कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

तृतीयं सामान्यकाण्डम् · नानार्थवर्गः (1/5)

इति सङ्कीर्णवर्गः

अथ नानार्थवर्गः

नानार्थाः केऽपि कान्तादि वर्गेष्वेवात्र कीर्तिताः ।भूरि प्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥ १ ॥
3.3.1
अनुष्टुप्
आकाशे त्रिदिवे नाको लोकस्तु भुवने जने ।पद्ये यशसि च श्लोकः शरे खड्गे च सायकः ॥ २ ॥
3.3.2
अनुष्टुप्
जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ ।
3.3.3
अनुष्टुप्
आलोकौ दर्शनोद्योतौ भेरीपटहमानकौ ॥ ३ ॥
3.3.3
अनुष्टुप्
उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः ।
3.3.5
अनुष्टुप्
तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः ॥ ४ ॥
3.3.4
अनुष्टुप्
मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोऽम्बुनोः ।
3.3.7
अनुष्टुप्
स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ॥ ५ ॥
3.3.5
अनुष्टुप्
उलूके करिणः पुच्छमूलोपान्ते च पेचकः ।
3.3.9
अनुष्टुप्
कमण्डलौ च करकः सुगते च विनायकः ॥ ६ ॥
3.3.6
अनुष्टुप्
किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः ।
3.3.11
अनुष्टुप्
प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम् ॥ ७ ॥
3.3.7
अनुष्टुप्
स्याद्भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च ।
3.3.13
अनुष्टुप्
ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले ॥ ८ ॥सिते च खदिरे सोमवल्कः स्यादथ सिह्लके ।तिलकल्के च पिण्याको बाह्लीकं रामठेऽपि च ॥ ९ ॥
3.3.9
अनुष्टुप्
महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः ।
3.3.15
अनुष्टुप्
रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु ॥ १० ॥
3.3.10
अनुष्टुप्
जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः ।व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः ॥ ११ ॥
3.3.11
अनुष्टुप्
शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम् ।
3.3.18
अनुष्टुप्
पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते ॥ १२ ॥
3.3.12
अनुष्टुप्
शीलान्वयावनूके द्वे शल्के शकलवल्कले ।
3.3.20
अनुष्टुप्
साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले ॥ १३ ॥दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः ।दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः ॥ १४ ॥
3.3.14
अनुष्टुप्
धेनुका तु करेण्वां च मेघजाले च कालिका ।
3.3.22
अनुष्टुप्
कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे ॥ १५ ॥करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे ।वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः ॥ १६ ॥
3.3.16
अनुष्टुप्
स्याद्दाम्भिके कौक्कुटिको यश्चादूरेरितेक्षणः ।
3.3.24
अनुष्टुप्
लालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः ॥
3.3.25
अनुष्टुप्
भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् ।
3.3.26
अनुष्टुप्
सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः ॥
3.3.27
अनुष्टुप्
पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः ।
3.3.28
अनुष्टुप्
पर्यङ्कः स्यात्परिकरे स्याद्व्याधेऽपि च लुब्धकः ॥
3.3.29
अनुष्टुप्
पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः ।
3.3.30
अनुष्टुप्
खेटकौ ग्रामफलकौ धीवरेऽपि च जालिकः ॥
3.3.31
अनुष्टुप्
पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च ।
3.3.32
अनुष्टुप्
स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः ॥
3.3.33
अनुष्टुप्
करिण्यां चापि गणिका दारकौ बालभेदकौ ।
3.3.34
अनुष्टुप्
अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ ॥
3.3.35
अनुष्टुप्
मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके ॥ १७ ॥
3.3.17
मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ ।
3.3.37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
शङ्खो निधौ ललटास्थ्नि कम्बौ न स्त्रीन्द्रियेऽपि खम् ॥ १८ ॥
3.3.18
अनुष्टुप्metre not read in every line
घृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ ।
3.3.39
अनुष्टुप्
आशुगौ वायुविशिखौ शरार्कविहगाः खगाः ॥ १९ ॥
3.3.19
अनुष्टुप्
पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः ।
3.3.41
अनुष्टुप्
पशवोऽपि मृगा वेगः प्रवाहजवयोरपि ॥ २० ॥
3.3.20
अनुष्टुप्
परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि ।
3.3.43
अनुष्टुप्
गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च ॥ २१ ॥
3.3.21
अनुष्टुप्
सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु ।
3.3.45
अनुष्टुप्
योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु ॥ २२ ॥
3.3.22
अनुष्टुप्
भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः ।
3.3.47
अनुष्टुप्
चातके हरिणे पुंसि सारङ्गः शबले त्रिषु ॥ २३ ॥
3.3.23
अनुष्टुप्
कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे ।यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥ २४ ॥
3.3.24
अनुष्टुप्
स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले ।लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः ॥ २५ ॥
3.3.25
अनुष्टुप्
शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः ।
3.3.51
अनुष्टुप्
भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ २६ ॥
3.3.26
अनुष्टुप्
परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये ।
3.3.53
अनुष्टुप्
मूल्ये पूजाविधावर्घोंऽहोदुःखव्यसनेष्वघम् ॥ २७ ॥
3.3.27
अनुष्टुप्
त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः ।
3.3.55
अनुष्टुप्
विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः ॥ २८ ॥मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु ।
3.3.56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् ॥ २९ ॥
3.3.29
अनुष्टुप्metre not read in every line
