All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
णान्ताः · णार्धश्लोकः
॥ णार्धश्लोकः ॥
शोणः कोकनदच्छवौ निगदितः शोणः समुद्रान्तरंशोणो लोहितघोटकोऽपि च तयोर्भेदे च शोणः स्मृतः ।वाणः स्यादसुरान्तरे कविवरे वाणी च वाग्देवतावाणौ केवलकाण्डयोश्च कथितौ वाणा स्मृता झिण्टिका ॥
14.2.1 · p. 50
शार्दूलविक्रीडितम्
शाणः ? कम्बललोम्नि स्याच्छाणी प्रावरणान्तरम् ।वेणी स्यात्पयसां मध्ये बन्धमेदे शिरोरुहाम् ॥
14.2.2 · p. 50
अनुष्टुप्
ऊर्णा मेषादिलोम्नि स्याद्भ्रूमध्यावर्तकेऽपि च ।श्रेणिः समानवर्णानां संहतिः श्रेणिरावलिः ॥
14.2.3 · p. 50
अनुष्टुप्
पार्ष्णिः कुन्त्यां समाख्याता सेनापृष्टाङ्घ्रिपार्श्वयोः ।जिष्णुश्च जित्वरे शक्रे तथा मध्यमपाण्डवे ॥
14.2.4 · p. 50
अनुष्टुप्
विष्णुर्नारायणे शुद्धे विष्णुश्च वसुदेवता ।अणुः स्वल्पे व्रीहिभेदे श्वभ्रेऽप्यणुरु[28]दाहृतः ॥
14.2.5 · p. 51
अनुष्टुप्
गणः स्यात्प्रमथे संघे संख्यासैन्यप्रभेदयोः ।क्षणो व्यापारशून्यत्वे मुहूर्तोत्सवपर्वसु ।कणोऽतिसूक्ष्मे धान्यांशे पिप्पल्यां जीरके कणा ॥
14.2.6 · p. 51
अनुष्टुप्
धर्षणं निधुवने पराभवे धर्षणी च गदिताथ पुंश्चली ।कङ्कणं वरविवाहमुद्रके मण्डने च वलये च शेखरे ॥
14.2.7 · p. 51
रथोद्धता
मत्कुणोऽश्मश्रुपुरुष उद्दंशादन्तदन्तिनोः ।हर्षणोऽक्षिरुजां भेदे हर्षणौ [योग?]हर्षकौ ॥
14.2.8 · p. 51
अनुष्टुप्
वारणं प्रतिषेधः स्याद्वारणो गज उच्यते ।मार्गणो याचके बाणे याच्ञान्वेषणयोरपि ॥
14.2.9 · p. 51
अनुष्टुप्
एषणी व्रणमार्गानुसारिणी वणिजां तुला ।क्षेपणी जालभेदे स्यान्नौकादण्डे च कीर्तिता ॥
14.2.10 · p. 51
अनुष्टुप्
हरेणुश्च कलापः स्याद्धरेणुश्चापि रेणुका ।इन्द्राणी सिन्दुवारे स्याच्छच्यां स्त्रीकरणेऽपि च ॥
14.2.11 · p. 52
अनुष्टुप्
ग्रामणीश्च प्रधाने स्यात्पतिनापितभोगिषु ।सिङ्घाणं काचपात्रे स्याल्लोहनासिकयोरपि ॥
14.2.12 · p. 52
अनुष्टुप्
कल्याणं मङ्गलं विद्यात्काञ्चनं यदक्षयम् ।निर्याणं द्विरदापाङ्गे मोक्षे निर्गमनेऽपि च ॥
14.2.13 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विषाणं द्विरदक्रोडदन्ते शृङ्गे पशोरपि ।श्रीपर्णमग्निमन्थः स्यात्कम्भार्यां कमलेऽपि च ॥
14.2.14 · p. 52
अनुष्टुप्
पत्रोर्णे धौतकौशेयं पत्रोर्णं शोणकं विदुः ।सुवर्णे हेम्नि तत्कर्षे सुवर्णे हरिचन्दने ॥
14.2.15 · p. 52
अनुष्टुप्
सुपर्णै तार्क्षवासन्तौ ? सुपर्णा गरुडप्रसूः ।विपणिः पण्यवीथी स्याद्वि[29]पणिश्चापणः स्मृतः ॥
14.2.16 · p. 52
अनुष्टुप्
