All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · कान्ताः (1/2)
को ब्रह्माण्डवायुसूर्याग्नियमदक्षान्मवर्हिषु ॥
7.1.1 · p. 177
अर्क्कः स्फटिकसूर्यार्कपर्णतार्म्रेन्द्रसूरिषु ।अङ्कः परिच्छेदे रेखाचित्राजिभूषणेष्वपि ॥
7.1.2 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 जि (wrong syllable)
क्रोडान्तिकापराधेषु तथाङ्कं पापदुःखयोः ।एकः संख्याभेदे श्रेष्ठे त्रिषु स्यात् केवलान्ययोः ॥
7.1.3 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भे (wrong syllable)
कर्कः श्रेष्ठे घटे कर्के शुक्लाश्वदर्पणाग्निषु ।कङ्कः पक्षिविशेषे स्यात् कृतान्ते कैतवद्विजे ॥
7.1.4 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्व (wrong syllable)
कल्कोऽस्त्रीघृततैलादिशेषे कर्णमले विटे ।दन्ते विभीतके दम्भे पापे पापाशये त्रिषु ॥
7.1.5 · p. 177
अनुष्टुप्
काकः पक्षिवृक्षमानव्याघ्रभेदेऽतिधृष्टके ।काको भेकवृकज्येष्ठी खर्जूरीचक्रवाकके ॥
7.1.6 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्षि (wrong syllable)
काका गुञ्जा काकमाचीकाकाङ्गीमलपूष्वपि ।काकं सुरतबन्धे स्यात् तथा च काकसंहतौ ॥
7.1.7 · p. 177
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
किष्कुर्हस्ते वितस्तौ च मानभेदेऽपि च द्वयोः ।छेकः स्यान्नागरे वेश्मसंस्थयोर्मृगपक्षिणोः ॥
7.1.8 · p. 177
अनुष्टुप्
टङ्को दपे खनित्रे च खड्गे पाषाणदारणे ।स्यादस्त्री टङ्कसो स्त्री तु जङ्घायां कोषके पुमान् ॥
7.1.9 · p. 177
अनुष्टुप्
तोकं पुत्रदुहित्रोश्च त्विकः स्यात् कोककाकयोः ।न्यङ्कुर्ना मनिमृगयोः नाकः स्वर्गान्तरीक्षयोः ॥
7.1.12 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
वा पुंसि निष्कं दीनारे कर्षे वक्षो-विभूषणे ।सुवर्णानां शते माष्टे हेम्नि हेममानेऽपि च ॥
7.1.13 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 मा (wrong syllable)
पाकः परिणतौ स्थाल्यां शावके पेचकेऽपि च ।केशादीनां जराशौक्ले राष्ट्रादिभङ्गभीतिषु ॥
7.1.14 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
पङ्कोऽस्त्री कर्दमे पाके भूकः स्यात् कालरन्ध्रयोः ।वकः कह्वे धनेशे च बहुपुष्पे च रक्षसि ॥
7.1.15 · p. 177
अनुष्टुप्
नाकुः पर्वनवह्लीकमुनिभेदेषु पुंस्ययम् ।भेकः मण्डूकधनयोर्भूको नार्वाचिदैत्ययोः ॥
7.1.16 · p. 178
अनुष्टुप्
राका पूर्णेन्दुपौर्णम्यां नवजातरजःस्त्रियाम् ।रोकः क्रयान्तरे दीप्तौ रोकं विवरनौकयोः ॥
7.1.18 · p. 178
अनुष्टुप्
रेकः विरेके शङ्कायां रङ्कः कृपणमन्दयोः ।लङ्कादेशस्य पूःशाखाशाकिनीकुलटासु च ॥
7.1.19 · p. 178
अनुष्टुप्
वल्कं स्याद्वल्कले शल्के लोकः स्याद्भुवने जने ।अथ वङ्को नदीवक्रे पर्याणाङ्के च तङ्कुरे(?) ॥
7.1.20 · p. 178
अनुष्टुप्
शल्कन्तु वल्कले शकले शको जात्यन्तरे नृपे ।शङ्कर्ना शङ्करे कीले संख्यास्त्रपापजन्तुषु ॥
