कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Trikāṇḍaśeṣa

त्रिकाण्डशेष Trikāṇḍaśeṣa

1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)

तृतीयः काण्डः · नानार्थवर्गः (2/5)

राहौ दैत्यान्तरे मुण्डो मूर्ध्न्यस्त्री मुण्डिते त्रिषु ।रण्डा स्याद्विधवौषध्योर्वितण्डा शाकभिद्यपि ॥ ११६ ॥
3.3.116 · p. 131
अनुष्टुप्
शिखण्डौ तु शिखाबर्हौ शुण्डा करिकरः सुरा ।
3.3.122 · p. 131
अनुष्टुप्

इति डान्ताः ।

आषाढो व्रतिनां दण्डे मासे मलयपर्वते ॥ ११७ ॥
3.3.117 · p. 131
अनुष्टुप्
विचेष्टबालिशौ मूढौ राढा स्याद्दीप्तिदेशयोः ।पण्डकञ्चुकिनौ षण्ढौ समूढः पुञ्जिते नवे ॥ ११८ ॥
3.3.118 · p. 131
अनुष्टुप्
भुग्नेऽनुपप्लुप्तेऽप्येष वाच्यलिङ्ग उदीर्यते ।
3.3.125 · p. 132
अनुष्टुप्

इति ढान्ताः ।

अरुणो भास्करेऽनूरौ मञ्जिष्ठातिविषारुणा ॥ ११९ ॥
3.3.119 · p. 132
अनुष्टुप्
त्रिष्वारक्ते व्याकुलेऽथ सूक्ष्मे व्रीह्यन्तरेऽप्यणु ।कीलकाग्र्याश्रिसीमासु स्यादाणिवदणिर्द्वयोः ॥ १२० ॥
3.3.120 · p. 132
अनुष्टुप्
अभीक्ष्णं तु भृशे नित्ये स्यादिन्द्राणीन्द्रयोषिति ।स्त्री बन्धे सिन्धुवारे च चक्षुर्दर्शनमीक्षणम् ॥ १२१ ॥
3.3.121 · p. 132
अनुष्टुप्
उन्मूलनेऽप्युद्धरणमुष्णं दक्षेऽपि नाऽऽतपे ।साधने गीतनृत्यप्रभेदे कायस्थकर्मणि ॥ १२२ ॥
3.3.122 · p. 133
अनुष्टुप्
करणं पुसि सङ्कीर्णे कल्याणं काञ्चने शुभे ।कृष्णो वर्णे हरौ व्यासे कृष्णं मरिचलोहयोः ॥ १२३ ॥
3.3.123 · p. 133
अनुष्टुप्
पिप्पली द्रौपदी कृष्णा हस्तसूत्रेपि कङ्कणम् ।श्रुतिराधेययोः कर्णः पिप्पल्यां जीरके कणा ॥ १२४ ॥
3.3.124 · p. 133
अनुष्टुप्
कोणोऽश्रो वाद्यलगुडे वधे हेतौ च कारणम् ।ग्रहणं स्वीकृतौ हस्ते गुणः स्याद्रज्जुसूदयोः ॥ १२५ ॥
3.3.125 · p. 134
अनुष्टुप्
अङ्गुष्ठानामिकोन्माने गोकर्णोऽहौ मृगेऽपि च ।नासिकाघ्रातयोर्घ्राणं चूर्णं गन्धयुतावपि ॥ १२६ ॥
3.3.126 · p. 134
अनुष्टुप्
वेदांशे बह्वृचादौ च ब्रघ्ने पादेऽपि चास्त्रियाम् ।चरणश्चीर्णपर्णस्तु खर्जूरपिचुमन्दयोः ॥ १२७ ॥
3.3.127 · p. 135
अनुष्टुप्
जेतरीन्द्रेऽर्जुने जिष्णुर्झूणिः कठिनपूगयोः ।तरुणः कुब्जपुष्पेऽपि त्राणं रक्षितरक्षयोः ॥ १२८ ॥
