कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

झूणि

jhūṇi

In 4 kośas: 0 synonym verses, 4 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.16 · p. 196
भेद्याभः कुकरे गुवाकुभिदि तु झूणिः स्त्रियां दुःसुर-स्तुत्यां चाथ कपर्दकीयशतके भाष्येऽपि चूर्णिः स्त्रियाम् ।भूर्णिः स्त्री भुवि पोषके तु परवज्जूर्णिस्तु कान्ता ज्वरेसंतापिन्यपरोपमोऽथ जलदे मूल्ये च वाणिः पुमान् ॥ १६ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 1, syllable 12 तु (wrong syllable)
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास जकारादयः Paramānandīyanāmamālā 5.13.19 · p. 189
झूणिः पूगीफले दण्डे दुष्टदेवश्रुतावपि ।
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.9 · p. 208
क्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् ।चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः ।झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च ।तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके ।द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् ।तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च ।क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च ।स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 2 ष्क (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.128 · p. 135
जेतरीन्द्रेऽर्जुने जिष्णुर्झूणिः कठिनपूगयोः ।तरुणः कुब्जपुष्पेऽपि त्राणं रक्षितरक्षयोः ॥ १२८ ॥
अनुष्टुप्