7.1.21 · p. 178
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 शक (syllable split); pāda 4, syllable 3 स्त्र (wrong syllable)
शूकोऽस्त्री शृङ्गदययोः शङ्का त्रासवितर्कयोः ।शाको द्वीपान्तरे शक्तौ द्रुमे ना हरितकेऽस्त्रियाम् ॥
7.1.22 · p. 178
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शिरीषपादपे पुंसि ग्रन्थिपर्णे नपुंसकम् ।शुकः कीरे व्याससुने तथा रावणमन्त्रिणि ॥
7.1.23 · p. 178
अनुष्टुप्
श्लोको यशसि पद्ये च स्तोकः स्याच्चातकाल्पयोः ।शुल्कं घट्टादिदेये तु वरादर्थग्रहे स्त्रियाः ॥
7.1.24 · p. 178
अनुष्टुप्
अशोकस्त्रिषु निःशोके पुमान् वञ्जुलभूरुहे ।स्त्रियां स्यात् कटुरोहिण्यां पारदे तु नपुंसकम् ॥
7.1.25 · p. 178
अनुष्टुप्
अलकश्चुर्णकेशे स्यात् धनाधीशपुरि स्त्रियाम् ।अनूको ना कुले शीले सुगते गतजन्मनि ॥
7.1.26 · p. 178
अनुष्टुप्
अभीको निर्भये क्रूरे कामुके चोत्सुके त्रिषु ।अलीकमप्रियासत्यस्वल्पेषु त्रिषु कुत्रचित् ॥
7.1.27 · p. 178
अनुष्टुप्
अंशूकं सूक्ष्मवसने वस्त्रमात्रोत्तरीययोः ।अन्तिकं वाच्यलिङ्गन्तु निकटे शातलौषधे ॥
7.1.28 · p. 178
अनुष्टुप्
चुल्ली ज्येष्ठभगिन्योश्च नाट्टोक्तौ कथ्यतेऽन्तिका ।अलर्को धवलार्के स्यात् योगोन्मादितकुक्कुरे ॥
7.1.29 · p. 178
अनुष्टुप्
अम्बिका जननीगौर्य्यौर्धृतराष्ट्रस्य मातरि ।अन्धिका रजनी नारी द्युतभेदेऽक्षिदूषिते ॥
7.1.30 · p. 178
अनुष्टुप्
अम्लिकाऽम्लोद्गारचिञ्चापाचाचाङ्गेरिकासु च ।अर्भकः स्यात् कृशे स्वल्पे तथा मूर्खे च वालके ॥
7.1.31 · p. 178
अनुष्टुप्
आनको रसदभ्रे तु भेरीपटहमर्दने ।आटकी स्त्री तुवर्यान्तु मानभेदे भवेत् त्रिषु ॥
7.1.32 · p. 178
अनुष्टुप्
आलोको वन्दिभाषायां प्रकाशे दर्शनेऽपि च ।आह्निकं दिननिर्वाह्ये त्रिलिङ्गमपि न द्वयोः ॥
7.1.33 · p. 178
अनुष्टुप्
नित्यक्रियाभोजनयोर्वृन्दे प्रकरणस्य च ।आतङ्को मुरजध्वाने रोगे सन्तापशङ्कयोः ॥
7.1.34 · p. 179
अनुष्टुप्
ईक्ष्वाकुः स्त्री कटुतुम्व्यां सूर्यवंशाधिपे पुमान् ।उलूकः पेचके शक्रे तथा भारतयोद्धरि ॥
7.1.35 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 टु (wrong syllable)
उदर्कः उत्तरे काले फले मदनकण्टके ।उष्णकस्तु निदाघे स्यादातुरे शीघ्रकारिणि ॥
7.1.36 · p. 179
अनुष्टुप्
उष्ट्रिका करभस्त्रीषु मृत्तिका भाण्डभेदके ।ऊर्मिका वस्त्रभङ्गे स्यादङ्गुरीयतरङ्गयोः ॥
7.1.37 · p. 179
अनुष्टुप्
कनकः किंशुके नागकेशरे धूस्तूरेऽपि च ।काञ्चनेऽपि च कालीये चाम्पके हेम्नि न द्वयोः ॥
7.1.38 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 स्तू (wrong syllable)
करकः पक्षिभेदे स्याद् दाडिमे च पुमानयम् ।वर्षोपले द्वयोरस्त्री कुसुम्भे च कमण्डलौ ॥क्रमुकः स्यात् पुमानेव पट्टिकालोध्रपूगयोः ।कार्पासिकाफले भद्रमुस्तके ब्रह्मदारुणि ॥
