धान्यांश
dhānyāṃśaIn 5 kośas: 0 synonym verses, 5 as a meaning of another word.
धान्यांश as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् कणकणोऽतिसूक्ष्मे धान्यांशे सङ्घाते प्रमथे गणः । Amarakośa 3.3.90
- धरणिकोश कणगणः स्यात्प्रमथे संघे संख्यासैन्यप्रभेदयोः । क्षणो व्यापारशून्यत्वे मुहूर्तोत्सवपर्वसु । कणोऽतिसूक्ष्मे धान्यांशे पिप्पल्यां जीरके कणा ॥ Dharaṇikośa 14.2.6
- कोषकल्पतरु कणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
- शब्दरत्नावली कणकाणोऽतिसूक्ष्मे धान्यांशे काणः काकैकचक्षुषोः ॥ Śabdaratnāvalī 7.15.5
- वैजयन्ती कणकारुस्तु विश्वकर्मापि धान्यांशे शीकरे कणः । कालो दिष्टे यमे काचो मृद्भेदे शिक्यदृग्रुजोः ॥ १५ ॥ Vaijayantī 6.1.15