All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · णान्ताः
इति ढान्तवर्गः ॥
णकारः कीर्तितो ज्ञाने निर्णयेऽपि निगद्यते ।
7.15.1 · p. 207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
अणुर्ना व्रीहिभेदे स्यात्सूक्ष्मे तु वाच्यलिङ्गकः ॥
7.15.2 · p. 207
अनुष्टुप्metre not read in every line
अणिराणिर्युद्धबन्धे सीम्नि चक्राङ्गकीलके ।उष्णोऽशीते दक्षे च वाच्यलिङ्गः शुचौ पुमान् ॥
7.15.3 · p. 207
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ते (syllables merged)
ऊर्णा स्यादन्तरावर्ते भ्रुसोर्मेषादिलोमनि ।कर्णः स्यात्तु पृथापुत्रे श्रवणे काञ्चनी(?) त्रिषु(?) ॥क्षण पर्वण्युत्सवे च कालमानेऽपि न द्वयोः ।कणा तु जीवके चाल्पपिप्पलीमक्षिकासु च ॥
7.15.4 · p. 207
अनुष्टुप्
काणोऽतिसूक्ष्मे धान्यांशे काणः काकैकचक्षुषोः ॥
7.15.5 · p. 207
कीर्णः श्लक्ष्णे विनिक्षिप्ते हिंसिते वाच्यलिङ्गकः ।कृष्णो व्यासे वायसे च केशवार्जुनयोरपि ।कृष्णा च द्रौपदी द्राक्षा कणा नीलीषु च स्त्रियाम् ॥
7.15.6 · p. 207
अनुष्टुप्
मोचके वाच्यलिङ्गः स्यादस्त्री लोहमरिचके ।कोणो गृहाद्येकदेशे वीणादीनाञ्च वादने ।वाद्यप्रभेदे लगुडे तथाग्रे च पुमानयम् ॥
7.15.7 · p. 207
अनुष्टुप्metre not read in every line
गणश्च प्रमथे वृन्दे संख्यायां सैनिकेऽपि च ।गुणः सूत्रे चाप्रधाने मौर्व्वी त्यागवटीषु च ॥कषादिशौर्यगन्धादिसत्त्वाद्यावृत्तिरज्जुषु ।शुक्लादावपि पुंसि स्याद् गेष्णुर्ना गायने नटे ॥
7.15.8 · p. 207
अनुष्टुप्
क्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् ।चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः ।झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च ।तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके ।द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् ।तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च ।क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च ।स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥
7.15.9 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 2 ष्क (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
घ्राण=नासिकाघ्रातचूर्ण=धूलिक्षारभेदपटयुक्तिजिष्णु=महेन्द्रअर्जुनजित्वरझूणि=गुवाकभेददुटदैवश्रुतित्राण=त्रायमाणारक्षितरक्षणतीक्ष्ण=विषलौहआजिमुष्ककलवणआत्मत्यागिन्तीव्रयवाग्रकद्रोण=आढकआढकचतुष्टयदेशभेदभारद्वाजदग्धकाककाष्ठाम्बुवाहिनीगवादनीपण=वराटकमूल्यगृहकार्षापणक्रय्यद्यूतभृतिवित्तव्यवहारपार्ष्णि=सैन्यपृष्ठपादग्रन्थ्यधरउन्मत्तकान्तापार्ष्णी=प्राण=अनिलबलकाव्यजीवहृदयमारुत
वोले ना पूरिते वाच्यलिङ्गः पुंभूम्नि चामुषु ।पूर्णः समग्रे शब्दे ना प्यायिते चाभिधेयवत् ॥
7.15.10 · p. 208
अनुष्टुप्
कण्ठदेशस्तनेऽजानां योनिलिङ्गाग्रभागयोः ।मोणः शुष्कफले सर्गे कुम्भीरे मक्षिकास्वपि ॥
7.15.13 · p. 208
अनुष्टुप्