3.3.128 · p. 135
अनुष्टुप्
दुर्वर्णं रजकेऽपि स्याद्गुणोलिः कच्छपी द्रुणी ।द्युमणौ तरणिः पुंसि कुमारीनौकयोः स्त्रियाम् ॥ १२९ ॥
3.3.129 · p. 135
अनुष्टुप्
काष्ठागारेऽम्बुवाहिन्यां शैलसन्धौ च योषिति ।द्रोणी न स्त्री मानभेदे द्रोणः काके कृपीपतौ ॥ १३० ॥
3.3.130 · p. 136
अनुष्टुप्
दक्षिणा दिशि दाने च दक्षिणः सरलेऽपि च ।असती स्याद्धर्षणी च धर्षणं निकृतौ रते ॥ १३१ ॥
3.3.131 · p. 136
अनुष्टुप्
बुद्धमन्त्रे नाडिकायां धारणाऽथ च मज्जने ।निर्वाणं निवृतौ मोक्षे प्रघणोऽस्त्रगृहांशयोः ॥ १३२ ॥
3.3.132 · p. 136
अनुष्टुप्
बोले वाते बले प्राणः पूर्णे पुं भूम्नि चासुषु ।पर्णं पक्षे च पत्रे च प्रोक्षणं सेचने वधे ॥ १३३ ॥
3.3.133 · p. 137
अनुष्टुप्
ग्रन्थे कार्षापणे चास्त्री पुराणमनवे त्रिषु ।पाणिः पादे व्यूहपृष्ठे वाणी व्यूतिश्च भारती ॥ १३४ ॥
3.3.134 · p. 137
अनुष्टुप्
मन्त्रान्यवेदे विप्रौघे क्लीबं ना ब्राह्मणो द्विजे ।लिङ्गाग्रेऽलिञ्जरे मौक्तिकादौ स्त्रीपुंसयोर्मणिः ॥ १३५ ॥
3.3.135 · p. 137
अनुष्टुप्
अजागलस्तने चापि मसृणौ मृद्वकर्कशौ ।निश्मश्रपुरुषोद्दंशौ मत्कुणावथ रोहिणी ॥ १३६ ॥
3.3.136 · p. 138
अनुष्टुप्
नक्षत्रे रोहितायां च रणः क्वणनयुद्धयोः ।लक्ष्मणा सारसी दाशरथिः श्रीमांश्च लक्ष्मणः ॥ १३७ ॥
3.3.137 · p. 138
अनुष्टुप्
छागेऽपि लम्बकर्णः स्याद्वेणुर्वंशे नृपान्तरे ।वाणा झिण्ट्यां शरे वाणो वृष्णिर्यादवमेषयोः ॥ १३८ ॥
3.3.138 · p. 138
अनुष्टुप्
कर्णे श्रुतौ च श्रवणं शरणं मारणेऽपि च ।श्रेणिः पङ्क्तौ सेकपात्रे ने क्लीबं कारुसंहतौ ॥ १३९ ॥
3.3.139 · p. 139
अनुष्टुप्
कषे मासचतुष्के च शाणः शोणो नदेऽरुणे ।पक्के श्राणं यवाग्वां स्त्री श्रीपर्णं गणिकारिका ॥ १४० ॥
3.3.140 · p. 139
अनुष्टुप्
पद्मं च श्रमणा भिक्षुक्यां मुण्डीर्यां च दृश्यते ।सुवर्णं मानभेदेऽपि स्थूणा शूर्मी च दारु च ॥ १४१ ॥
3.3.141 · p. 139
अनुष्टुप्
स्थाणू शङ्कुशिवौ विष्णौ सुषेणः करमर्दके ।कपिवैद्यौ चाथऽहृतौ हरणं यौतकेऽपि च ॥ १४२ ॥
3.3.142 · p. 140
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)