7.1.39 · p. 179
अनुष्टुप्
कटकोऽस्त्री दन्तिदन्तमण्डनेऽचलमध्यके ।सामुद्रलवणे राजधान्याञ्च बलयेऽपि च ॥
7.1.40 · p. 179
अनुष्टुप्
कटुका कटुरोहिण्यां स्त्रियां व्योषे तु न द्वयोः ।कटुकोऽस्त्री क्षुद्रशत्रौ मत्स्यादीनाञ्च कीकसे ॥
7.1.41 · p. 179
अनुष्टुप्
नैयायिकादिदोषोक्त्यां रोमाञ्चे च द्रुमाङ्गके ।करङ्को मस्तकेऽशस्यनारिकेलफलेऽस्थनि ॥
7.1.42 · p. 179
अनुष्टुप्
कलङ्कोऽङ्केऽपवादे स्यात् कालायसमलेऽपि च ।कर्णिका करिहस्ताग्रे हस्तमध्याङ्गुलावपि ॥
7.1.43 · p. 179
अनुष्टुप्
गुवाकादिछटांशे च पद्मान्तःकर्णभूषणे ।कर्णिका स्यादग्निमन्थे यात्यन्तसुखवस्तुनि ॥
7.1.44 · p. 179
अनुष्टुप्
कचाकुः स्यात्तु दुःशीले दुराधर्षे विलेशये ।कुञ्चुको नारबाणे स्यादङ्गवस्त्रविशेषके ॥
7.1.45 · p. 179
अनुष्टुप्
निर्मोके कवचे चोले कञ्चुकी त्वोषधिभिदि ।कारिका स्यात्तु नर्तक्यां यातनाशिल्पयोरपि ॥
7.1.46 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 धि (wrong syllable)
तथा विवरणश्लोके वेदादिकर्तरि त्रिषु ।नपुंसकन्तु कर्त्रादिषट्सु कारकमित्यपि ॥
7.1.47 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
कामुकोऽशोकवृक्षे च कामनेऽप्यतिमुक्तके ।कार्मुकं स्यात्तु चापे ना वंशे कर्मक्षमेऽन्यवत् ॥
7.1.48 · p. 179
अनुष्टुप्
कावूकः कृकवाकौ स्यात् पीतमस्तककाकयोः ।क्षारको जालके पक्षिमत्स्यादिपिटकेऽपि च ॥
7.1.49 · p. 179
अनुष्टुप्
कालिका शक्तिभेदेऽपि मसी वृश्चिकपत्रयोः ।क्रमदेयवस्तुमूल्यभृङ्गीनवघनेषु च ॥
7.1.50 · p. 180
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
धूमरोमघनालीषु काकीमांसीशिवासु च ।किम्पाकं स्यात् महाकालफले मूर्खजनेऽपि च ॥
7.1.51 · p. 180
अनुष्टुप्
कीचको दैत्यभेदे स्यात् वंशमात्रे सरन्ध्रके ।वातोद्धूतस्वनद्वंशे तथा रक्षोविशेषके ।कीटकः पुंसि कीटे स्यात् निष्ठुरे पुनरन्यवत् ॥
7.1.52 · p. 180
अनुष्टुप्
कुलकः पुंसि वल्मीककाकेन्दुश्रेष्ठकेषु च ।क्लीबं पटोले सम्बन्धश्लोकवृन्दे निगद्यते ॥
7.1.53 · p. 180
अनुष्टुप्
क्षण्णकः स्त्रीषु नीचेऽल्पे कुशिको मुनिसर्जयोः ।कुषाकुर्वानरेर्केऽऽग्नौ परोत्तापिनि तु त्रिषु ॥
7.1.54 · p. 180
अनुष्टुप्
कुलिकः कुलगुह्ये तु भुजगद्रुमभेदयोः ।क्षुरकः स्यात् कोकिलाक्षे गोक्षुरे तिलकद्रुमे ॥
7.1.55 · p. 180
अनुष्टुप्
अस्त्रियां कूलकस्तूपे पुंसि स्यात् क्रिमिपर्वते ।कूर्चिका तूलिकायाञ्च सूचिकायान्तु कुट्मले ॥
7.1.58 · p. 180
अनुष्टुप्
स्यात् कपाटाकुले दुग्धविकृतावपि (चेष्यते) ।कृषकः फालके पुंसि कर्षके त्वभिधेयवत् ॥
7.1.59 · p. 180
अनुष्टुप्metre not read in every line
कोरकोऽस्त्री कुद्मले स्यात् कक्कोलकमृणालयोः ।कौतुकस्त्वभिलाषे च नर्मण्युत्सवहर्षयोः ॥
7.1.60 · p. 180
अनुष्टुप्
ख्याते कुतूहलेऽन्योन्यसमायाते च मङ्गले ।विवाहसूत्रे गीतादिभोगे स्यादिह न द्वयोः ॥