प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः ।
3.3.58
अनुष्टुप्
परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः ॥
3.3.59
अनुष्टुप्
केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः ।
3.3.60
अनुष्टुप्
अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः ॥ ३० ॥
3.3.30
अनुष्टुप्
धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् ।
3.3.62
अनुष्टुप्
वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना ॥ ३१ ॥
3.3.31
अनुष्टुप्
समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्सन्ततौ जने ।
3.3.64
अनुष्टुप्
अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु ॥ ३२ ॥
3.3.32
अनुष्टुप्
पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः ।
3.3.66
अनुष्टुप्
संज्ञा स्याच्चेतनानामहस्ताद्यैश्चार्थसूचना ॥ ३३ ॥
3.3.33
अनुष्टुप्
काकेभगण्डौ करटौ गजगण्डकटी कटौ ।
3.3.68
अनुष्टुप्
शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ॥ ३४ ॥
3.3.34
अनुष्टुप्
देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः ।
3.3.70
अनुष्टुप्
रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ॥ ३५ ॥
3.3.35
अनुष्टुप्
रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे ।
3.3.72
अनुष्टुप्
मायानिश्चलयन्त्रेषु कैतवानृतराशिषु ॥ ३६ ॥अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् ।
3.3.73
अनुष्टुप्
सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा ॥ ३७ ॥
3.3.37
अनुष्टुप्
आर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा ।
3.3.75
अनुष्टुप्
व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने ॥ ३८ ॥
3.3.38
अनुष्टुप्
इष्टिर्यागेच्छयोः सृष्टिर्निश्चिते बहुनि त्रिषु ।
3.3.77
अनुष्टुप्
कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु ॥ ३९ ॥पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च ।
3.3.78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्त (wrong syllable)
पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा ॥ ४० ॥
3.3.40
अनुष्टुप्metre not read in every line
निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि ।
3.3.80
अनुष्टुप्
त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः ॥ ४१ ॥
3.3.41
अनुष्टुप्
दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः ।
3.3.82
अनुष्टुप्
सर्पमांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः ॥ ४२ ॥
3.3.42
अनुष्टुप्
क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे ।
3.3.84
अनुष्टुप्
काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु ॥ ४३ ॥
3.3.43
अनुष्टुप्
स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने ।
3.3.86
अनुष्टुप्
भृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः ॥ ४४ ॥
3.3.44
अनुष्टुप्
शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ ।
3.3.88
अनुष्टुप्
भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे ॥ ४५ ॥
3.3.45
अनुष्टुप्
कणोऽतिसूक्ष्मे धान्यांशे सङ्घाते प्रमथे गणः ।
3.3.90
अनुष्टुप्
पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥ ४६ ॥
3.3.46
अनुष्टुप्
मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः ।
3.3.92
अनुष्टुप्
निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ॥ ४७ ॥
3.3.47
अनुष्टुप्
वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे ।
3.3.94
अनुष्टुप्
अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु ॥ ४८ ॥
3.3.48
अनुष्टुप्
स्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः ।
3.3.96
अनुष्टुप्
ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ॥ ४९ ॥
3.3.49
अनुष्टुप्
ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः ।
3.3.98
अनुष्टुप्
हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या ॥ ५० ॥
3.3.50
अनुष्टुप्
त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः ।
3.3.100
अनुष्टुप्
तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे ॥ ५१ ॥
3.3.51
अनुष्टुप्
वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी ।
3.3.102
अनुष्टुप्
करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् ॥ ५२ ॥
3.3.52
अनुष्टुप्
शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च ।
3.3.104
अनुष्टुप्
विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु ॥ ५३ ॥
3.3.53
अनुष्टुप्
प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ।
3.3.106
अनुष्टुप्
करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि ॥ ५४ ॥
3.3.54
अनुष्टुप्
प्राण्युत्पादे संसरणमसंबाधचमूगतौ ।घण्टापथेऽथ वान्तान्ने समुद्गिरणमुन्नये ॥ ५५ ॥
3.3.55
अनुष्टुप्
अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः ।
3.3.109
अनुष्टुप्
प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे ॥ ५६ ॥
3.3.56
अनुष्टुप्
सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम् ।
3.3.111
अनुष्टुप्
सेतौ च वरणो वेणी नदीभेदे कचोच्चये ।
3.3.112
अनुष्टुप्
देवसूर्यौ विवस्वन्तौ सरस्वन्तौ नदार्णवौ ॥ ५७ ॥
3.3.57
अनुष्टुप्
पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ ।
3.3.114
अनुष्टुप्
अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ ॥ ५८ ॥
3.3.58
अनुष्टुप्
हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ ।
3.3.116
अनुष्टुप्
यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि ॥ ५९ ॥
3.3.59
अनुष्टुप्
यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते ।
3.3.118
अनुष्टुप्
ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः ॥ ६० ॥
3.3.60
अनुष्टुप्
स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे ।
3.3.120
अनुष्टुप्