुंसि द्रवे क्लीबन्तु कुत्रचित् ।रसा स्त्री रसना पाठाशल्लकीभूमिकङ्गुषु ॥
7.32.9 · p. 294
अनुष्टुप्
रासः कोलाहले गोपक्रीडाशृङ्खलवाक्सु च ।वत्सं वक्षसि वत्सः स्याद्वर्षपुत्रादितर्णके ॥
7.32.10 · p. 294
अनुष्टुप्
व्यासो मुन्यन्तरे पुंसि विस्तारभावभेदयोः ।शंसा वाक्ये तु वाञ्छायां प्रशंसायामपि स्त्रियाम् ॥
7.32.11 · p. 294
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
हंसो निर्लोभनृपतौ परमात्मनि मत्सरे ।विष्ण्वर्कयोगिभिन्मन्त्रशरीरपवनेषु च ॥
7.32.12 · p. 294
अनुष्टुप्
गुरौ तुरगभेदे स्याद्भूधरविहगान्तरे ।हासो रसे च हसने हिंसा तु घातचौर्ययोः ॥
7.32.13 · p. 294
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 ध (wrong syllable); pāda 4, syllable 3 तु (wrong syllable)
अलसा स्त्री हंसपद्यां स्यात्पुमान् द्रुमरुग्भिदोः ।क्रियामन्दे वाच्यलिङ्गमलसी सरिदन्तरे ॥
7.32.14 · p. 294
अनुष्टुप्
अदः परस्मिन्नत्र त्रिष्वभ्यासोऽभ्यसनेऽन्तिके ।आगः पापेऽपराधे स्यादाग इत्यपि कुत्रचित् ॥
7.32.15 · p. 294
अनुष्टुप्
आश्वासः स्यात्परिच्छेदनिर्वृत्याख्यायिकासु च ।आशीर्हिताशंसने स्यात्सर्पदन्तेऽपि च स्त्रियाम् ॥
7.32.16 · p. 295
अनुष्टुप्
इष्वासो बाणविक्षेपकारके कार्मुकेऽपि च ।उच्छ्वासः प्राणनाश्वासाख्यायिकादिसमाप्तिषु ॥
7.32.17 · p. 295
अनुष्टुप्
भवेदुत्तंस उत्तसः कर्णपूरेऽपि शेखरे ।उरः श्रेष्ठे हृदि क्लीबमूषः प्रत्यूषसन्ध्ययोः ॥
7.32.18 · p. 295
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 त्त (wrong syllable)
ओजः क्लीबं बले दीप्ताववष्टम्भप्रकाशयोः ।एनः पापेऽपराधेऽपि निन्दायामपि न द्वयोः ॥
7.32.19 · p. 295
अनुष्टुप्
ओक आश्रयमात्रे स्यान्मन्दिरे च नपुंसकम् ।कीकसं क्रिमिजातौ स्यात्क्लीबं कुल्ये तु कर्कशे ।चमसा पिष्टके यज्ञपात्रभेदे नपुंसकम् ॥
7.32.20 · p. 295
अनुष्टुप्
ज्यायानतिप्रशस्ते स्याद् वृद्धेऽपि च भवेत्त्रिषु ।ज्योतिर्दृष्टिप्रकाशर्क्षे क्लीबं ना सूर्यशुष्मणोः ॥
7.32.21 · p. 295
अनुष्टुप्
तरस्तीरे बले वेगे प्लवने च नपुंसकम् ।तपः क्लीबं लोकभेदे धर्मे चान्द्रायणादिषु ।पुंसि माघे च शिशिरे त्वस्त्रियामपि कुत्रचित् ॥
7.32.22 · p. 295
अनुष्टुप्
तमः शोकगुणध्वन्ति क्लीबं राहुग्रहे पुमान् ।तामसी निशि दुर्गायां सर्पे पुंसि खलेऽन्यवत् ॥
7.32.23 · p. 295
अनुष्टुप्
तेजः क्लीबं पराक्रान्तिप्रभाववीर्यदीप्तिषु ।धनुः पियाले राशौ ना चापेऽस्त्री धन्वनि त्रिषु ॥
7.32.24 · p. 295