इति णान्ताः ।

मोक्षः सुधा यज्ञशेषोऽयाचितं वारि चामृतम् ।अमृता तु गुडूची स्याद्धरीतक्यामलक्यपि ॥ १४३ ॥
3.3.143 · p. 140
अनुष्टुप्
शेषे विष्णावनन्तो ना गुडूचीदूर्वयोः स्त्रियाम् ।क्लीबं खे त्रिष्वनवधावनन्तं मरणेऽशुभे ॥ १४४ ॥
3.3.144 · p. 140
अनुष्टुप्
चूल्यां च पूर्णिमाभेदेऽनुमतिः सम्मतावपि ।स्वरूपेऽन्तं विनाशे ना न स्त्री शेषेऽन्तिके त्रिषु ॥ १४५ ॥
3.3.145 · p. 141
अनुष्टुप्
गते ज्ञातेऽप्यवसितमवन्तार्वश्वकुत्सितौ ।अर्वती कुम्भदास्यश्वाऽथार्दितं प्रार्थिते हते ॥ १४६ ॥
3.3.146 · p. 141
अनुष्टुप्
क्षिप्राद्रिभेदयोरतः स्याल्लाजेष्वपि चाक्षतम् ।कृषावसत्येऽप्यनृतमाकृतिर्जातिरूपयोः ॥ १४७ ॥
3.3.147 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र (wrong syllable)
आप्तौ लुब्धहितौ दैर्घ्ये भाविकालेऽपि चाऽयतिः ।आचितः शाकटोन्मेयेऽप्यावर्तश्चिन्तनेऽपि च ॥ १४८ ॥
3.3.148 · p. 142
अनुष्टुप्
आयस्तस्तेजिते क्षिप्तेऽथाऽख्यातं तिङि भाषिते ।भ्रंशे तदात्वे चाऽपात आहतं गुणिते हते ॥ १४९ ॥
3.3.149 · p. 142
अनुष्टुप्
मृषोक्ते चाथ दग्धे स्यादुषितं स्थितवत्यपि ।व्यसनार्ते चोऽपरक्त उदितं प्रोक्त उद्गते ॥ १५० ॥
3.3.150 · p. 142
अनुष्टुप्
स्याद्धुस्तूरेऽपि चोन्मत्तः क्षिप्ते शृष्टेऽपि चोऽद्धृतम् ।उत्तप्तं शुष्कमांसेऽपि वह्न्युत्पातेऽप्युपाहितः ॥ १५१ ॥
3.3.151 · p. 143
अनुष्टुप्
उदास्थितश्चरे द्वाःस्थे स्यादूतिः स्यूतिरक्षयोः ।ऋतमुञ्छशिले सत्ये एतावागतकर्बुरौ ॥ १५२ ॥
3.3.152 · p. 143
अनुष्टुप्
ऐरावतो नागरङ्गेऽप्यथ कान्तिर्द्युतीच्छयोः ।किरातौ म्लेच्छभूनिम्बौ कान्तस्तु प्रियरम्ययोः ॥ १५३ ॥
3.3.153 · p. 143
अनुष्टुप्
केतुर्ग्रहोत्पातचिह्ने कलितं विदिताप्तयोः ।कपोतः पक्षिमात्रेऽपि गुप्तं रक्षितगूढयोः ॥ १५४ ॥
3.3.154 · p. 144
अनुष्टुप्
गतिर्यात्रादशोपायाः शण्डः सूर्यश्च गोपतिः ।गृही सत्री गृहपतिर्गीतं शब्दितगानयोः ॥ १५५ ॥
3.3.155 · p. 144
अनुष्टुप्
गर्जितं स्तनिते नेभे ग्रस्तं वाग्भेदभुक्तयोः ।चर्मण्वत्यौ नदीरम्भे जातं व्यक्तौघजन्मसु ॥ १५६ ॥
3.3.156 · p. 145
अनुष्टुप्
सूर्यावर्तेऽपि जामाता ना वाते पिष्टपे जगत् ।जातिश्छन्दसि मालत्यां चुल्ल्यां जातीफले कुले ॥ १५७ ॥
3.3.157 · p. 145
अनुष्टुप्
व्याप्तविस्तृतवाद्येषु ततं तिक्तं सुगन्ध्यपि ।चापे तृणत्वे तृणता तातः पित्रनुकम्पयोः ॥ १५८ ॥
3.3.158 · p. 145
अनुष्टुप्
दुर्गतिर्नरके नैःस्व्ये दुर्जातं व्यसनेपि च ।दिवाभीत उलूके स्यात्कुम्भिले कुमुदाकरे ॥ १५९ ॥
3.3.159 · p. 146
अनुष्टुप्