7.1.61 · p. 180
अनुष्टुप्
कौशिको नकुलोलूकव्यालग्राहिषु गुग्गुलौ ।कोषज्ञे कोषकारेऽपि विश्वामित्रमहेन्द्रयोः ॥
7.1.62 · p. 180
अनुष्टुप्
खनको ना सन्धिचौरे उन्दुरे त्रिषु दारके ।खड्गिगो महिषी क्षीरफेसो च शौनिकेऽपि च ॥
7.1.64 · p. 180
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
खोलकः पूगवल्मीककोशपाकशिरस्त्र्रके ।गणिका यूथिवेश्येभीष्वपि स्त्रीगणके पुमान् ॥
7.1.65 · p. 180
अनुष्टुप्
ग्रन्थिकं पिप्वलीमूले ग्रन्थिपर्णे च गुग्गुलौ ।पाण्डवे सहदेवाख्ये करीरे गणके पुमान् ॥
7.1.66 · p. 180
अनुष्टुप्
गण्डको ना खड्गजन्तौ विद्यासंख्याप्रभेदयोः ।अन्तरायेऽप्यवच्छेदे नदीभेदे तु गण्डकी ॥
7.1.67 · p. 180
अनुष्टुप्
ग्राहको हिंस्रविहगे व्यालग्राहे ग्रहीतरि ।गान्धिको लेखकै गन्धव्यवहारिणि कीटके ॥
7.1.68 · p. 181
अनुष्टुप्
गुण्डकः स्नेहपात्रे स्याद् धूलौ च मण्डलेऽपि च ।गैरिकं कणके धातौ गृह्यकण्ठोकनिघ्नयोः(?) ॥गोलकस्तु गुडे जारात् विधवातनयेऽपि च ।गोरङ्कुः पक्षिभेदे स्यान्नग्नके वन्दितेऽपि च ॥
7.1.69 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
चषकोऽस्त्री सुरापात्रे मद्ये मद्यविशेष्यके ।चुलुकोऽस्त्री भाण्डभेदे निम्नपाणितलेऽपि च ॥
7.1.70 · p. 181
अनुष्टुप्
चतुष्की मशहर्यान्तु यष्टिभेदे च न द्वयोः ।चारकश्चारके रन्ध्रे हयादीनाञ्च पालके ॥
7.1.71 · p. 181
अनुष्टुप्
चित्रकं तिलके पुंसि व्याघ्रभेदे शुकादिषु ।चुम्बकश्चुम्बनप्रदेप्ययस्कान्ते च धूर्तके ॥
7.1.72 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प्र (wrong syllable)
बहुग्रन्थैकदेशज्ञे घटस्योर्ध्वावलम्बने ।चुल्लुकी शिशुमारे स्यात् कुण्डी भित्कुलभेदयोः ॥
7.1.73 · p. 181
अनुष्टुप्
चूलिका नाटकाङ्गे स्यात् करिणां कर्णमूलके ।जनकस्तातनृपयोश्चूतकः कूपकाम्रयोः ॥
7.1.74 · p. 181
अनुष्टुप्
जम्बुको वरुरो नीचे शृगाले तर्कभेदके ।जतुकाऽजिनपत्रायां क्लीबं स्यात् हिङ्गुयावयोः ॥
7.1.75 · p. 181
अनुष्टुप्
जालकं कोरके नीडे दम्भे जाले समूहके ।न पुंसि मोचके फले जालिका विधवा स्त्रियाम् ॥
7.1.76 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 फ (wrong syllable)
गिरिसारे च नौकायां स्त्रियान्तु भुवनान्तरे ।अश्मादिरचितस्वाङ्गरक्षिण्यामपि जालिका ॥
7.1.77 · p. 181
अनुष्टुप्
जालिको वाच्यवद्ग्रामजालिकैवर्तयोरपि ।जीवकः पीतशाले स्यात् प्राणके क्षपणेऽपि च ।न पुंसि कूर्चशीर्षे स्यादाजीवे जीविकाऽपि च ॥
7.1.78 · p. 181
अनुष्टुप्
त्रिषु सेवकवृद्याशिजीविषु त्वहितुण्डिके ।झल्लिका स्यात् पुटे द्योते तूद्वर्तनमलेऽपि च ॥
7.1.79 · p. 181
अनुष्टुप्
टुण्टुकः श्योणाकतरौ स्वल्पे नीचेऽपि पक्षिणि ।डिम्बिका कामुकी नीरविम्बशोणकभूरुहे ॥
7.1.81 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णा (wrong syllable)
