All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
अनेकार्थसंग्रहः · जकारादयः
अथ जकारादयो यथा ।
ज्येष्ठो मासेऽग्रजे पूज्ये ज्येष्ठा स्थाद्गृहगोधिका ।नक्षत्रेऽप्यौषधीभेदे जनो लोके पृथग्जने ॥ १९४ ॥
5.13.194 · p. 186
अनुष्टुप्
जडस्त्वज्ञे हिमग्रस्ते जनी वध्वां जगच्चरे ।जङ्गमेऽप्यथ जिष्णुः स्याज्जयशीले रवौ हरौ ॥ १९५ ॥
5.13.195 · p. 187
अनुष्टुप्
अर्जुने वासवे देवपादपेऽथ जलं जडे ।जले जिह्मोऽसमे मन्दे जिह्मं तगरपादपे ॥ १९६ ॥
5.13.196 · p. 187
अनुष्टुप्
जम्भोंऽशेऽप्यशने दन्ते तरौ तूणेऽसुरान्तरे ।जटा मांस्यां वृक्षमूले विकारे केशसंततेः ॥ १९७ ॥
5.13.197 · p. 187
अनुष्टुप्
ज्योतिर्वह्नौ दिवानाथे नक्षत्रेऽक्षिप्रकाशयोः ।जातिर्गोत्रामलक्योः स्याज्जन्मसामान्ययोरपि ॥ १९८ ॥
5.13.198 · p. 187
अनुष्टुप्
मालत्यां छन्दसां भेदे ज्यायान् शस्ते गुरावपि ।जालं तु क्षारकानायगणदर्भेषु जालके ॥ १९९ ॥
5.13.199 · p. 187
अनुष्टुप्
नटे नीपे स्मृतो जालः पटोल्यां जाल्यपि स्मृता ।जिनो बुद्धे स्मरे कृष्णेऽर्हत्ययं स्याद्विशेषतः ॥ २०० ॥
5.13.200 · p. 187
अनुष्टुप्
जृम्भितं जृम्भणोत्फुल्लचेष्टितेष्वपि वर्धिते ।जिगीषा तु जयेच्छायां व्यवसाये तथोच्यते ॥ २०१ ॥
5.13.201 · p. 187
अनुष्टुप्
संनाहे तुरगादीनां विज[23]ये जयनं तथा ।जर्जरस्तु जराव्याप्ते कोकिले वासवध्वजे ॥ २०२ ॥
5.13.202 · p. 187
अनुष्टुप्
जीविका वर्तनेऽथोक्तो जीवकः सेवके तरौ ।प्राणके चातके व्यालग्राहे वृद्ध्युपजीविनि ॥ २०३ ॥
5.13.203 · p. 188
अनुष्टुप्
जरणो जीरके नीरे रुचके कृष्णजीरके ।जम्भलो देवताभेदे जम्बीरेऽपि निशम्यते ॥ २०४ ॥
5.13.204 · p. 188
अनुष्टुप्
जटायुर्गुग्गुले वृक्षे [पक्षि?] भेदेऽथ जङ्गलम् ।निर्जले पिशिते गर्ते जम्बूलः क्रकचद्रुमे ॥ २०५ ॥
5.13.205 · p. 188
अनुष्टुप्
जीवनं सलिले जन्मवृत्त्योरपि निरीक्ष्यते ।जगती छन्दसां भेदे भूमौ लोकेऽथ जम्बुकः ॥ २०६ ॥
5.13.206 · p. 188
अनुष्टुप्
फेरौ पाशिन्यथाख्यातो जीमूतो गिरिमेघयोः ।जठरं तु कठोरे स्याच्चित्ते कुक्षौ दुमान्तरे ॥ २०७ ॥
5.13.207 · p. 188
अनुष्टुप्
जूहूराणो हये वह्नौ जीवितेशः प्रिये स्मृतः ।कालेऽथ जलसूचिस्तु शुङ्गाटे शिशुमारके ॥ २०८ ॥
5.13.208 · p. 188
अनुष्टुप्
जलौकःकङ्कयोस्त्रौटौ लोके जनपदो मतः ।पत्तने विषये मार्गे जर्जरीको जरत्तरे ॥ २०९ ॥
5.13.209 · p. 188
अनुष्टुप्
जर्जरीकं बहुच्छिद्रे जीवंजीवः खगान्तरे ।जघन्यजोऽनुजे शूद्रे जलरङ्कस्तडित्वति ॥ २१० ॥
5.13.210 · p. 188
अनुष्टुप्
नालिकेरीफलेऽथोक्तो जलरण्डो जलभ्रमे ।किञ्जल्कसर्पयोश्चाथ जीवपुष्पं फणिज्जके ॥ २११ ॥
5.13.211 · p. 189
अनुष्टुप्