कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

द्व्यक्षरकाण्डः · पुंलिङ्गाध्यायः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां सामान्यकाण्डे अर्थवल्लिङ्गाध्यायः

सामान्यकाण्डस्समाप्तः

अथ काण्डैरनेकार्थाः प्रोच्यन्तेऽत्र परैस्त्रिभिः ।द्व्यक्षरास्त्र्यक्षराः शेषा इति काण्डेषु ते क्रमात् ॥ १ ॥
6.1.1 · p. 214
अनुष्टुप्
अकारादि हकारान्तं नाम्नामाद्यक्षरक्रमात् ।संग्रहो द्व्यक्षरादीनां प्रोक्तान्प्रायो विना पुरा ॥ २ ॥
6.1.2 · p. 214
अनुष्टुप्
अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने ।व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु ॥ ३ ॥
6.1.3 · p. 214
अनुष्टुप्
अर्कोऽर्कपर्णे स्फटिके ज्येष्ठभ्रातरि भास्वति ।अवयः शैलमेषार्का अद्रयोऽर्कगिरिद्रुमाः ॥ ४ ॥
6.1.4 · p. 214
अनुष्टुप्
अट्टावतिशयक्षौमावर्घौ पूजाप्रतिक्रयौ ।अर्याः शास्तृस्वामिवैश्याः सर्पे वृत्त्रासुरेऽप्यहिः ॥ ५ ॥
6.1.5 · p. 214
अनुष्टुप्
अंशुः सूत्रादिसूक्ष्मांशेऽप्यंकश्चिह्नेंऽतिकोरसोः ।आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि ॥ ६ ॥
6.1.6 · p. 214
अनुष्टुप्
यत्नेऽर्केऽग्नौ मतौ वातेऽप्याखू सूकरमूषिकौ ।आधिस्तु व्यसने चित्तदुःखेऽधिष्ठानबंधयोः ॥ ७ ॥
6.1.7 · p. 214
अनुष्टुप्
इंद्रो विषात्मशक्रार्केष्वीश्वरे नामतः परः ।इष्वोऽभिलाष आचार्य ऊमो व्योम्नि पुरेऽपि च ॥ ८ ॥
6.1.8 · p. 214
अनुष्टुप्
ग्रीष्मोष्णबाष्पा ऊष्माण ऊर्जावुत्साहकार्तिकौ ।ऋषिस्तु वेदे भृग्वादौ ज्ञानवृद्धे दिगंबरे ॥ ९ ॥
6.1.9 · p. 214
अनुष्टुप्
ओघः परंपरायां स्याज्जलस्रोतसि संचये ।करो घनोपले हस्ते प्रत्याये रश्मिशुण्डयोः ॥ १० ॥
6.1.10 · p. 214
अनुष्टुप्
दातुं भूषितकन्यायां कूपो गर्ते प्रहावपि ।क्षणो व्यापारवैकल्ये कालभेदाल्पकालयोः ॥ ११ ॥
6.1.11 · p. 214
अनुष्टुप्
उत्सवे परतन्त्रत्वे मध्यावसरपर्वसु ।कन्तू कुसूलकन्दर्पौ प्राज्ञकाव्यकृतौ कवी ॥ १२ ॥
6.1.12 · p. 215
अनुष्टुप्
कण्ठो गलेऽन्तिके शब्दे कपयोऽर्केभवानराः ।गुडभस्मरसाः क्षाराः क्षोदो रजसि पेषणे ॥ १३ ॥
6.1.13 · p. 215
अनुष्टुप्
क्रतू अध्वरसंकल्पौ कल्पान्तेऽपचये क्षयः ।कुक्षौ वासे च कच्छस्तु पार्श्वे गुह्यांबरे तटे ॥ १४ ॥
6.1.14 · p. 215
अनुष्टुप्
कारुस्तु विश्वकर्मापि धान्यांशे शीकरे कणः ।कालो दिष्टे यमे काचो मृद्भेदे शिक्यदृग्रुजोः ॥ १५ ॥
6.1.15 · p. 215
अनुष्टुप्
उत्पातेंऽके ध्वजे केतुः क्लेदौषधिशशांकयोः ।कोणाः शब्दाश्रिलगुडाः कल्पो न्याये सुरद्रुमे ॥ १६ ॥
6.1.16 · p. 215
अनुष्टुप्