रणोऽस्त्री समरे पुंसि स्वने कणे गतावपि ।वर्णो यशोगुणकुथाद्विजशुक्लादिषु स्तुतौ ॥
7.15.14 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
पुमांस्तु न स्त्रियां रूपभेदाक्षरविलेपने ।वारणो दैत्यान्तरे काण्डे केवले गोस्तनेऽपि च ॥
7.15.15 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वाणा द्वयोर्नीलझिण्ट्यां वानमूले स्त्रियामपि ।वीणा तडिति वल्लव्यां रुद्रवीणादिषु स्त्रियाम् ॥
7.15.16 · p. 208
अनुष्टुप्
वृष्णिर्ना यादवे मेषे त्रिषु पाषण्डचण्डयोः ।वेणीकेशबन्धने स्यान्नदीभिद्देवताभिदोः ॥
7.15.17 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श (wrong syllable)
वेणुनृपान्तरे वंशे वाद्यभेदेऽपि पुंस्ययम् ।शाणो माषचतुष्के स्यान्निकषे लोहवस्तुनः ॥
7.15.18 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 नृ (wrong syllable)
शाणीहस्तकटाक्षादिसूचनावरणान्तरे ।शीर्णं तनौ विशीर्णे च श्राणं यावागूपक्कयोः ॥
7.15.19 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 गू (wrong syllable)
श्रेणी स्त्रीपुंसयोः पङ्क्तौ समानशिल्पिसंहतौ ।शोणोऽग्रौ लोहिताश्वे च श्योनाके लोहिते पुमान् ॥
7.15.20 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
स्थाणुरस्त्री ध्रुवे पुंसि कीले स्मरहरेऽपि च ।स्थूणा लोहप्रतिमायां गृहस्तम्भेऽपि च स्त्रियाम् ॥
7.15.21 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
अरुणोऽर्केऽव्यक्तरागे निःशब्दे सूर्यसारथौ ।सन्ध्यारागे कुष्ठभेदे कपिले तद्वति त्रिषु ॥
7.15.22 · p. 209
अनुष्टुप्
आभीक्ष्णमत्यर्थे नित्ये च तद्युक्ते क्रियायां त्रिषु ।इन्द्राणीसिन्धुवारेस्याच्शच्याञ्च करणे स्त्रियाम् ॥
7.15.25 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ईक्षणं नयने दृष्टौ ईरिणं शून्य उषरे ।उषणा स्त्रीकणायां स्यादुषणं मरिचेऽपि च ॥एषणी व्रणमार्गानुसारिण्यां मानभेदके ।करुणा स्त्री कृपायाञ्च करुणो रसवृक्षयोः ॥
7.15.26 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 उ (wrong syllable)
करणं कर्मणि क्षेत्रे हेतौ च साद्वरादिषु ।हस्तलेपे नृत्यगीतप्रभेदे साधनेऽपि च ॥
7.15.27 · p. 209
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
कायस्थेन्द्रियकायेषु क्लीबं ना वर्णसङ्करे ।कल्याणं मङ्गले क्लीबं तथा चाक्षयकाञ्चते ॥
7.15.28 · p. 209
अनुष्टुप्
कङ्कणं मण्डने सूत्रे कौतुके करभूषणे ।करेणुः स्त्री तु हस्तिन्यां मातङ्गे तु भवेत्पुमान् ॥कार्मणः कर्मठे क्लीबं मन्त्रतन्त्रादि योजने ।काकिनीमानदण्डे स्यात्पणतूर्यांशकेपि च ॥
7.15.29 · p. 209
अनुष्टुप्
वराट्यामपि गुञ्जायां काकनीत्यपि कुत्रचित् ।कारणं करणे हेतौ यातनायान्तु कारणा ॥
7.15.30 · p. 209
अनुष्टुप्
कुर्वाणः कारके भृत्ये कृपणः कुत्सिते कृशे ।कृमौ तु कृपणः पुंसि चान्यत्र द्वितये त्रिषु ।कृपाणः पुंसि खङ्गे स्याच्छुरिकायामपि स्त्रियाम् ॥
7.15.31 · p. 209
अनुष्टुप्
प्रेरणे क्लीबलिङ्गं स्यात्तथाक्षेपोपदेशयोः ।ग्रहणं स्वीकृतौ वन्द्यामुपलब्ध्युपरागयोः ॥