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
नभः क्लीबं वियति ना मेघे श्रावणप्रावृषोः ।पनवः कण्टकिफले कन्टके वानरान्तरे ॥
7.32.25 · p. 295
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ण (wrong syllable)
पनसा रोगभेदे स्याद्वानरीराक्षसीभिदोः ।पयः क्षीराम्बुनोः क्लीबं पुक्कसश्वपचेऽधने ॥
7.32.26 · p. 295
अनुष्टुप्
पुक्कसी कालिकानील्योर्बीभत्सुः क्रूरपार्थयोः ।भूयोऽव्ययं पुनरर्थे भूयान् बहुतरे त्रिषु ॥
7.32.27 · p. 295
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
महः क्लीबमुत्सवे स्यात्तेजस्यपि नपुंसकम् ।मानसं चित्तसरसो रभसं हर्षवेगयोः ॥
7.32.28 · p. 295
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ब (wrong syllable)
रहस्तत्त्वे च गुह्ये च सुरते च नपुंसकम् ।रजः क्लीबं गुणभित्सपरागार्त्तवरेणुषु ॥
7.32.29 · p. 295
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
रेफाः क्रूरेऽधमे दुष्टे कृपणे च पुमानयम् ।रोदश्च रोदसी चोभे द्यावाभूम्योर्दिविक्षितौ ॥
7.32.30 · p. 295
अनुष्टुप्
लालसो लालसा तृष्णायाचनौत्सुक्यगाढयोः ।वयो योवनबाल्याद्योः क्लीबं स्याद्विहगेऽपि च ॥
7.32.31 · p. 295
अनुष्टुप्
वर्चस्तेजोरूपविष्ठास्वपि क्लीबं बुधे पुमान् ।बर्हिः पुमान् वीतिहोत्रे भवेद्दर्भेऽपि न स्त्रियाम् ।वाहसोऽजगरे नीरनिर्याणे सुनिषण्णके ॥
7.32.32 · p. 296
अनुष्टुप्metre not read in every line
वायसोऽगुरुवृक्षे स्याच्श्रीवासकाकयोरपि ॥
7.32.33 · p. 296
वायसी काकमाच्याञ्च काकोडुम्बिकाद्रुमे ॥
7.32.34 · p. 296
विलासो हारभेदे स्याल्लीलायाञ्च पुमानयम् ।विद्वानात्मविदि प्राज्ञे दैवज्ञेऽप्यभिधेयवत् ॥
7.32.35 · p. 296
अनुष्टुप्
श्रेयसी गजपिप्पल्यामभयापाठयोरपि ।सहो ज्योतिर्बले क्लीबं पुमान् हेमन्तमार्गयोः ॥
7.32.36 · p. 296
अनुष्टुप्
सरो नीरे तडागेऽपि सरसी च सरोवरे ।समासः पुंसि संक्षेपे संज्ञाभेदे समर्थने ॥
7.32.37 · p. 296
अनुष्टुप्
सारसं पङ्कजे क्लीबं स्यात्पुमान् पक्षिचन्द्रयोः ।साहसन्तु बलात्कारकृतकार्ये दमेऽपि च ॥सुरसा स्त्री तु पर्णसे रास्नायां नागमातरि ।स्रोतः स्यादिन्द्रिये नीरवेगेऽपि च नपुंसकम् ॥
7.32.38 · p. 296
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्ण (wrong syllable)
हविर्होतव्यमात्रे स्याद्घृतेऽपि च नपुंसकम् ।
7.32.39 · p. 296
अनुष्टुप्
अधिवासो धूपनादिसंस्कारे च निवासके ॥
7.32.40 · p. 296
अनुष्टुप्
अवध्वंसोऽवचूर्णे स्यात्परित्यागे च निदने ।अवतंसः कर्णपूरे शेखरे च निगद्यते ॥