विसृष्टे रक्षिते दत्तं द्रुतं शीघ्रविलीनयोः ।दशने शैलशृङ्गे च दन्तः स्यादौषधे स्त्रियाम् ॥ १६० ॥
3.3.160 · p. 146
अनुष्टुप्
दितिः खण्डनदैत्याम्बे धृतिस्तुष्टौ क्रतावपि ।राशौ च धातुनिर्वाणे सुस्थितत्वे च निर्वृतिः ॥ १६१ ॥
3.3.161 · p. 146
अनुष्टुप्
अस्वाध्याये कुरूपे च प्रत्युक्तौ स्त्री निराकृतिः ।जम्ब्वां स्त्री ना नदीकान्तः सिन्धुवारे जलाब्धिषु ॥ १६२ ॥
3.3.162 · p. 147
अनुष्टुप्
निमित्तं हेतुचिह्नाङ्गशकुनोद्देश्यपर्वसु ।प्रस्तुतः कुब्जिते पाणौ जङ्घायां स्त्री गते त्रिषु ॥ १६३ ॥
3.3.163 · p. 147
अनुष्टुप्
प्रकृतिर्गुणसाम्ये स्यात्स्वभावामात्ययोरपि ।प्रतीकारे प्रतिकृतिः प्रतिबिम्बेऽथ पद्धतिः ॥ १६४ ॥
3.3.164 · p. 147
अनुष्टुप्
पङ्क्तौ मार्गेऽपि पूतं तु पवित्रे बहुलीकृते ।श्रेणिर्दश च पङ्क्तिः स्यात्प्रसूतिर्जन्मतोकयोः ॥ १६५ ॥
3.3.165 · p. 148
अनुष्टुप्
प्रतिपत्तिश्चित्प्रवृत्तिः प्राप्तिः प्रागल्भ्यगौरवे ।पारावती गोपगीतिलवलीफलयोरपि ॥ १६६ ॥
3.3.166 · p. 148
अनुष्टुप्
पलितं कर्दमेऽपि स्याद्विधौ भूपे प्रजापतिः ।शक्ते निवारणे वृत्तौ पर्याप्तं स्याद्यथेप्सिते ॥ १६७ ॥
3.3.167 · p. 148
अनुष्टुप्
प्रेतो मृते प्राणिभेदे पित्सन्पातेच्छुपक्षिणोः ।क्लीबं बिन्दौ पृषन्तेणे पृषतोऽप्यनयोर्नरि ॥ १६८ ॥
3.3.168 · p. 149
अनुष्टुप्
खातादौ पूरिते पूर्तं पातो भ्रंशे च रक्षिते ।प्रेषिते च प्रतिक्षिप्तं प्रतीतः सादरेऽपि च ॥ १६९ ॥
3.3.169 · p. 149
अनुष्टुप्
प्लुतः स्वरे चाऽभियुक्तहतौ च प्रार्थितौ स्मृतौ ।द्विष्टेऽपि च प्रतिहतः पिण्डितं गुणिते घने ॥ १७० ॥
3.3.170 · p. 149
अनुष्टुप्
प्राप्ते ज्ञाते परिगतं प्रपातौ भृगुनिर्झरौ ।लोकायते कच्छपे च पञ्चगुप्तः स्मृतो बुधैः ॥ १७१ ॥
3.3.171 · p. 150
अनुष्टुप्
लब्धे समञ्जसे प्राप्तं पक्तिर्गौरवपाकयोः ।पारिजातो देवतरौ मन्दारे पारिजातके ॥ १७२ ॥
3.3.172 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
वृत्तिवार्ताप्रवाहेषु प्रवृत्तिरथ घोटके ।पाने च पीतिः सिक्ते तु प्रोक्षितं निहतेऽपि च ॥ १७३ ॥
3.3.173 · p. 150
अनुष्टुप्
रामानुजे नाट्यशास्त्रे दौष्मन्तौ भरतो नटे ।जिने पूज्ये च भगवान्भोगवानाढ्यनागयोः ॥ १७४ ॥
3.3.174 · p. 150
अनुष्टुप्
सेवाविभागयोर्भक्तिर्भवद्युष्मत्सदर्थयोः ।पक्षिण्यां वाचि वृत्तौ च भारती भारतं पुनः ॥ १७५ ॥
3.3.175 · p. 151
अनुष्टुप्
जम्बुद्वीपे व्यासकृतौ भूतिर्भरणमूल्ययोः ।कुड्यभेदनयोर्भित्तिर्भास्वन्तौ सूर्यभास्वरौ ॥ १७६ ॥
3.3.176 · p. 151
अनुष्टुप्
पृथिवीजननीगावो ब्रह्माण्याद्याश्च मातरः ।मूर्धाभिषिक्तोऽमात्येऽपि मुक्तौ निर्वृतमोचितौ ॥ १७७ ॥