विकल्पेऽपि च कक्षस्तु गुल्मे स्पर्धापदे तृणे ।काम्यस्पृहास्मराः कामाः कलहेऽन्त्ययुगे कलिः ॥ १७ ॥
6.1.17 · p. 215
अनुष्टुप्
कुंभो गजशिरोऽन्तेऽपि पक्ष्यर्केष्वनिलाः खगाः ।खरुः पुंस्मररुद्रेषु गर्मुद्रुक्मे खगे रवौ ॥ १८ ॥
6.1.18 · p. 215
अनुष्टुप्
गणाः प्रमथसंख्यौघा ग्रावाणौ पर्वतोपलौ ।तन्तुनागाग्रहौ ग्राहौ गुल्मो व्यूढा च वाहिनी ॥ १९ ॥
6.1.19 · p. 215
अनुष्टुप्
गण्डो गर्वेऽप्यथार्कादिसत्त्वादानाग्रहा ग्रहाः ।गुणस्त्वावृत्तिशब्दादिज्येंद्रियामुख्यतन्तुषु ॥ २० ॥
6.1.20 · p. 215
अनुष्टुप्
ग्रंथो द्रव्यं वचः शास्त्रं द्वात्रिंशद्वर्णसंचयः ।गर्भोऽपवरकेऽन्नेऽग्नौ सुते पनसकंटके ॥ २१ ॥
6.1.21 · p. 215
अनुष्टुप्
कुक्षौ कुक्षिस्थजन्तौ च गंधो लेशे महीगुणे ।घृणिर्ज्वालांशुवीचीषु चरुः स्थाल्यां हविष्यपि ॥ २२ ॥
6.1.22 · p. 215
अनुष्टुप्
चटुश्चाटुश्च राजादिस्तुतौ पशुपिचिंडके ।चक्री विष्णौ कुलालेऽहौ च्युपौ पवनसंक्रमौ ॥ २३ ॥
6.1.23 · p. 215
अनुष्टुप्
वशाभिप्राययोश्छंदो जूर्णी रविहविर्भुजौ ।टंकौ प्रमाणगर्वौ च डिंबः प्लीहखगांडयोः ॥ २४ ॥
6.1.24 · p. 216
अनुष्टुप्
तर्काः कांक्षावितर्कोहास्त्वष्टा तक्ष्णि द्युशिल्पिनि ।मणिदोषे भये त्रासस्तिष्यः पुष्ये कलौ युगे ॥ २५ ॥
6.1.25 · p. 216
अनुष्टुप्
द्वारपाले यमे दण्डी दन्तोऽद्रिकटके रदे ।दायो दाने यौतकादिधने वित्ते च पौतृके ॥ २६ ॥
6.1.26 · p. 216
अनुष्टुप्
दुवदावौ वनारण्यवह्न्योः स्वर्गार्कयोर्द्युवा ।धवो वृक्षे नरे पत्यौ ध्वांक्षः स्याद्वायसे बके ॥ २७ ॥
6.1.27 · p. 216
अनुष्टुप्
धातुर्वातादिशब्दादिगैरिकादित्वगादिषु ।महाभूतेष्विंद्रियेषु शब्दयोनिस्वभावयोः ॥ २८ ॥
6.1.28 · p. 216
अनुष्टुप्
लोहेऽर्थे गैरिकस्वर्णरेतोऽस्थिषु विशेषतः ।नरोऽर्जुने मनुष्ये च नाकः स्वर्गान्तरिक्षयोः ॥ २९ ॥
6.1.29 · p. 216
अनुष्टुप्
ग्राहाभ्राहिगजा नागा नाभिः क्षत्रे महानृपे ।न्यंकुर्गुरुकुलेवासी शिष्यो मुनिमृगावपि ॥ ३० ॥
6.1.30 · p. 216
अनुष्टुप्
नाशः पलायने मृत्यौ परिध्वंसेऽप्यदर्शने ।नग्ना वैतालिकाद्याश्च पिण्डो वृत्ते तनौ गुडे ॥ ३१ ॥
6.1.31 · p. 216
अनुष्टुप्
पीयुः काल उलूके च पीलुः काण्डे गजे द्रुमे ।पुण्ट्राः कृमीक्षुतिलकाः पत्री श्येने शरे खगे ॥ ३२ ॥
6.1.32 · p. 216
अनुष्टुप्
प्रेषणे मर्दने प्रैषः पुंखः श्वेतशरांगयोः ।पवी वातास्त्रधारे च पाकपोतौ शिशावपि ॥ ३३ ॥
6.1.33 · p. 216
अनुष्टुप्
पट्टो नेत्रेऽपि शाणे स्यात् पिण्डिः कल्केऽपि तैलजे ।पणो मूल्ये ग्लहे माने कार्षिकव्यवहारयोः ॥ ३४ ॥
6.1.34 · p. 216
अनुष्टुप्