तण्डकः स्यात् तरुस्कन्धे गृहदारुणि खञ्जने ।माया बहुलके फेसे समासप्रायवाचि च ॥
7.1.82 · p. 181
अनुष्टुप्
तक्षकः स्यान्नागराजे विश्वकर्मणि बर्धकौ ।तारकः स्यात् कर्णधारे देत्ये ना न द्वयोर्हसि(?) ।कणीनिकायां नक्षत्रे न पुमान् त्रातरि त्रिषु ॥
7.1.83 · p. 182
अनुष्टुप्metre not read in every line
तिलको वृक्षसर्पाश्वभेदेषु तिलकालके ।क्लोम्नि सौवर्चले क्लीबमस्त्रियान्तु विशेषके ॥
7.1.84 · p. 182
अनुष्टुप्
तूलिका स्यात् कूर्चिकायां शय्योपकरणेऽपि च ।दर्शकः स्याद्दर्शयितृ-द्वाःस्थयोश्च प्रवीणके ।दावको बालके पुंसि वाच्यलिङ्गन्तु भेदके ॥
7.1.87 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 3, syllable 5 द्द (wrong syllable)
द्रावको रसभेदे स्यात् विदग्धे ग्रावभेदके ।दीपकं वागलङ्कारे दीप्तिकारिणि वाच्यवत् ॥
7.1.88 · p. 182
अनुष्टुप्
दीप्यकं त्वजमोदायां रजन्यां बर्हिचूडके ।दूषिका स्यात् तूणिकायां तथा नेत्रमलेऽपि च ॥
7.1.89 · p. 182
अनुष्टुप्
धनिकः साधुधन्यके धनिषु स्त्रीषु च स्त्रियाम् ।धेनुको दैत्यभेदे ना करिण्यां गवि च स्त्रियाम् ॥
7.1.90 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न्य (wrong syllable)
धैनुकं धेनुबृन्दे स्यात् नारीणां करणेऽपि च (?) ।नर्तकः स्यात् पोटगले चारणे केलके नटे ॥
7.1.91 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पो (wrong syllable)
नर्तकी स्यात्तु हस्तिन्यां लासिकायाञ्च योषिति ।नग्निका तु कुमार्यां ना क्षपस्तुतिपाठके(?) ॥
7.1.92 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नन्दको विष्णुखड्गे स्यात् हर्षके कुलपालके ।नालीकः शरशल्याङ्गेष्वब्जषण्डे तु न द्वयोः ॥
7.1.94 · p. 182
अनुष्टुप्
नायको हारमध्यस्थमणौ श्रेष्ठे च नेतरि ।निर्मोको व्यम्नि सन्नाहमोचने सर्पकञ्चुके ॥
7.1.95 · p. 182
अनुष्टुप्
नीलिका स्यात् क्षुद्ररोगनिलीशेफालिकासु च ।प्रसेकः स्यात् च्युतौ सेके पराको व्रतखड्गयोः ॥
7.1.96 · p. 182
अनुष्टुप्
प्रतीकः प्रतिकूले स्याद् विलोमेऽवयवेऽपि च ।पद्मकं पद्मकाष्ठे च बिन्दुजालकयोरपि ॥
7.1.97 · p. 182
अनुष्टुप्
स्यात् पार्श्वकः पार्श्वमात्रे पार्श्वद्वारसहायके ।पर्यङ्कः स्याद्वृषी मञ्चखट्वापर्यन्तिकासु च ॥
7.1.98 · p. 182
अनुष्टुप्
पताका स्यात् वैजयन्त्यां सौभाग्यनाटकाङ्गयोः ।पातुकः पातशीले स्यात् प्रपाताम्बुनि हस्तिनि ॥
7.1.99 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्य (wrong syllable)
प्राणकः सत्त्वजातीये चोले च जीवकद्रुमे ।पालङ्कः पक्षिभेदे स्यात् शल्लकीशाकभेदयोः ॥
7.1.100 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
पावकोऽग्नौ विडङ्गे च भल्लातके च चित्रके ।प्रियकः पीतशाले स्यात् नीपचित्रमृगालिषु ॥
7.1.101 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