3.3.177 · p. 152
अनुष्टुप्
मूर्तं स्यात्त्रिषु मूर्च्छाले कठिने मूर्तिमत्यपि ।मतिरिच्छाप्थथ यतिः पाठच्छेदे मुनौ पुमान् ॥ १७८ ॥
3.3.178 · p. 152
अनुष्टुप्
न्याययोजनयोर्युक्तिः पाश्यब्धी यादसाम्पती ।रेवती हलिपत्न्यां भे स्मरपत्न्यां रतेः रतिः ॥ १७९ ॥
3.3.179 · p. 152
अनुष्टुप्
रिक्तं वनेऽपि रीतिस्तु लोहकिट्टारकूटयोः ।रोहितमुजुक्रास्त्रे रक्ते ना मृगमीनयोः ॥ १८० ॥
3.3.180 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शैलभेदे सुवर्णालौ शङ्करेऽपि च रैवतः ।स्वर्णाद्यक्तेऽपि रसितं कस्तूरीपृक्कयोर्लता ॥ १८१ ॥
3.3.181 · p. 153
अनुष्टुप्
वर्तुलाधीतयोर्वृत्तं वार्त कुशलनीरुजोः ।वासेऽपि वसतिर्वृक्षमात्रेऽपि च वनस्पतिः ॥ १८२ ॥
3.3.182 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 र्त (wrong syllable)
वर्तने विवृतौ वृत्तिर्वर्तिदीपदशास्वपि ।लाभसम्बन्धयोर्व्याप्तिर्विश्वस्ता विधवापि च ॥ १८३ ॥
3.3.183 · p. 154
अनुष्टुप्
छेदे विनाशै विच्छित्तिर्विगतौ वीतनिष्प्रभौ ।असारेऽश्वेभयोर्वीतं वीतमङ्कुशकर्मणि ॥ १८४ ॥
3.3.184 · p. 154
अनुष्टुप्
अभ्युद्गते विकसिते चेष्टिते च विजृम्भितम् ।विकृतौ रोगिबीभत्सौ वित्तं ख्याते धनेऽपि च ॥ १८५ ॥
3.3.185 · p. 154
अनुष्टुप्
दृढेऽपि व्यायतं शुक्तिमुक्तास्फोटाश्वलक्ष्मणोः ।अत्रभेदेऽपि शुक्तिः स्याच्छान्तिः स्यान्मङ्गले शमे ॥ १८६ ॥
3.3.186 · p. 155
अनुष्टुप्
वेतसेऽपि च शीतो ना शुक्तं पूताम्लनिष्ठुरम् ।शितिर्भूर्जे सिते कृष्णै श्रीमन्तौ तिलकेश्वरौ ॥ १८७ ॥
3.3.187 · p. 155
अनुष्टुप्
ब्रह्मशक्रौ शतधृती वार्तायां श्रवणे श्रुतिः ।दुर्बले निशिते स्यातां शितशातावथो वचः ॥ १८८ ॥
3.3.188 · p. 156
अनुष्टुप्
सरस्वती सरिद्गौश्च सूती वन्दिनि पारदे ।स्मृतिः स्याद्धर्मशास्त्रेऽपि प्रवाहेऽपि च सन्ततिः ॥ १८९ ॥
3.3.189 · p. 156
अनुष्टुप्
रणे सभायां समितिः स्तिमितौ क्लिन्ननिश्चलौ ।स्थपतिः कञ्चुकी कारुभेदो गीर्पतियागकृत् ॥ १९० ॥
3.3.190 · p. 156
अनुष्टुप्
सम्बन्धेऽपि च संवित्तिर्मर्यादायामपि स्थितिः ।सीता लाङ्गलरेखा स्याद्व्योमगङ्गा च जानकी ॥ १९१ ॥
3.3.191 · p. 157
अनुष्टुप्
सूनृतं कुशले सत्ये सुदोहा गौश्च सुव्रता ।शर्कराऽपि सिताऽथोर्ध्वे सत्प्रतिज्ञेऽपि च स्थितः ॥ १९२ ॥
3.3.192 · p. 157
अनुष्टुप्
सती कात्यायनीसाध्व्योः सङ्घातो नरके चये ।हरीतकी हैमवती गौरी शुक्लवचावपि ॥ १९३ ॥
3.3.193 · p. 157
अनुष्टुप्
स्त्री हरिद्दिशि वर्षे ना दूर्वाऽपि हरिता मता ।
3.3.201 · p. 158
अनुष्टुप्