तरणिः कुमारिकाख्यायामोषधौ नावि भास्करे ।भरणी घोषके ऋक्षे भरणं वेतने भृतौ ॥
14.2.17 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
धिषणस्त्रिदशाचार्ये धिषणा धीरपि स्मृता ।लवणाः कथिता भेदाः समुद्ररसरक्षसाम् ॥
14.2.18 · p. 53
अनुष्टुप्
वरणः स्मृतः प्राकारे वरणो वरणद्रुमे ।श्रवणो नक्षत्रभेदे स्याच्छ्रवणं श्रुतिकर्णयोः ॥
14.2.19 · p. 53
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 तः (wrong syllable); pāda 4, syllable 2 च्छ्रव (syllable split)
चरणोऽङ्घ्रौ बह्वृचादौ च चरणं भ्रमणे दले ।शरणं गृहरक्षित्रोः शरणं रक्षणे वधे ॥
14.2.20 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रवणः शब्दने प्रोक्तो रवणो गर्दभः स्मृतः ।धरणो मानभेदे स्याद्धरणी धारणे भुवि ॥
14.2.22 · p. 53
अनुष्टुप्
रमणं पटोलमूलं च रमणः कान्त इष्यते ।ऊषणं मरिचे ख्यातमूषणा पिप्पली मता ॥
14.2.24 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
श्रमणा भिक्षुणी प्रोक्ता मुण्डीरी श्रमणा मता ।अरणिर्वह्निमन्थे स्यादरणिर्मन्थ्यदारुणि ॥
14.2.25 · p. 54
अनुष्टुप्
आतर्पणं प्रीणने स्यान्मङ्गलालेपनेऽपि च ।प्रवारणं [निषेधे ?] स्यात्काम्यदानं प्रवारणम् ॥
14.2.26 · p. 54
अनुष्टुप्
विदारणं [रणे भेदे विडम्बे च विदारणं?] ।आरोहणं स्यात्सोपानं समारोहणमात्रकम् ॥
14.2.27 · p. 54
अनुष्टुप्
उद्धरणं समुद्धारे वान्ता[न्ने] वमनेऽपि च ।निरूपणं विचारे स्यात्परीक्षायां च दर्शने ॥
14.2.28 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
परायण[म]भीष्टे स्यात्तत्परे च परायणम् ।पारायणं [30] समासंगे कार्त्स्ने पारायणं मतम् ॥
14.2.29 · p. 55
अनुष्टुप्
समीरणः स्मृतो वाते समीरणः फणिज्झके ।नारायणो हृषीकेशे नारायणी शतावरी ॥
14.2.30 · p. 55
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 3 य (wrong syllable)
देवमणिः समाख्यातः कौस्तुभे वाजिलक्षणे ।उत्क्षेपणं तु व्यजनं धान्यमर्दनवस्तुषु ॥
14.2.31 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
निगरणमभ्यवहारे निगरणो गल उच्यते ।दाक्षायणीं विदुर्दुर्गामश्विनाद्याश्च तारकाः ॥
14.2.32 · p. 55
अनुष्टुप्metre not read in every line
अपारिणी रवित्यक्ता दिक् स्यादङ्गारधानिका ।पीलुपर्णी तु मूर्वा स्यात्पीलुपर्णी तु बिम्बिका ॥
14.2.33 · p. 55
अनुष्टुप्
तैलपर्णी तु श्रीवासे तथा भवति चन्दने ।पुष्करिण्यो जलाधाराः सरस्यश्च प्रकीर्तिताः ॥
14.2.34 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)