पक्षिभेदे शशाङ्के च प्रियङ्गौ कुङ्कुमेऽपि च ।पिण्याकस्तिलकल्केऽस्त्री वाह्लीक हिङ्गुसिह्लके ॥
7.1.102 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
पिनाकोऽस्त्री धूलिवर्षे रुद्रचापात्रिशूलयोः ।पिटकस्त्रिषु विस्फोटे मञ्जुषायामसौ पुमान् ॥
7.1.103 · p. 183
अनुष्टुप्
पिष्टको ना नेत्ररोगे घृतपूरादिकेऽपि च ।पुलको मणिदोषे स्यात् प्रस्तर-क्रमि(?)भेदयोः ॥
7.1.104 · p. 183
अनुष्टुप्
गजान्नपिण्डे गन्धर्वे रोमाञ्चे हरितालके ।पुलाको भक्थसिक्थे स्यात् संक्षेपे तुच्छधान्यके ॥
7.1.105 · p. 183
अनुष्टुप्
पुष्पकं धननाथस्य विमाने रत्नकङ्कणे ।रसाञ्जनमृदङ्गारलोहकांस्येऽपि न द्वयोः ॥
7.1.106 · p. 183
अनुष्टुप्
पुत्रिका स्यात् पुत्तलिका दुहित्रोर्ना पतङ्गके ।पुत्रे धूर्ते द्रुमे शैलेऽप्यनुकम्पान्विते जने ॥
7.1.107 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
पृदाकुश्चित्रके सर्पे व्याघ्रवृश्चिकयोः पुमान् ।पुयुको ना चिपिटके बालकेऽप्यभिधेयवत् ॥
7.1.108 · p. 183
अनुष्टुप्
पेचकः स्यादुलूके तु गजलाङ्गुलमूलके ।पेटकं पुस्तकादीनां न्यासपात्रे कदम्बके ॥
7.1.109 · p. 183
अनुष्टुप्
वल्मीको रोगभेदे ना तथा नाकौ च न स्त्रियाम् ।बन्धूकः पीतशाले स्यात् बन्धूकं बन्धूजीवके ॥
7.1.110 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 न्धू (wrong syllable)
बन्धको ना भवेदाधौ पुंश्चलीभ्यश्च बन्धकी ।बहुको जलखाते स्यात् दात्यूहे कर्कटे रवौ ॥
7.1.111 · p. 183
अनुष्टुप्
बालकः स्यात् शिशौ मूर्खे पुच्छे च हयहस्तिनोः ।अङ्गुरीये च ह्रीवेरे निर्वणे वलये पुमान् ॥
7.1.112 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
बालिका काहला बाला बालुका कर्णभूषणे ।वारको ना हयगतौ निषेधके तु वाच्यवत् ॥
7.1.113 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
बालुका सिकतायान्तु क्लीबं स्यादेलबालुके ।भस्मकं व्याधिभेदे च विडङ्गेऽपि च काञ्चने ॥
7.1.114 · p. 183
अनुष्टुप्
भ्रामकः फेरवे धूर्ते सूर्यावर्तेऽश्मभेदके ।भालाङ्कः कच्छपे रुद्रे शाकभेदे च रोहिते ॥
7.1.115 · p. 183
अनुष्टुप्
महालक्ष्मणसम्पन्नपुरुषे करपत्रके ।भूकाकः स्वल्पकङ्के स्यात् क्रौञ्चनीलकपोतयोः ॥
7.1.116 · p. 183
अनुष्टुप्
भूमिका रचनायाञ्च वेशान्तरपरिग्रहे ।भूतीकं भूस्तृणे दीप्ये भूनिम्बे कत्तृणेऽपि च ॥
7.1.117 · p. 183
अनुष्टुप्
मधुका स्त्री मधुपर्ण्यां क्लीबे यष्टिमधुष्वपि ।मशकश्चर्मभेदे स्यात् कीटरोमप्रभेदयोः ॥
7.1.118 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable)
मण्डूको मुनिभेदे च स्यात् शोसाके गाटतेजसि ।भेके मण्डूकपर्ण्यान्तु मण्डूकी धृष्टयोषिति ॥
7.1.119 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मल्लिका हंसभेदे स्यात् मल्लीवृक्षे तु मल्लिका ।मृत्तिका पात्रभेदे च तथा मत्स्यविशेषके ॥
7.1.120 · p. 184
अनुष्टुप्