इति तान्ताः ।

अतिथिः कुशपुत्रेऽपि हरीतक्यपि चाव्यथा ॥ १९४ ॥
3.3.194 · p. 158
अनुष्टुप्
अपेक्षालम्बनं चास्था स्यादर्थो विषयेऽपि च ।भटे पुंस्यप्रतिरथं यात्रामङ्गलसाम्नि च ॥ १९५ ॥
3.3.195 · p. 158
अनुष्टुप्
उन्माथः कूटयन्त्रेऽपि कुथः कम्बलबर्हिषोः ।काशे क्षुते च क्षवथुर्ग्रन्थो द्वात्रिंशदक्षरे ॥ १९६ ॥
3.3.196 · p. 158
अनुष्टुप्
धनं च ग्रन्थना चाऽपि तीर्थं तूपाययोगयोः ।कट्यंशवणयोः प्रोथो वीथिः पङ्क्तौ गृहांशके ॥ १९७ ॥
3.3.197 · p. 159
अनुष्टुप्
वानप्रस्थो मधूकेऽपि स्यात्तृतीयेऽपि चाश्रमे ।काकोल्यामलकी ब्राह्मी वयःस्था तरुणे त्रिषु ॥ १९८ ॥
3.3.198 · p. 159
अनुष्टुप्
सूर्यमन्थानयोर्मन्थः साक्तवेऽप्यथ मन्मथः ।कपित्थे कामदेवेऽपि रथः पौरुषदेहयोः ॥ १९९ ॥
3.3.199 · p. 160
अनुष्टुप्
पुंसि स्त्रियां च षड्ग्रन्थः करञ्जवचयोः क्रमात् ।सिद्धार्थः सर्षपे बुद्धे संस्था स्थितिविनाशयोः ॥ २०० ॥
3.3.200 · p. 160
अनुष्टुप्
संस्थः समाप्तिक्रतुषु वरूथो निजराष्ट्रकः ।सिक्थो भक्तपुलाके ना मधूच्छिष्टे नपुंसकम् ॥ २०१ ॥
3.3.201 · p. 160
अनुष्टुप्