7.15.32 · p. 209
अनुष्टुप्
स्यात्करादरयो राजभागधेये न च द्वयोः ।ग्रामणीर्नापिताध्यक्षप्रधानभोगिकेषु ना ।ग्रामीणा नीलिकौषध्यां ग्रामोद्भूते तु वाच्यवत् ॥
7.15.33 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
गोकर्णोऽनामिकाङ्गुष्ठमाने चाश्चतरेऽपि च ।मृगसर्पगणे पुंसि गोकर्णीमूर्विकाद्रुमे ॥
7.15.34 · p. 209
अनुष्टुप्
चरणोऽस्त्रीपदे गोत्रे मूले च बह्वृचादिके ।नपुंसकन्तु भ्रमणेऽप्याचारादनयोरपि ॥
7.15.35 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
जरणो जीरके जीर्णे कृष्णे सौवर्चलेऽपि च ।जरणं हिङ्गुनि ख्यातं क्लीबं स्यादोषधीभिदि ॥
7.15.36 · p. 210
अनुष्टुप्
तरुणः कुब्जपुष्पे ना चित्रके यूनि च त्रिषु ।तरणिः पुंसि मार्तण्डे कुमारीनौकयोः स्त्रियाम् ॥
7.15.37 · p. 210
अनुष्टुप्
दक्षिणः सरले छन्दवर्तिदक्षिणजातयोः ।आरामे त्रिषु यागान्तदाने च दिशि च स्त्रियाम् ॥
7.15.38 · p. 210
अनुष्टुप्
द्रविणं काञ्चने वित्ते पराक्रमे च न द्वयोः ।द्रुघणो द्रुहिणेऽपि स्याद् मुद्गरे च परश्वधे ॥
7.15.39 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्र (wrong syllable)
धरणं स्यान्मानभेदे धारणे धरणी भुवि ।धरुणः सम्मते स्वर्गे सलिले च पितामहे ॥
7.15.40 · p. 210
अनुष्टुप्
धारणी नाडिकायाञ्च बृद्धोक्तमन्त्रभिद्यपि ।धारणा स्यात्तु योगाङ्गे न पुमांस्तु विधारणे ॥
7.15.41 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्त (wrong syllable)
निर्याणं क्लीबलिङ्गं स्यान्मतङ्गापाङ्गमोक्षयोः ।निर्माणं निर्मितौ सारे परिमाणे हमञ्जसे ॥
7.15.42 · p. 210
अनुष्टुप्
निर्वाणं निर्वृतावस्तगमने गजमञ्जने ।सङ्गमे निश्चले मोक्षे शून्ये विद्योपदेशने ॥
7.15.43 · p. 210
अनुष्टुप्
प्रघाणस्ताम्रकलसे चालिन्दे लोहमुद्गरे ।प्रमाणं नित्यमर्यादाशास्त्रहेतुप्रमातृषु ॥
7.15.46 · p. 210
अनुष्टुप्
इयत्ता परिमाणार्थप्रधानसत्यवादिषु ।पक्षिणी पूर्णिमायां स्याद् विहङ्गीशाकिनीभिदोः ॥
7.15.47 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
आगामिवर्तमानाहर्युक्तायां रजनावपि ।प्रवेणी च कुथावेण्योः पूरणं पूरपिण्डयोः ॥
7.15.48 · p. 210
अनुष्टुप्
पूरणी तु पटारम्भसूत्रे शाल्मलीभूरुहे ।प्रोक्षणं क्लीबलिङ्गं स्यात्सेचने च वधेऽपि च ॥
7.15.49 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ली (wrong syllable)
पुराणस्तु पणे पुंसि त्रिषु स्याच्च पुरातने ।अस्त्री कार्षापणे क्लीबलिङ्गन्तु पञ्चलक्षणे ॥
7.15.50 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)
वरुणस्तरुभेदे स्याज्जले पश्चिमदिक्पातौ ।वरणं पूजनादौ ना प्राकारतिक्तशाकयोः ॥
7.15.51 · p. 210
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 क्पा (wrong syllable); pāda 4, syllable 3 र (wrong syllable)
ब्राह्मणः स्याद्द्विजे पुंसि फक्किकापृक्कयोः स्त्रियाम् ।स्याद्वेगभागके ब्रह्मसमूहे च नपुंसकम् ॥
7.15.53 · p. 211
अनुष्टुप्