द्यूते विक्रय्यशाकादिबद्धमुष्टौ भृतौ धने ।पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु ॥ ३५ ॥
6.1.35 · p. 216
अनुष्टुप्
पार्श्वद्वारे विरोधेऽर्धमासे चुल्लिबिलेऽन्तिके ।प्रायो वयसि बाहुल्ये तुल्यानशनमृत्युषु ॥ ३६ ॥
6.1.36 · p. 217
अनुष्टुप्
पाशो रज्जौ कर्णशब्दात्परः कर्णेऽतिशोभने ।क्रमनिम्नमहीभागकपिप्लुतिखगाः प्लवाः ॥ ३७ ॥
6.1.37 · p. 217
अनुष्टुप्
प्राणस्तु प्रणवे जीवे जीविते परमात्मनि ।इन्द्रिये वायुभेदे च बलान्तर्यामिणोरापि ॥ ३८ ॥
6.1.38 · p. 217
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 रा (wrong syllable)
श्वेतार्के डाडिमे फालो बन्धाः सीसाधियन्त्रणाः ।बलिः पूजोपहारे च दैत्यभेदे करेऽपि च ॥ ३९ ॥
6.1.39 · p. 217
अनुष्टुप्
बाष्पोऽश्रुण्यंबुधूमे च भानवोऽर्कहरांशवः ।भ्रूणोऽर्भके स्त्रैणगर्भे गर्भिण्यां श्रोत्रियद्विजे ॥ ४० ॥
6.1.40 · p. 217
अनुष्टुप्
भवो भद्रे हरे प्राप्तौ सत्तासंसारजन्मसु ।भागा भाग्यांशतुर्यांशा भरभारौ गरिम्ण्यपि ॥ ४१ ॥
6.1.41 · p. 217
अनुष्टुप्
भरवीवधयोश्चान्त्यौ भूस्पृशौ वैश्यमानवौ ।विश्लेषे दारणे भेदो भेनः सूर्ये निशाकरे ॥ ४२ ॥
6.1.42 · p. 217
अनुष्टुप्
भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु ।पदार्थमात्रे सत्तायामात्मयोनिस्वभावयोः ॥ ४३ ॥
6.1.43 · p. 217
अनुष्टुप्
भोगो राज्ये धने सौख्ये पालनाभ्यवहारयोः ।फणे देहे च सर्पस्य वेश्यादीनां भृतावपि ॥ ४४ ॥
6.1.44 · p. 217
अनुष्टुप्
मन्त्रावृगादिगुह्योक्ती मन्युर्दैन्येऽध्वरे क्रुधि ।मर्को मनसि वायौ च मोहाः क्रुन्मौर्ख्यमूढताः ॥ ४५ ॥
6.1.45 · p. 217
अनुष्टुप्
मार्गो मृगपदे मासि सौम्यर्क्षेऽन्वेषणेऽध्वनि ।मूत आतञ्चने व्रीहौ व्रीह्यादेर्बन्धने तृणैः ॥ ४६ ॥
6.1.46 · p. 217
अनुष्टुप्
मृगस्तु मृगशीर्षेऽपि मोक्षो मृत्यौ मरुद्गिरौ ।यन्ता हस्तिपके सूते यज्ञोऽग्न्यात्महरीष्टिषु ॥ ४७ ॥
6.1.47 · p. 217
अनुष्टुप्
ययुरश्वेऽश्वमेधाश्वे योगो विस्रब्धघातिनि ।प्राप्तौ सन्नहनोपायध्यानसंगतियुक्तिषु ॥ ४८ ॥
6.1.48 · p. 218
अनुष्टुप्
रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे ।रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ॥ ४९ ॥
6.1.49 · p. 218
अनुष्टुप्
रश्मी ज्वालाप्रग्रहौ च रदो दन्तविलेखयोः ।राजा तु क्षत्रिये चन्द्रे लताभेदे नृपे प्रभौ ॥ ५० ॥
6.1.50 · p. 218
अनुष्टुप्
रागोऽनुरागे लाक्षादौ त्विषि राकस्तु पृष्णि च ।रंगौ तु स्थानरागौ च भूप्रदेशे मृगे लिगुः ॥ ५१ ॥
6.1.51 · p. 218
अनुष्टुप्