इति थान्ताः ।

अष्टापदं शारिफले सुवर्णोऽस्त्री पशौ पुमान् ।वामनेभ्यां स्त्रियां क्लीबं केयूरे नाऽङ्गदः कपौ ॥ २०२ ॥
3.3.202 · p. 161
अनुष्टुप्
अर्बुदो रुजि सङ्ख्यायामामोदो गन्धहर्षयोः ।रहस्ये स्यादुपनिषत्समीपसदनेऽपि च ॥ २०३ ॥
3.3.203 · p. 161
अनुष्टुप्
कन्दोऽस्त्री शूरणे मूले राजलिङ्गविषाणयोः ।स्त्री ककुत्कडकन्दस्तु शृङ्गवेररसोनयोः ॥ २०४ ॥
3.3.204 · p. 161
अनुष्टुप्
स्त्री गभ्भार्यां क्लीबमब्जे दिङ्नागे कुमुदः कपौ ।पुष्पे क्लीबं भ्रमौकुन्दः क्षोदो रजसि पेषणे ॥ २०५ ॥
3.3.205 · p. 162
अनुष्टुप्
शिवजूटे वराटेऽपि कपर्दोऽथाऽमये गदः ।विष्णोर्भ्रातरि चास्त्रे स्त्री पलाशे गरुति च्छदः ॥ २०६ ॥
3.3.206 · p. 162
अनुष्टुप्
देशे जने जनपदौ निषादौ श्वपचस्वरौ ।वाक्ये शब्दे प्रदेशेऽपि पदं पापस्तु न द्वयोः ॥ २०७ ॥
3.3.207 · p. 162
अनुष्टुप्
मूले प्रत्यन्तशैले च प्रसादस्त्वनुरोधने ।स्वास्थ्ये काव्यगुणे चाऽथ प्रतिपत्तिथिसंविदोः ॥ २०८ ॥
3.3.208 · p. 163
अनुष्टुप्
विप्रुट् ज्ञाता च बिन्दुः स्यान्मन्दौ स्वैरशनैश्चरौ ।हस्तिभेदश्चाऽथ मदः स्यात्कस्तूरीभदानयोः ॥ २०९ ॥
3.3.209 · p. 163
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चाऽ (wrong syllable)
गर्वे शुक्रेऽथ माकन्द्यामलक्यां नाऽम्रपादपे ।मर्यादा धारणासीम्नोर्महानादो गजेऽपि च ॥ २१० ॥
3.3.210 · p. 163
अनुष्टुप्
मेनादस्तु त्रयश्छागमार्जारकशिखण्डिनः ।विशदः पाण्डरे व्यक्ते शारदोजलदेऽपि च ॥ २११ ॥
3.3.211 · p. 164
अनुष्टुप्
स्त्रियां च शारदी तोयपिप्पलीसप्तपर्णयोः ।संवित्सङ्केतकेऽपि स्यात्समर्यादोन्तिके स्थिरे ॥ २१२ ॥
3.3.212 · p. 164
अनुष्टुप्
व्यञ्जने सूपकरे व सूदः सूपवदिष्यते ।घर्मस्वेदनयोः स्वेदः सम्पल्लक्ष्म्यां समुच्चये ॥ २१३ ॥
3.3.213 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)