वारुणी स्यात्सुरागण्डदूर्वापश्चिमदिक्षु च ।भरणी तारकाभेदे तथा घोषकभूरुहे ॥
7.15.54 · p. 211
अनुष्टुप्
भरणं पोषणादौ च क्लीबं स्याद्वेतने भृतौ ।भीषणो रसशल्लक्योः प्रघाढे दारुणे त्रिषु ॥
7.15.55 · p. 211
अनुष्टुप्
मत्कुणो नारिकेले स्यादुद्दंशादन्तकुम्भिनोः ।अजातश्मश्रुपुरुषेऽजातलोमभगे स्त्रियाम् ॥
7.15.56 · p. 211
अनुष्टुप्
मार्गणो याचके बाणे क्लीबमन्वेषणार्थयोः ।यन्त्रणं स्यान्नियमने बन्धने रक्षणेऽपि च ॥रवणः शब्दने तीक्ष्णे भण्डके चञ्चलेऽपि च ।रमणं पटुमूले स्यान्नार्यां स्त्री स्यात्प्रिये पुमान् ॥रोषणः क्रोधने हेमघर्षणाश्मनि पारदे ॥
7.15.57 · p. 211
अनुष्टुप्
रोहिणी कण्ठरुग्तारासोमवल्ककटम्भरेः ।लवणं सैन्धवादौ तु ना सिन्धौ रसरक्षसोः ॥
7.15.58 · p. 211
अनुष्टुप्
नदीभेदे च दीप्तौ च स्त्रियां तत्संयुते त्रिषु ।लक्षणः स्याद्दाशरथौ लक्षणं नामचिह्णयोः ॥
7.15.59 · p. 211
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्दा (wrong syllable)
प्रतीत्यनुपपत्तौ स्त्री सारस्यां लक्षणापि च ।लक्ष्मणोऽपि च सश्रीके सुमित्रानन्दनेऽपि च ॥
7.15.60 · p. 211
अनुष्टुप्
स्त्रियां स्यादोषधीभेदे सारस्यामपि लक्ष्मणा ।विषाणी क्षीरकाकल्यामजशृङ्ग्यामपि स्त्रियाम् ॥
7.15.61 · p. 211
अनुष्टुप्
पशुशृङ्गे हस्तिदन्ते त्रिषु क्लीबन्तु कुष्ठके ।विपणिः स्त्री पण्यवीथ्यां पण्ये स्यादापणेऽपि च ॥
7.15.62 · p. 211
अनुष्टुप्
शरणं घातके गेहे रक्षणे रक्षकेऽपि च ।श्रवणन्तु श्रुतौ कर्णे न पुंसि तारकाभिदि ॥
7.15.63 · p. 211
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
श्रमणो यतिभेदे स्यात्त्रिषु स्यान्निन्द्यजीविषु ।भवेत्सुदर्शनायां स्त्री मुण्डीरीष्वपि च स्त्रियाम् ॥
7.15.64 · p. 211
अनुष्टुप्
सिङ्घाणं नासिकालोहमले स्यात्काचपात्रके ।श्रीपर्णी कुम्भिगम्भार्यो क्लीबे पद्माग्निमन्थयोः ॥
7.15.65 · p. 211
अनुष्टुप्
संकीर्ण निश्चिते व्याप्ते स्यादशुद्धे तु वाच्यवत् ।सरणिः पथि पंक्तौ स्त्री सारणो रोगरक्षसोः ॥
7.15.66 · p. 211
अनुष्टुप्
सारणी स्वल्पनद्यान्तु प्रसारण्यामपि स्त्रियाम् ।सुषेणः कपिवैद्ये स्यात्करमर्दे च केशवे ॥सुवर्णः स्वर्णकर्षे स्यात्सुष्ठुवर्णे च वाच्यवत् ।रुक्मचन्दनयोः क्लीबे स्त्रियां कृष्णागुरुण्यपि ॥
7.15.67 · p. 211
अनुष्टुप्
सुपर्णः कृतमाले स्याद् गरुडे स्वर्णचूडके ।सुपर्णा विनतायाञ्च कमलिन्यामपि स्त्रियाम् ॥
7.15.68 · p. 212
अनुष्टुप्
हरणुर्ना सतीले स्त्री रेणुकायां कुलस्त्रियाम् ।हरणं यौतुकद्रव्ये भुजे च हरणेऽपि च ॥
7.15.69 · p. 212
अनुष्टुप्
हरिणस्तु मृगे पुंसि विषदे(?) वाच्यलिङ्गकः ।हरिणी हरितायाञ्च वृत्तनारीविशेषयोः ॥
7.15.70 · p. 212
अनुष्टुप्
काञ्चनप्रतिमायाञ्च तरुण्याञ्च वरस्त्रियाम् ।हर्षणी योगभेदे स्याच्चक्षूरोगविशेषके ॥
7.15.71 · p. 212
अनुष्टुप्
अङ्गारिणी हसन्त्याञ्च रवित्यक्तदिशि स्त्रियाम् ।आतर्पणन्तु मङ्गल्ये लेपने प्रीणनेऽपि च ॥
7.15.73 · p. 212
अनुष्टुप्