7.32.41 · p. 296
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
अगौकाः शरभे पुंसि कण्ठीरवविहङ्गयोः ।उदर्चिर्वीतिहोत्रे स्यादुत्प्रगे हरकामयोः ॥
7.32.42 · p. 296
अनुष्टुप्
कलहंसश्च कादम्बे राजहंसे परात्मनि ।कनीयाननुजेऽत्यल्पे तरुणेऽपि च वाच्यवत् ॥
7.32.43 · p. 296
अनुष्टुप्
कुम्भीनसः क्रूरसर्पे स्त्रियां लवणमातरि ।भवेद्धनरसः सान्द्रनिर्यासे मोरटेऽम्बुनि ॥
7.32.44 · p. 296
अनुष्टुप्
सम्यक्सिद्धरसे पीलुपर्णीकर्पूरयोरपि ।चन्द्रहासः खड्गमात्रे दशकण्ठकृपाणके ॥भवेत्तामरसं ताम्रे पङ्कजे काञ्चनेऽपि च ।त्रिस्रोताः स्यात्तरङ्गिन्यां गङ्गायामपि च स्त्रियाम् ॥
7.32.45 · p. 296
अनुष्टुप्
दीर्घायुः काकशाल्मल्योर्मार्कण्डे जीवकद्रुमे ।दिवौकाश्चातके देवे नगौकाः सिंहपक्षिणोः ॥
7.32.46 · p. 296
अनुष्टुप्
निःश्रेयसं शुभे मोक्षे विद्यानुभावभक्तिषु ।नीलाञ्जसा विद्युति स्त्री नदीविद्याधरीभिदोः ॥
7.32.47 · p. 296
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
पुनर्वसुर्भभेदे स्याद्द्वयोः कात्यायने पुमान् ।लोकभेदे धनारम्भे गरुडध्वजशूलिनोः ॥
7.32.48 · p. 297
अनुष्टुप्
महारसस्तु खर्जूरे कशेरुकोषकारयोः ।मलीमसं लोहपुष्पे कासीसमलिनेषु च ॥
7.32.49 · p. 297
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
भवेन्मधुरसा द्राक्षादुग्धिकामूर्विकासु च ॥
7.32.50 · p. 297
यमस्वसा तु यमुनादुर्गयोरपि च स्त्रियाम् ॥
7.32.51 · p. 297
रासे रसस्तु शृङ्गारे गोष्ठामुत्सवरासयोः ।राजहंसो नृपश्रेष्ठे कादम्बकलहंसयोः ॥
7.32.52 · p. 297
अनुष्टुप्
वरीयान् योगभेदे स्याद्युनि श्रेष्ठवरिष्ठयोः ।विहायाश्च खगे पुंसि गगणे पुनरस्त्रियाम् ॥विभावसुर्दिनकरे हारभेदे च पावके ।श्वश्रेयसन्तु कल्याणे सुखे च परमात्मनि ॥
7.32.53 · p. 297
अनुष्टुप्
भवेत्सर्वरसो वीणाभेदे धूनकसूरिणोः ।सप्तार्चिः क्रूरनेत्रे स्याद्वीतिहोत्रे खलेऽपि च ॥
7.32.54 · p. 297
अनुष्टुप्
साधीयानतिवाढे स्यादतिसाधौ तु वाच्यवत् ।अथ सिद्धरसो धातुप्रमुखे च महारसे ॥
7.32.55 · p. 297
अनुष्टुप्
सुमनः पुष्पमालत्योः स्त्रियां ना धीरदेवयोः ।सुमेधास्त्रिषु सद्बुद्धौ ज्योतिष्मत्यामपि स्त्रियाम् ॥
7.32.56 · p. 297
अनुष्टुप्
दिव्यचक्षुः सुनेत्रेऽन्धसुगन्धभेदयोरपि ।स्यान्नभश्चमसश्चन्द्रे चित्रापूपेन्द्रजालयोः ॥कथ्यते हिङ्गुनिर्यासो निम्बे हिङ्गुरसेऽपि च ।हिरण्यरेता मिहिरे वीतिहोत्रे हरेऽपि च ॥
7.32.57 · p. 297
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्ध (wrong syllable)