भोजने लेपने लेपो लोकः स्याद्विष्टपे जने ।वंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणौ गणे कुले ॥ ५२ ॥
6.1.52 · p. 218
अनुष्टुप्
नासोर्ध्वास्थ्नीक्षुभेदे च वहिरुक्ष्णि हयेऽनले ।वलो धान्येऽसुरे काके गवां श्वासेऽनिले वहः ॥ ५३ ॥
6.1.53 · p. 218
अनुष्टुप्
वेणू वेदसहस्रांशू गोष्ठाध्वनिवहा व्रजाः ।वालौ पुच्छाश्वपुच्छौ च व्याजश्छद्मापदेशयोः ॥ ५४ ॥
6.1.54 · p. 218
अनुष्टुप्
विधी तु दैवकालौ च वाजी त्वश्वे शरे खगे ।विधुर्निशाकरे काले विष्णौ वातेऽग्निरक्षसोः ॥ ५५ ॥
6.1.55 · p. 218
अनुष्टुप्
बृन्दविन्यासयोर्व्यूहो वृषोक्ष्ण्यऽग्र्ये पुमिन्द्रयोः ।वृत्राः शत्रुतमोदैत्या वेगः किंपाकरंहसोः ॥ ५६ ॥
6.1.56 · p. 218
अनुष्टुप्
वेधसो विष्णुधातृज्ञाः शादः कर्दमशष्पयोः ।शंभुर्धातृहरार्हत्सु शक्रः कुटजवज्रिणोः ॥ ५७ ॥
6.1.57 · p. 218
अनुष्टुप्
शंबो वज्रे लोहमयवलये मुसलाग्रगे ।शरो रसाग्रसारेऽपि शूकोऽनुक्रोशशुंगयोः ॥ ५८ ॥
6.1.58 · p. 218
अनुष्टुप्
शब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ ।शंकुः पत्रसिराजाले कीलेऽस्त्रे मेढ्रसंख्ययोः ॥ ५९ ॥
6.1.59 · p. 218
अनुष्टुप्
कुक्कुटेऽग्नौ मयूरेंऽशौ वृक्षे केतुग्रहे शिखी ।पद्ये यशसि च श्लोकः षण्डौ विट्चरपण्डकौ ॥ ६० ॥
6.1.60 · p. 218
अनुष्टुप्
ष्ट्यूमस्यूमौ जले चन्द्रे तन्तुमंगलरश्मिषु ।सम्राजोऽग्नीन्द्रविष्ण्वर्का यश्च स्यान्मण्डलेश्वरः ॥ ६१ ॥
6.1.61 · p. 219
अनुष्टुप्
राजसूयेन येनेष्टं राज्ञः शास्त्याज्ञया च यः ।सर्गास्तु सर्जनाध्यायस्वभावोत्साहनिश्चयाः ॥ ६२ ॥
6.1.62 · p. 219
अनुष्टुप्
सन्धिः श्लेषे सुरुंगायां नाट्यांगे योनिरन्ध्रयोः ।स्वरोऽकाराद्युदात्ताद्योः षड्जादौ प्राणिनां स्वने ॥ ६३ ॥
6.1.63 · p. 219
अनुष्टुप्
सरटौ पक्षिजलदौ स्पशौ तु चरसंयुगौ ।स्तंभौ स्थूणाजडीभावौ यूपांशे कुलिशे स्वरुः ॥ ६४ ॥
6.1.64 · p. 219
अनुष्टुप्
स्कन्दो धाता नदीकूलं साद्यश्वारोहसूतयोः ।सालो मत्स्ये वृक्षभेदे प्राकारद्रुममात्रयोः ॥ ६५ ॥
6.1.65 · p. 219
अनुष्टुप्
सिक्थो ना भक्तपूलाके मधूच्छिष्टे क्वचिन्नपुम् ।सुतः पुत्रे सोमरसे सोमौ व्योमनिशाकरौ ॥ ६६ ॥
6.1.66 · p. 219
अनुष्टुप्
स्तूपा वायुरणोच्छ्राया आज्ञाह्वानाध्वरा हवाः ।हर्तुर्मृत्यौ महारागे हरा रुद्राग्निगर्दभाः ॥ ६७ ॥
6.1.67 · p. 219
अनुष्टुप्
हंसोऽश्वेऽर्के हरे विष्णौ खगे निर्लोभभूभुजि ।जीवे श्वेतवृषे भिक्षौ पार्ष्णिकाप्रसभौ हठौ ॥ ६८ ॥
6.1.68 · p. 219
अनुष्टुप्
वारिपर्णी च हेतुस्तु कारणे कर्मजन्मनोः ।हीरः सर्पे हरे सिंहे हेलिरालिंगने रवौ ॥ ६९ ॥
6.1.69 · p. 219
अनुष्टुप्