उत्क्षेपणं धान्यमर्दवस्तुनि व्यञ्जनेऽपि च ।स्यादुद्धरणमुन्मूलवान्तान्नोद्धारमुक्तिषु ॥
7.15.74 · p. 212
अनुष्टुप्
कार्षापणः कार्षिकेऽस्त्री पणषोडशकेऽपि च ।पुंसि कामगुणो रागे चाभोगे विषयेऽपि च ॥
7.15.75 · p. 212
अनुष्टुप्
चूडामणिः कृष्णालके शिरोरले पुमानयम् ।जुहुराणो हुताशे स्यादध्वर्यो होतृशालिनि ॥
7.15.77 · p. 212
अनुष्टुप्metre not read in every line
भवेत्रिःसरणं मोक्षमृत्यूपायागमेषु च ।निरूपणं विचारे स्यादालोके च निदर्शने ॥
7.15.81 · p. 212
अनुष्टुप्
नारायणयभीरु-गौर्योः केशवे पुंसि कीर्त्यते ।पर्वरीणः पर्ववृन्तरसे गर्वे च मारुते ॥
7.15.82 · p. 212
metre not recognisednearly अनुष्टुप्
तथा पर्णशिरायाञ्च मृतके द्यूतकम्बले ।पत्रचूर्णरसे पुंसि क्लीबलिङ्गन्तु पर्वणि ॥
7.15.83 · p. 212
अनुष्टुप्
परीरणश्च (?) दण्डे स्यात्कमठे पढशाकटे ।परायणं तत्परे स्यादभीष्टाश्रययोरपि ॥
7.15.84 · p. 212
अनुष्टुप्
परवाणिर्वत्सरे ना धर्माध्यक्षजनेऽपि च ।परायणन्तु साकल्ये समासङ्गे गतावपि ॥
7.15.85 · p. 212
अनुष्टुप्
पीणुपर्ण्योषधिभेदे मूर्वाविम्बिकयोरपि ।पुष्करिण्यपि हस्तिन्यां नलिन्याञ्च जलाशये ॥
7.15.86 · p. 212
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धि (wrong syllable)
मधुपर्णी तु गम्भार्यां नीलीनाम महोषधे ।मीनाम्रीणः खञ्जने स्याद्दर्दुरे सहकारके ॥
7.15.87 · p. 213
अनुष्टुप्
रक्तरेणुः कोरके स्यात् सिन्दूरे च पलाशके ।रागचूर्णः कामदेवे फल्गुके दन्तधावने(?) ॥
7.15.88 · p. 213
अनुष्टुप्
लेलिहानो महादेवे भक्षके दनुजेऽपि च ।लघुकर्णश्छागले स्यादङ्कोठे राक्षसे द्विपे ॥
7.15.89 · p. 213
अनुष्टुप्
विदारणं विडम्बे स्याद् भेदे क्लीबं द्वयोर्मुपि ।अथ वैतरणी प्रेतनदयो राक्षसमातरि ॥
7.15.90 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 नद (syllable split)
शरवाणिर्बाणमुखे पचौ ना शरजीविते ।भवेच्शिखरिणीछन्दोभेदे रोमावलीषु च ॥
7.15.91 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्बा (wrong syllable)
नारीरत्ने च शालायां मल्लिकायाञ्च योषिति ।भवेत्संवरणं क्लीबे संसारे गतिमात्रके ॥
7.15.92 · p. 213
अनुष्टुप्
अवतारणं भूतादिग्रहे वस्त्राञ्चलार्चने ।प्रविदारणमाकीर्णे युद्धे स्यादवदारणे ॥
7.15.96 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णं (wrong syllable)
परिभाषणमुक्तौ स्यान्निन्दोपालम्भने यमे ।अथ मत्तवारणं स्यात्प्रभिन्नमदकुञ्जरे ॥
7.15.97 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्त (wrong syllable)
प्रासादवीथीकुन्दद्रुमानां गाढावृतावपि ।मण्डूकपर्णी मञ्जिष्ठाब्राह्मण्योः पुंसि गोलके ॥
7.15.98 · p. 213
अनुष्टुप्
रोमहर्षणं रोमाञ्चे सूते विभीतके पुमान् ।बादरायण उन्मत्ते काण्डे च करपात्रके ॥
7.15.99 · p. 213
अनुष्टुप्metre not read in every line
निष्प्रयोजनः पुंसि स्यात्सरणद्रुमकीटयोः ।
7.15.100 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नः (wrong syllable)