इति दान्ताः ।

खण्डे ना समभागेऽर्धमवधिः सीमकालयोः ।आविद्धं प्रहतं चक्रमानद्धं वाद्यबद्धयोः ॥ २१४ ॥
3.3.214 · p. 165
अनुष्टुप्
अलङ्कारेऽपि चाबद्धः प्रत्याशाऽप्याधिरुच्यते ।कुटुम्बव्यापृते धर्मचिन्तायां च विशेषणे ॥ २१५ ॥
3.3.215 · p. 165
अनुष्टुप्
उपाधिरुग्रगन्धरन्तु वचा क्षेत्रयमानिके ।उपलब्धिर्मतिप्राप्त्योरृद्धिः सम्पदि चौषधे ॥ २१६ ॥
3.3.216 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
राहौ शिरःशून्यकाये कबन्धः क्लीबमम्बुनि ।गोधा तले निहाकायां गन्धो गर्वे लवेऽपि च ॥ २१७ ॥
3.3.217 · p. 166
अनुष्टुप्
दोग्धा गोपे कवौ वत्से दुग्धं क्षीरे प्रपूरिते ।दिग्धं लिप्ते विषाक्ते च दुर्विधौ खलदुर्गतौ ॥ २१८ ॥
3.3.218 · p. 166
अनुष्टुप्
रोधे निरोधो नाशे च बुद्धो ज्ञाते जिने बुधे ।निषेधे बुद्धयोर्बाधो रौहिणेये कवौ बुधः ॥ २१९ ॥
3.3.219 · p. 166
अनुष्टुप्
दैत्येचैत्रवसन्तेषु द्रुमभेदे च ना मधुः ।मिद्धं चिन्तातिसंक्षेये निद्रायां चाऽथ मागधी ॥ २२० ॥
3.3.220 · p. 167
अनुष्टुप्
पिप्पल्यां यूथिकायां ना लग्ने मगधजे त्रिषु ।लशुनेऽतिविषायां च शुण्ठ्यामपि महौषधम् ॥ २२१ ॥
3.3.221 · p. 167
अनुष्टुप्
सीता योजनगन्धा स्यात्कस्तूरी व्याससूरपि ।विधिर्ब्रह्मणि काले च प्रकारे वेधने विधा ॥ २२२ ॥
3.3.222 · p. 167
अनुष्टुप्
पृक्का महिला च वधूर्विश्वस्तोऽनुद्धतश्च विश्रब्धः ।विश्रब्धं बाढार्थं शुद्धं त्रिषु पूतकेवलयोः ॥ २२३ ॥
3.3.223 · p. 168
आर्या
श्राद्धं निवापे श्रद्धालौ त्रिषु साधुर्धनिन्यपि ।स्कन्धः सङ्घेऽपि सिद्धस्तु नित्यनिष्पन्दनाकिषु ॥ २२४ ॥
3.3.224 · p. 168
अनुष्टुप्
सन्धिः पुमान्सुरङ्गायां भेदे संघट्टने भगे ।
3.3.233 · p. 169
अनुष्टुप्

इति धान्ताः ।

कुले ख्यातौ चाऽभिजनः स्यादध्वा कालवर्त्मनोः ॥ २२५ ॥
3.3.225 · p. 169
अनुष्टुप्
अतिवृत्तेऽवदानं स्यात्कर्मखण्डनयोरपि ।अग्रजन्माऽग्रजे विप्रे स्यादन्नं भक्तभुक्तयोः ॥ २२६ ॥
3.3.226 · p. 169
अनुष्टुप्
विनीते विप्रभेदे चाऽनूचानोऽर्थी विवाद्यपि ।अन्तावसायी चाण्डाले मुनिभेदे च नापिते ॥ २२७ ॥
3.3.227 · p. 169
अनुष्टुप्
अश्वकुत्सितयोरर्वा वज्रे विद्युति चाऽशनिः ।वर्णमात्रे विसर्गे चाऽभिनिष्णानोऽथ हैहये ॥ २२८ ॥
3.3.228 · p. 170
अनुष्टुप्
पार्थे द्रुमे मयूरे ना अर्जुनस्त्रिषु पाण्डरे ।अर्जुनी गव्युषायां च भृङ्गवृश्चिकयोरली ॥ २२९ ॥
3.3.229 · p. 170
अनुष्टुप्
आत्मा मनस्याकलनं विबन्धपरिसङ्ख्ययोः ।आवेशनं शिल्पगेहे भूतावेशेऽथ गेन्दुके ॥ २३० ॥
3.3.230 · p. 170
अनुष्टुप्
विशेषे चोपधानं स्याच्चुल्ल्यामुद्धानमुद्गमे ।अगम्भीरेऽपि चोत्तानः शराभ्यासेऽप्युपासनम् ॥ २३१ ॥
3.3.231 · p. 171
अनुष्टुप्